संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ४६ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ४६ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४६ Translation - भाषांतर श्रीराम उवाच ।भगवन्सर्वसारज्ञ त्वयैषा बिल्वरूपिणी ।महाचिद्धनसत्तेह कथितेति मतिर्मम ॥१॥चिन्मज्जारूपमखिलमहंतादीदमाततम् ।न मनागपि भेदोऽस्ति द्वैतैक्यकलनात्मकः ॥२॥श्रीवसिष्ठ उवाच ।यथा ब्रह्माण्डकूश्माण्डमज्जामेर्वादिसंस्थितिः ।तथा चिद्विल्वमज्जेयं ब्रह्माण्डादिजगत्स्थितिः ॥३॥सृष्टिचिद्विल्वमज्जा स्यात्स्वाधारान्यत्वसंभवे ।विनाशः सर्वगस्यास्य न चैतत्संभवत्यलम् ॥४॥चितेर्मरीचबीजस्य जगदाख्या चमत्कृतिः ।स्थिता सौषुप्तसौम्यान्तः शिलान्तःसंनिवेशवत् ॥५॥अत्रेमामिन्दुवदन चित्रां विस्मयकारिणीम् ।वर्ण्यमानां मया रम्यामन्यामाख्यायिकां श्रृणु ॥६॥स्निग्धा स्पष्टा मृदुस्पर्शा महाविस्तारशालिनी ।निविडा नित्यमक्षुब्धा क्वचिदस्ति महाशिला ॥७॥तस्यामन्तः प्रफुल्लानि पद्मानि सुबहून्यपि ।सरस्यामिव रम्याणि तान्यनन्तानि सन्ति वै ॥८॥अन्योन्यप्रोतपत्राणि मिथो विघटितानि च ।मिथश्चोपनिगूढानि गूढानि प्रकटानि च ॥९॥अधोमुखान्यूर्ध्वमुखान्यपि तिर्यङ्मुखानि च ।मिथोमिलितमूलानि मिथःप्रोतमुखान्यपि ॥१०॥कर्णिकाजालमूलानि मूलान्तःकर्णिकानि च ।ऊर्ध्वमूलान्यधोमूलान्यमूलानीतराणि च ॥११॥तेषां च निकटे सन्ति शङ्खाः शतसहस्रशः ।चक्रौघाश्च महाकाराः पद्मवत्संनिवेशिनः ॥१२॥श्रीराम उवाच ।सत्यमेतन्मया दृष्टा तादृशी सा महाशिला ।शालग्रामे हरेर्धाम्नि विद्यते परिवारिणी ॥१३॥श्रीवसिष्ठ उवाच ।एवमेतद्विजानासि दृष्टवानसि तां शिलाम् ।यो यश्च तत्र वै प्राणः समस्तादृगनन्तरः ॥१४॥मया त्वियमपूर्वैव शिलेह कथिता तव ।यस्यामन्तर्महाकुक्षौ सर्वमस्ति च नास्ति च ॥१५॥चिच्छिलैषा मयोक्ता ते यस्यामन्तर्जगन्ति वै ।घनत्वैकात्मकत्वादिवशादेषा शिलैव चित् ॥१६॥अप्यत्यन्तघनाङ्गायाः सुनीरन्ध्राकृतेरपि ।विद्यतेऽन्तर्जगद्वृन्दं व्योम्नीव विपुलानिलः ॥१७॥द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।सन्ति तस्यां शिलायां च सुषिरं न मनागपि ॥१८॥अस्यामेव घनाङ्गात्म जगत्पद्मं विजृम्भते ।एतस्माद्वस्तुतो नान्यदन्यच्छुद्धात्मकं च वा ॥१९॥शङ्खपद्मादिकं लोकं पाषाणे लिख्यते यथा ।भूतं भवद्भविष्यच्च शिलायां शालभञ्जिका ॥२०॥तथास्ति तत्र तत्सर्वं संस्थानं वस्तुतो यथा ।उपलान्तः संनिवेशो नानात्माप्येकपिण्डताम् ॥२१॥यथादत्ते तथैषा चित्पिण्डाकारैकिकां घनाम् ।यथा पद्मः शिलाकोशादभिन्नस्तद्वपुर्मयः ॥२२॥तथा सर्गश्चितो रूपादभिन्नोऽपि वपुर्मयः ।सुषुप्तावस्थया चक्रपद्मलेखाः शिलोदरे ॥२३॥यथा स्थिताश्चितेरन्तस्तथेयं जगदावली ।शिलान्तः पद्मलेखाली मरिचान्तश्चमत्कृतिः ॥२४॥नोदेति नास्तमायाति यथा सर्गस्तथा चितौ ।यथा पुरन्ध्र्यां मर्त्योऽन्तर्मज्जा वा बिल्वगा यथा ॥२५॥तथाऽनन्तविकाराढ्या चितौ ब्रह्माण्डमण्डली ।विकारादि तदेवेति मुधैवोक्तिरनर्थिका ॥२६॥तत्तां समुपयात्याशु जलबिन्दुरिवाम्भसि॥अनन्तत्वाच्चितेरेतद्विकारादि चितेरिति ॥२७॥उक्त्या संपद्यते यच्च तल्लयेन विलीयते ।ब्रह्मैवेदं विकारादि विकाराद्यर्थवर्जितम् ॥२८॥वर्जनावर्जनेऽर्थस्य ब्रह्मैवानन्ततावशात् ।ब्रह्म स्थितं विकारादि ब्रह्मैवोत्पादितं क्रमात् ॥२९॥अत्रान्यार्थमिदं विद्धि मृगतृष्णाम्भसा समम् ।बीजं पुष्पफलान्तस्थं बीजान्तर्नान्यदात्मकम् ॥३०॥यादृशी बीजसत्ता सा भवन्ती यात्यथोत्तरम् ।चिद्धने चिद्धनत्वं यत्स एव त्रिजगत्क्रमः ॥३१॥एकत्वमेतयोर्द्वित्वमेकाभावे द्वयोः क्षतिः ।जगदन्यभवोद्भूतिर्न कदाचित्तदीदृशम् ॥३२॥चिदचिन्न कदाचिच्च द्वयमन्तर्मिथोऽद्वयम् ।महाशिलान्तरे भेदो लेखात्मास्ति यथा बहुः ।तदन्यानन्यमज्जादि चिद्धने त्रिजगत्तथा ॥३३॥रेखोपरेखावलिता यथैका पीवरी शिला ।तथा त्रैलोक्यवलितं ब्रह्मैकमिति दृश्यते ॥३४॥एतच्छिलान्तरब्जादि यथा नित्यं सुषुप्तकम् ।नास्तमेति न चोदेति तथाऽहंता जगद्गतिः ॥३५॥यथा शिलान्तर्लेखादि भिद्यते न शिलान्तरात् ।तत्सारत्वाज्जगत्कर्तृ कर्तृत्वादिजगच्चितिः ॥३६॥यथा शिलान्तरब्जानां स्पन्दास्पन्दभवाभवाः ।विषयत्वं न गच्छन्ति कर्तारो जगतस्तथा ॥३७॥नेदं कदाचित्क्रियते न कदाचन नश्यति ।अद्रिवत्प्रभवोल्लासविलासावेदनात्मकम् ॥३८॥यथा यत्र यदाकारं तथा तत्र तदेव हि ।ब्रह्मसत्तात्मकं सर्वं सुषुप्तस्थमिव स्थितम् ॥३९॥भूरिभावविकाराढ्यो योऽयं जगदुरुभ्रमः ।सुषुप्तमेव तद्विद्धि शिलान्तः पङ्कजादिवत् ॥४०॥नित्यं सुषुप्तपदमेव जगद्विलासःसम्यक्प्रशान्तसमचिद्धनखात्मकत्वात् ।पद्माः शिलान्तरिव सर्गदशास्त्वसारादृष्टा न देहमुपयान्ति कदाचिदेव ॥४१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० शिलाकोशोपदेशो नाम षट्चत्वारिंशः सर्गः ॥४६॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP