निर्वाणप्रकरणं - सर्गः ३८
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
ईश्वर उवाच ।
एष देवः स परमः पूज्य एष सदा सताम् ।
चिन्मात्रमनुभूत्यात्मा सर्वगः सर्वसंश्रयः ॥१॥
घटे पटे वटे कुड्ये शकटे वानरे स्थितः ।
शिवो हरो हरिर्ब्रह्मा शक्रो वैश्रवणो यमः ॥२॥
बहिरन्तश्च सर्वात्मा सदा स्वात्मा सुबुद्धिभिः ।
विविधेन क्रमेणैव भगवान्परिपूज्यते ॥३॥
बहिस्तावन्महाबुद्धे क्रमेण परिपूज्यते ।
येन तच्छृणु तत्त्वज्ञ श्रोष्यस्यन्तःक्रमं ततः ॥४॥
पूजाक्रमेषु सर्वेषु देहगेहं पवित्रकम् ।
त्याज्यं देहावबोधात्म परं यत्नात्पवित्रकम् ॥५॥
पूजनं ध्यानमेवान्तर्नान्यदस्त्यस्य पूजनम् ।
तस्मात्त्रिभुवनाधारं नित्यं ध्यानेन पूजयेत् ॥६॥
चिद्रूपं सूर्यलक्षाभं समस्ताभासभासनम् ।
अन्तस्थचित्प्रकाशं स्वमहंतासारमाश्रयेत् ॥७॥
अपारपरमाकाशविपुलाभोगकन्धरम् ।
अनन्ताधस्तनाकाशकोशपादसरोरुहम् ॥८॥
अनन्तदिक्तटाभोगभुजमण्डलमण्डितम् ।
नानाविधमहालोकगृहीतपरमायुधम् ॥९॥
हृत्कोशकोणविश्रान्तब्रह्माण्डौघपरम्परम् ।
प्रकाशपरमाकाशपारगापारविग्रहम् ॥१०॥
अध ऊर्ध्वं चतुर्दिक्षु विदिक्षु च निरन्तरम् ।
ब्रह्मेन्द्रहरिरुद्रेशप्रमुखामरमण्डितम् ॥११॥
इमां भूतश्रियं तस्य रोमालिं प्रविचिन्तयेत् ।
विविधारम्भकारिण्यस्त्रिजगद्यन्त्ररज्जवः ॥१२॥
इच्छाद्याः शक्तयस्तस्य चिन्तनीयाः शरीरगाः ।
एष देवः स परमः पूज्य एष सदा सताम् ॥१३॥
चिन्मात्रमनुभूत्यात्मा सर्वगः सर्वसंश्रयः ।
घटे पटे वटे कुड्ये शकटे वानरे स्थितः ॥१४॥
शिवो हरो हरिर्ब्रह्मा शक्रो वैश्रवणो यमः ।
अनन्तैकपदाधारसत्तामात्रैकविग्रहः ॥१५॥
विवर्तितजगज्जालः कालोऽस्य द्वारपालकः ।
सशैलभुवनाभोगमिदं ब्रह्माण्डमण्डलम् ॥१६॥
देहकोणोऽस्य कस्मिंश्चित्स्वाङ्गावयवतां गतम् ।
विचिन्तयेन्महादेवं सहस्रश्रवणेक्षणम् ॥१७॥
सहस्रशिरसं शान्तं सहस्रभुजभूषणम् ।
सर्वत्रेक्षणशक्त्याढ्यं सर्वतो घ्राणशक्तिकम् ॥१८॥
सर्वतः स्पर्शनमयं सर्वतो रसनान्वितम् ।
सर्वत्र श्रवणाकीर्णं सर्वत्र मननान्वितम् ॥१९॥
सर्वतो मननातीतं सर्वतः परमं शिवम् ।
सर्वदा सर्वकर्तारं सर्वसंकल्पितार्थदम् ॥२०॥
सर्वभूतान्तरावस्थं सर्वं सर्वैकसाधनम् ।
इति संचिन्त्य देवेशमर्चयेद्विधिवत्ततः ॥२१॥
विधानमर्चनस्येदं श्रृणु ब्रह्मविदां वर ।
स्वसंविदात्मा देवोऽयं नोपहारेण पूज्यते ॥२२॥
न दीपेन न धूपेन न पुष्पविभवार्पणैः ।
नान्नदानादिदानेन न चन्दनविलेपनैः ॥२३॥
न च कुङ्कुमकर्पूरभोगैश्चित्रैर्न चेतरैः ।
नित्यमक्लेशलभ्येन शीतलेनाऽविनाशिना ॥२४॥
एकेनैवाऽमृतेनैष बोधेन स्वेन पूज्यते ।
एतदेव परं ध्यानं पूजैषैव परा स्मृता ॥२५॥
यदनारतमन्तस्थशुद्धचिन्मात्रवेदनम् ।
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपन्श्वसन् ॥२६॥
प्रलपन्विसृजन्गृह्णन्शुद्धसंविन्मयो भवेत् ।
ध्यानामृतेन संपूज्य स्वयमात्मानमीश्वरम् ॥२७॥
परमास्वादयुक्तेन मुक्तेन कुसुमेहितैः ।
ध्यानोपहार एवात्मा ध्यानं ह्यस्य समीहितम् ॥२८॥
ध्यानमर्घ्यं च पाद्यं च शुद्धसंवेदनात्मकम् ।
ध्यानसंवेदनं पुष्पं सर्वं ध्यानपरं विदुः ॥२९॥
विना तेनेतरेणायमात्मा लभ्यत एव नो ।
ध्यानात्प्रसादमायाति सर्वभोगसुखश्रियः ॥३०॥
अयमात्मा मुने भुङ्क्ते देहरूपो गृहे यथा ।
ध्यानेनानेन सुमते निमेषांस्तु त्रयोदश ॥३१॥
मूढोऽपि पूजयित्वेशं गोप्रदानफलं लभेत् ।
पूजयित्वा निमेषाणां शतमेकमिति प्रभुम् ॥३२॥
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ।
पूजयित्वा स्वमात्मानं घटिकार्धमिति प्रभुम् ॥३३॥
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ।
ध्यानवल्युपहारेण स्वयमात्मानमात्मना ॥३४॥
घटिकां पूजयेद्यस्तु राजसूयं लभेत सः ।
मध्याह्नपूजनादित्थं राजसूयैकलक्षभाक् ॥३५॥
दिवसं पूजयित्वैवं परे धाम्नि वसेन्नरः ।
एषोऽसौ परमो योग एषा सा परमा क्रिया ।
बाह्यसंपूजनं प्रोक्तमेतदुत्तममात्मनः ॥३६॥
एतत्पवित्रमखिलाघविघातहेतुं
यस्त्वाचरिष्यति नरः क्षणमप्यखिन्नः ।
तं वन्दयिष्यति सुरासुरलोकपूगः
प्राप्तास्पदं जगति मामिव मुक्तमात्मन् ॥३७॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषु निर्वाणप्रकरणे पूर्वार्धे बाह्यपूजनं नामाष्टत्रिंशः सर्गः ॥३८॥
N/A
References : N/A
Last Updated : September 24, 2021
TOP