निर्वाणप्रकरणं - सर्गः १०४
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
इत्यध्यात्मविचित्राभिः कथाभिस्तौ परस्परम् ।
आसाते वेद्यवेत्तारौ मुहूर्तत्रितयं वने ॥१॥
तत उत्थाय कस्मिंश्चित्सानौ सरससारसे ।
सरोवरे वने चैव विहृतौ नन्दने वने ॥२॥
तेनाचारेण ताभिश्च कथाभिस्तौ वने ततः ।
नीतवन्तौ दिनान्यष्टौ तासु काननवीथिषु ॥३॥
अथ कुम्भ उवाचान्यद्वनं यावो गिराविति ।
तदोमिति नृपो मत्वा तावुभौ प्रविचेरतुः ॥४॥
वनान्यनेकरूपाणि जङ्गलानि तटानि च ।
सरांसि गुल्मजालानि श्रृङ्गाणि गहनानि च ॥५॥
नदीर्देशांस्तथा ग्रामान्नगराणि वनानि च ।
मञ्जुघोषान्गिरीन्कुञ्जांस्तीर्थान्यायतनानि च ॥६॥
सममेव समस्नेहौ समवेतौ स्थितावुभौ ।
समसत्त्वौ समोत्साहौ शंसन्तौ तस्थतुः सदा ॥७॥
आनर्चतुः पितृन्देवान्बुभुजाते च राघव ।
समं तप्ते च सिक्ते च समबुद्धी बभूवतुः ॥८॥
तमालवनखण्डेषु मन्दारगहनेषु च ।
दंपती स्निग्धहृदयौ सुहृदौ तौ विरेजतुः ॥९॥
इदं गेहमिदं नेति विकल्पकलना मनः ।
न जहार तयो राम वात्येव विबुधाचलम् ॥१०॥
विचेरतुस्तौ सुहृदौ क्वचिद्धूलिविधूसरौ ।
क्वचिच्चन्दनदिग्धाङ्गौ क्वचिद्भस्मानुरञ्जितौ ॥११॥
क्वचिद्दिव्याम्बरधरौ चित्राम्बरधरौ क्वचित् ।
क्वचित्पल्लवसंछन्नौ क्वचित्कुसुममण्डितौ ॥१२॥
दिनैः कतिपयैरेव समचित्ततया तया ।
सत्त्वोदात्ततया चैव राजा कुम्भवदाबभौ ॥१३॥
अथ तं सुरगर्भाभं चूडाला सा शिखिध्वजम् ।
दृष्ट्वा शोभामुपगतं चिन्तयामास मानिनी ॥१४॥
अयं पतिरदीनात्मा रम्याश्च वनभूमयः ।
इयं स्थितिरनायासा या न कामेन वञ्चिता ॥१५॥
जीवन्मुक्तधियां भोगं यथाप्राप्तमतिष्ठताम् ।
एकाग्रहात्मिका तुच्छा मूढतैवोदिता भवेत् ॥१६॥
निजः पतिरुदारात्मा निराधिश्च नवं वयः ।
गृहाणि पुष्पजालानि सा हता या न कामिनी ॥१७॥
वनपुष्पलतागेहे स्वायत्ते भर्तरि प्रिया ।
रमते या न निर्दुःखा सा हतैव दुरङ्गना ॥१८॥
रम्यं विवाहितं कान्तं पतिमासाद्य निर्जने ।
स्त्री सती या न रमते तां धिगस्तु दुरङ्गनाम् ॥१९॥
समुज्झता यथाप्राप्तमपि वेद्यविदा सदा ।
अनिन्द्यं समुदारार्थं किं तज्ज्ञेन कृतं भवेत् ॥२०॥
तत्किंचिद्रचयाम्याशु प्रपञ्चं प्रेक्षया वने ।
येनायं भूपतिर्भर्ता रमते मयि मानदः ॥२१॥
इति संचिन्त्य चूडाला कुम्भवेषधरा पतिम् ।
प्राह काननगुल्मस्था कोकिलं कोकिला यथा ॥२२॥
कुम्भ उवाच ।
चैत्रमासस्य शुक्लोऽयं प्रतिपद्दिवसो महान् ।
अद्यास्थानं महारम्भं स्वर्गे भवति वै हरेः ॥२३॥
संनिधानं मया तत्र कर्तव्यं पितुरग्रतः ।
यथास्थिता हि नियतिर्न संत्याज्या कदाचन ॥२४॥
प्रतिपालयितव्यं मे त्वयेह च वनावनौ ।
क्रीडता नवपुष्पायां समुद्वेगमगच्छता ॥२५॥
आगच्छामि दिनान्तेऽद्य निर्विकल्पं नभस्तलात् ।
सर्गादतितरामेव त्वत्सङ्गो मम तुष्टये ॥२६॥
इत्युक्त्वा मञ्जरीं कुम्भो ददौ मित्राय कौसुमीम् ।
प्रीतये स्वामिव प्रीतिं कान्तां नन्दनवृक्षजाम् ॥२७॥
आगन्तव्यं त्वया शीघ्रमेवं वदति भूपतौ ।
षुप्लुवेऽथ वनाद्वयोम शरन्मुखपयोदवत् ॥२८॥
पुष्पाञ्जलिं जहौ व्योम व्रजन्कुसुमदामजम् ।
विसारि वनवातेन हिमं हैम इवाम्बुदः ॥२९॥
शिखिध्वजो व्रजन्तं तं ददर्शाऽऽदर्शनं तदा ।
उन्निद्रोऽब्दं यथा बर्ही धीमत्प्रीतिर्हि दुस्त्यजा ॥३०॥
शिखिध्वजदृशामन्ते व्योम्नि कुम्भवपुर्जहौ ।
शान्तावर्तेव वारिश्रीर्मुग्धा स्वं रूपमाययौ ॥३१॥
प्राप मञ्जरिताकारकल्पवृक्षोपमं पुरम् ।
स्फुरत्पताकमात्मीयं स्वर्गरम्यं दिवः पथा ॥३२॥
अन्तःपुरमदृश्यैव विवेश ललनाकुलम् ।
मधुमासमहालक्ष्मीर्लसल्लतमिव द्रुमम् ॥३३॥
राजकार्याणि सर्वाणि तत्र संपाद्य सत्वरम् ।
शिखिध्वजस्य पुरतः पपात फलपुष्पवत् ॥३४॥
तत्र कालद्युति मुखं चकाराखिन्नमानसा ।
इन्दुं सनीहारमिव श्यामा खिन्नमिवाम्बुजम् ॥३५॥
तं दृष्ट्वा तादृशाकारं समुत्तस्थौ शिखिध्वजः ।
बभूव खिन्नचेताश्च समुवाचेदमादृतः ॥३६॥
देवपुत्र नमस्तेऽस्तु विमना इव लक्ष्यसे ।
कुम्भस्त्वं त्यज संरम्भमिदमासनमास्यताम् ॥३७॥
सन्तो विदितवेद्या ये ते हि हर्षविषादजाम् ।
नाश्रयन्ति स्थितिं स्वस्थाः पद्मा इव जलार्द्रताम् ॥३८॥
श्रीवसिष्ठ उवाच ।
तेन क्ष्मापतिनेत्युक्ते कुम्भ आहासने विशन् ।
गिरा विषण्णया शीर्णवंशस्वनसमानया ॥३९॥
यावद्देहमवस्थासु समचित्ततयैव ये ।
कर्मेन्द्रियैर्न तिष्ठन्ति न ते तत्त्वविदः शठाः ॥४०॥
ये ह्यतत्त्वविदो मूढा राजन्बालतयैव ते ।
अवस्थाभ्यः पलायन्ते गृहीताभ्यः स्वभावतः ॥४१॥
यावत्तिलं यथा तैलं यावद्देहं तथा दशा ।
यो न देहदशामेति स च्छिनत्त्यसिनाम्बरम् ॥४२॥
एष देहदशादुःखपरित्यागो ह्यनुत्तमः ।
यत्साम्यं चेतसो योगान्न तु कर्मेन्द्रियस्थितेः ॥४३॥
यावद्देहं यथाचारं दशास्वङ्ग विजानता ।
कर्मेन्द्रियैर्हि स्थातव्यं न तु बुद्धीन्द्रियैः क्वचित् ॥४४॥
परमेष्ठिप्रभृतयः सर्व एवोदिताशयाः ।
देहावस्थासु तिष्ठन्ति नियतेरेष निश्चयः ॥४५॥
अज्ञतत्त्वज्ञभूतानि दृश्यजातमिदं हि यत् ।
तत्सर्वमेव नियतिं धावत्यम्बु यथाम्बुधिम् ॥४६॥
तज्ज्ञा बुद्ध्यादिसाम्येन पाण्यादिचलनेन च ।
नियतिं यापयन्तीमां यावद्देहमखण्डिताम् ॥४७॥
अज्ञास्तु सर्वक्षोभेण सुखदुःखदशाहताः ।
नियतिं यापयन्त्यङ्ग देहलक्षैर्विखण्डिताम् ॥४८॥
इत्थं सुखेषु ननु दुःखदशासु चेत्थं
स्थातव्यमित्यधिगतं यदिहाङ्ग जीवैः ।
अज्ञज्ञभूतनिवहस्फुरितस्तदेवं
दुर्लंघ्य एष नियतो नियतेर्विलासः ॥४९॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निवा० पू० चू० जीवन्मुक्तव्यवहारप्रतिपादनं नाम चतुरधिकशततमः सर्गः ॥१०४॥
N/A
References : N/A
Last Updated : September 25, 2021
TOP