संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्|
सर्गः २२

निर्वाणप्रकरणं - सर्गः २२

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


भुशुण्ड उवाच ।
ततो जगति जातेषु भगवन्युष्मदादिषु ।
भरद्वाजपुलस्त्यात्रिनारदेन्द्रमरीचिषु ॥१॥
पुलहोद्दालकाद्येषु क्रतुभृग्वङ्गिरस्सु च ।
सनत्कुमारभृङ्गीशस्कन्देभवदनादिषु ॥२॥
गौरीसरस्वतीलक्ष्मीगायत्र्याद्यासु भूरिषु ।
मेरुमन्दरकैलासहिमवद्दर्दुरादिषु ॥३॥
हयग्रीवहिरण्याक्षकालनेमिबलादिषु ।
हिरण्यकशिपुक्राथबलिप्रह्रादकादिषु ॥४॥
शिबिन्यङ्कुपृथूलाख्यवैन्यनाभागकेलिषु ।
नलमान्धातृसगरदिलीपनहुषादिषु ॥५॥
आत्रेयव्यासवाल्मीकिशुकवात्स्यायनादिषु ।
उपमन्युमणीमङ्कीभगीरथशुकादिषु ॥६॥
अल्पकातीतकालेषु किंचिद्दूरेषु केषुचित् ।
तथाद्यतनसर्गेषु स्मरणे गणनैव का ॥७॥
मुने ते ब्रह्मपुत्रस्य जन्माष्टकमिदं किल ।
संस्मराम्यष्टमे सर्गे तस्मिंस्त्वं मम संगतः ॥८॥
कदाचिज्जायसे व्योम्नः कदाचिज्जायसे जलात् ।
कदाचिद्वायुतः शैलात्कदाचिज्जायसेऽनलात् ॥९॥
यादृशो यादृशाचारो यादृक्संस्थानदिग्गणः ।
सर्गोऽयं तादृशानेव त्रीन्सर्गान्संस्मराम्यहम् ॥१०॥
एकरूपाखिलाचारसंनिवेशधरामरान् ।
समकालान्स्थिरस्थैर्यान्दशसर्गान्स्मराम्यहम् ॥११॥
अन्तर्धानं गता धात्री वारपञ्चकमुद्धृता ।
मुने पञ्चसु सर्गेषु कूर्मेणैव पयोनिधेः ॥१२॥
मन्दराकर्षणावेगपर्याकुलसुरासुरम् ।
स्मरामि द्वादशं चेदममृताम्भोधिमन्थनम् ॥१३॥
सर्वौषधिरसोपेतां बलिग्राहस्तदा दिवः ।
वारत्रयहिरण्याक्षो नीतवान्वसुधामधः ॥१४॥
रेणुकात्मजतां गत्वा षष्ठवारमिमं हरिः ।
बहुसर्गान्तरेणापि चकार क्षत्रियक्षयम् ॥१५॥
शतं कलियुगानां च हरेर्बुद्धदशाशतम् ।
शौकराजतयैवाप्तं स्मरामि मुनिनायक ॥१६॥
त्रिंशत्त्रिपुरविक्षोभान्द्वौ दक्षाध्वरसंक्षयौ ।
दशशक्रविघातांश्च चन्द्रमौलेः स्मराम्यहम् ॥१७॥
बाणार्थमष्टौ संग्रामाञ्ज्वरप्रमथमन्त्रकान् ।
विक्षोभितसुरानीकान्त्स्मरामि हरिशर्वयोः ॥१८॥
युगंप्रति धियां पुंसां न्यूनाधिकतया मुने ।
क्रियाङ्गपाठवैचित्र्ययुक्तान्वेदान्त्यराम्यहम् ॥१९॥
एकार्थानि समग्राणि बहुपाठानि मेऽनघ ।
पुराणानि प्रवर्तन्ते प्रसृतानि युगंप्रति ॥२०॥
पुनस्तानेव तानेवमन्यानपि युगे युगे ।
वेदादिवित्प्ररचितानितिहासान्स्मराम्यहम् ॥२१॥
इतिहासं महाश्चर्यमन्यं रामायणामिधम् ।
ग्रन्थलक्षप्रमाणं च ज्ञानशास्त्रं स्मराम्यहम् ॥२२॥
रामवद्व्यवहर्तव्यं न रावणविलासवत् ।
इति यत्र धियां ज्ञानं हस्ते फलमिवार्पितम् ॥२३॥
कृतं वाल्मीकिना चैतदधुना यत्करिष्यति ।
अन्यच्च प्रकटं लोके स्थितं ज्ञास्यसि कालतः ॥२४॥
वाल्मीकिनाम्ना जीवेन तेनैवान्येन वा कृतम् ।
एतच्च द्वादशं वारं क्रियते विस्मृतिं गतम् ॥२५॥
द्वितीयमेतस्य समं भारतं नाम नामतः ।
स्मरामि प्राक्तनव्यासकृतं जगति विस्मृतम् ॥२६॥
व्यासाभिधेन जीवेन तेनैवान्येन वा कृतम् ।
एतत्तु सप्तमं वारं क्रियते विस्मृतिं गतम् ॥२७॥
आख्यानकानि शास्त्राणि निवृत्तानि युगंप्रति ।
विचित्रसंनिवेशानि संस्मरामि मुनीश्वर ॥२८॥
भूयस्तान्येव तान्येव तथान्यानि युगे युगे ।
साधो पदार्थजालानि प्रपश्यामि स्मरामि वै ॥२९॥
राक्षसक्षतये विष्णोर्महीमवतरिष्यतः ।
अधुनैकादशं जन्म रामनाम्नो भविष्यति ॥३०॥
नारसिंहेन वपुषा हिरण्यकशिपुं हरिः ।
जघान वारत्रितयं मृगेन्द्र इव वारणम् ॥३१॥
वसुदेवगृहे विष्णोर्भुवो भारनिवृत्तये ।
अधुना षोडशं जन्म भविष्यति मुनीश्वर ॥३२॥
जगन्मयी भ्रान्तिरियं न कदाचन विद्यते ।
विद्यते तु कदाचिच्च जलबुद्बुदवत्स्थिता ॥३३॥
दृश्यभ्रान्तिरनित्येयमन्तस्था संविदात्मनि ।
जायते लीयते चाशु लोला वीचिरिवाम्भसि ॥३४॥
समेकसंनिवेशानि बहूनि विषमाणि च ।
तथार्धसमरूपाणि त्रिजगन्ति स्मराम्यहम् ॥३५॥
तान्येव तादृक्कर्माणि तथान्याचरणानि च ।
तत्कर्माणि तथान्यानि भूतानीह स्मराम्यहम् ॥३६॥
प्रतिमन्वन्तरं ब्रह्मन्विपर्यस्ते जगत्क्रमे ।
संनिवेशेऽन्यथाजाते प्रयाते संश्रुते जने ॥३७॥
ममान्यान्येव मित्राणि अन्य एव च बन्धवः ।
अन्य एव नवा भृत्या अन्य एव समाश्रयाः ॥३८॥
कदाचिदहमेकान्ते विन्ध्यकच्छकृतालयः ।
कदाचित्सह्यनिलयः कदाचिद्दर्दुरालयः ॥३९॥
कदाचिद्धिमवद्वासी कदाचिन्मलयाचलः ।
कदाचित्प्राक्तनेनैव संनिवेशेन भूधरम् ॥४०॥
चूतवृक्षे च शाखायां प्राप्य नीडं करोम्यहम् ।
अनाद्यन्तेषु यातेषु युगेषु मुनिनायक ॥४१॥
प्राक्तनेनैव जातोऽयं संनिवेशेन पादपः ।
देहं त्यक्त्वा सुखं साधो नातः परिणतिं गतः ॥४२॥
तदीयेनैव जातोऽयं संनिवेशेन पादपः ।
ताते जीवति यैवाभूच्छोभास्य सुतरोस्तथा ॥४३॥
कृतप्राक्संनिवेशोऽयमहं स्थितिमिहागतः ।
नेहाभूदुत्तरा पूर्वं ककुब्नायं च भूधरः ॥४४॥
दिगुत्तराभूदन्येयं पूर्वमेव महीधरः ।
एकैकदेहसंस्थानवीतब्रह्मनिशागमः ॥४५॥
ध्यानान्ते तत्त्व एवैनं सर्गमालोक्य वेद्म्यहम् ।
अर्कादेर्ऋक्षसंच्चारान्मेर्वादिस्थानका दिशः ॥४६॥
संस्थानमन्यथा तस्मिन्स्थिते यान्ति दिशोऽन्यथा ।
न सन्नासज्जगन्मन्ये भ्रमयन्केवलं धियः ॥४७॥
आत्मस्पन्दचमत्कारविभवोऽयं विजृम्भते ।
पुत्रः पितृत्वमायाति मित्रं यात्यरितां तथा ॥४८॥
स्त्रीत्वं च शतशो यातान्पुंसश्चैव स्मराम्यहम् ।
कलौ कृतयुगाचारान्कृते कलियुगस्थितिम् ॥४९॥
त्रेतायां द्वापरे चैव संस्मरामि मुनीश्वर ।
अदृष्टवेदवेदार्थान्स्वसंकेतविहारिणः ॥५०॥
सर्गान्निरर्गलाचारान्क्वचित्कांश्चित्स्मराम्यहम् ।
ध्यातरि ब्रह्मणो ब्रह्मन्ससुरासुरमानुषम् ॥५१॥
चतुर्युगसहस्रान्ते जगच्छून्यं स्मराम्यहम् ।
मनोमनननिर्माणान्पार्थिवाकारवर्जितान् ।
व्याप्तान्वायुमयैर्भूतैर्दश सर्गान्स्मराम्यहम् ॥५२॥
विचित्रसंस्थानविशेषदेशान्विचित्रकार्याकुलभूतकोशान् ।
विचित्रविन्यासविलासवेषान्स्मराम्यहं ब्रह्मदिनेष्वशेषाम् ॥५३॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० भुशुं० चिरजीवितवर्णनं नाम द्वाविंशः सर्गः ॥२२॥

N/A

References : N/A
Last Updated : September 23, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP