संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ८९ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ८९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ८९ Translation - भाषांतर चूडालोवाच ।अथेममपरं रम्यं वृत्तान्तं शृणु भूमिप ।परं प्रबोधनं बुद्धेः साधो सदृशमात्मनः ॥१॥अस्ति विन्ध्यवने हस्ती महायूथपयूथपः ।आगस्त्या शुद्धया बुद्ध्या विन्ध्येनेवोदितः स्वतः ॥२॥वज्रार्चिर्विषमौ दीर्घौ तस्यास्तां दशनौ सितौ ।कल्पानलशिखातुल्यौ सुमेरून्मूलनक्षमौ ॥३॥स बद्धो लोहजालेन हस्तिपेन किलाभितः ।मुनीन्द्रेणेव विन्ध्याद्रिरुपेन्द्रेणेव वा बलिः ॥४॥निबद्धो यन्त्रणामाप शस्त्रकुम्भर्दितो गजः ।तां जगाम व्यथां धीरो नवाग्नौ पुरमेति याम् ॥५॥रिपौ हस्तिपके दूरादपश्यति स वारणः ।अयःसमुद्गके यस्मिन्निनाय दिवसत्रयम् ॥६॥खेदान्निगडनिर्भेदे यत्नवान्स मतंगजः ।चकार किकिणीक्वाणं मुखोद्धातैरथान्यदा ॥७॥दन्ताभ्यां यत्नतस्ताभ्यां मुहूर्तद्वितयेन सः ।बभञ्ज शृङ्खलाजालं स्वर्गार्गलमिवासुरः ॥८॥तं तस्य निगडच्छेदमपश्यद्दूरतो रिपुः ।बलेः स्वर्गावदलनं हरिर्मेरुतलादिव ॥९॥तस्य विच्छिन्नपाशस्य मूर्ध्नि तालतरो रिपुः ।पपात क्रमतः स्वर्गं हरिर्मेरोर्बलेरिव ॥१०॥स पतन्पादपद्माभ्यामप्राप्य करिणः शिरः ।पपातोर्व्यां फलं पक्वं वाताहतमिवाकुलः ॥११॥तं पुरः पतितं दृष्ट्वा महेभः करुणां ययौ ।स्फुरत्स्फारगुणाः सन्तः सन्ति तिर्यग्गतावपि ॥१२॥पतितं दलयामीति किं नाम मम पौरुषम् ।वारणोऽपीति कलयन्न जघान स तं रिपुम् ॥१३॥केवलं निगडव्यूहं विदार्याभिजगाम ह ।विततं सेतुमुत्सार्य विपुलौघ इवाम्भसः ॥१४॥दयामाश्रित्य मातङ्गो भङ्क्त्वा जालं जगाम ह ।विदार्य मेघसंघातं नभसीव दिवाकरः ॥१५॥गते गजे समुत्तस्थौ हस्तिपः स्वस्थदेहधीः ।गजेनैव समं तस्य व्यथा दूरतरं गता ॥१६॥प्रोच्चलत्तालशिखरात्स तथा पतितोऽपि सन् ।न भेदमाप दुर्भेदा मन्ये देहा दुरात्मनाम् ॥१७॥वर्धते प्रावृषीवाभ्रं कुकार्येष्वसतां बलम् ।आसीदधिकमुत्साही स च चंक्रमणे तदा ॥१८॥वारणारिरसिद्धाङ्गो गतेभो दुःखमाययौ ।आगत्योपगतेऽन्तर्धिं निधान इव वर्धनः ॥१९॥सोऽन्वियेष गजं यत्नाद्गुल्मकान्तरितं वने ।पयोदपिण्डितं भोक्तुं राहुरिन्दुमिवाम्बरे ॥२०॥चिरेणालभतेभेन्द्रं कस्मिंश्चित्कानने स्थितम् ।विश्रान्तं तं तरुतले समरादिव निर्गतम् ॥२१॥अथ यत्र स्थितो नागस्तत्र तद्बन्धनक्षमम् ।परया राजसामग्र्या गजलम्पटभूमया ॥२२॥स खातवलयं चक्रे हस्तिपः काननेऽभितः ।सर्वदिक्कं विधिर्भूमौ समुद्रवलयं यथा ॥२३॥उपर्यस्थगयद्वाललतौघेन स तं शठः ।शून्यतातन्तुजालेन शरत्काल इवाम्बरम् ॥२४॥दिनैः कतिपयैरेव वारणो विहरन्वने ।तस्मिन्निपतितः खाते शुष्काब्धाविव पर्वतः ॥२५॥व्रजन्पर्याकृतौ कूपे पातालतलभीषणे ।खातशुष्काब्ध्यधोभागे गजरत्नसमुद्गके ॥२६॥इति भूयो दृढं बद्धस्तेन हस्तिपकेन सः ।तिष्ठत्यद्यापि दुःखेन भूसद्मनि यथा बलिः ॥२७॥अहनिष्यत्पुरैवासौ यद्यग्रे पतितं रिपुम् ।तन्नालप्स्यत्ततो दुःख गजः खातनिबन्धनम् ॥२८॥मौर्ख्यादागामिन कालं वर्तमानक्रियाक्रमैः ।अशोधयन्नरो दुःखं याति विन्ध्यगजो यथा ॥२९॥मुक्तोऽस्मि शस्त्रनिगडादिति तुष्टो हि वारणः ।दूरस्थोऽपि पुनर्बद्धो मौर्ख्यं क्व च न बाधते ॥३०॥मौर्ख्यं हि बन्धनमवेहि परं महात्म-न्बद्धो न बद्ध इति चेतसि तद्विमुक्त्यै ।आत्मोदयं त्रिजगदात्ममयं समस्तंमौर्ख्ये स्थितस्य सहसा ननु सर्वभूमिः ॥३१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षो० निर्वाणप्रकरणे पू० चू० हस्तिकोपाख्यानं नामैकोननवतितमः सर्गः ॥८९॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP