संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ४१ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ४१ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४१ Translation - भाषांतर श्रीवसिष्ठ उवाच ।शिवः किमुच्यते देव परंब्रह्म किमुच्यते ।आत्मा किमुच्यते नाथ परमात्मा किमुच्यते ॥१॥तत्सत्किंचिन्न किंचिच्च शून्यं विज्ञानमेव च ।इत्यादिभेदो भगवंस्त्रिलोकेश किमुच्यते ॥२॥ईश्वर उवाच ।अनाद्यन्तमनाभासं सत्किंचिदिह विद्यते ।इन्द्रियाणामगम्यत्वाद्यन्न किंचिदिव स्थितम् ॥३॥श्रीवसिष्ठ उवाच ।यदिन्द्रियाणां बुद्ध्यादियुक्तानामप्यदृश्यताम् ।गतं तत्कथमीशान त्वशङ्केनोपगम्यते ॥४॥ईश्वर उवाच ।यो मुमुक्षुरविद्यांशः केवलो नाम सात्त्विकः ।सात्त्विकैरेव सोऽविद्याभागैः शास्त्रादिनामभिः ॥५॥अविद्यां श्रेष्ठया श्रेष्ठां क्षालयन्निह तिष्ठति ।मलं मलेनापहरन्युक्तिज्ञो रजको यथा ॥६॥काकतालीयवत्पश्चादविद्याक्षय आगते ।प्रपश्यत्यात्मनैवात्मा स्वभावस्यैव निश्चयः ॥७॥यथाकथंचिदङ्गारे निघृष्य क्षालयञ्छिशुः ।करनैर्मल्यमाप्नोति कार्ष्ण्याङ्गारक्षये यथा ॥८॥यथाकथंचिच्छास्त्राद्यैर्भागैर्भागं विचारयेत् ।सात्त्विकस्तामसो भागो द्वयोरात्मोदयस्तथा ॥९॥पश्यत्यात्मानमात्मैव विचारयति चात्मना ।आत्मैवेहास्ति नाविद्या इत्यविद्याक्षयं विदुः ॥१०॥यावत्किंचिदिदं वस्तु नाना नात्मावगम्यताम् ।क्रमा गुरूपदेशाद्या नात्मज्ञानस्य कारणम् ॥११॥गुरुर्हीन्द्रियवृत्तात्मा ब्रह्म सर्वेन्द्रियक्षयात् ।यद्वस्तु यत्क्षये प्राप्यं तत्तस्मिन्सति नाप्यते ॥१२॥अकारणान्यपि प्राप्ता भृशं कारणतां द्विज ।क्रमा गुरूपदेशाद्या आत्मज्ञानस्य सिद्धये ॥१३॥क्रमे गुरूपदेशानां प्रवृत्ते शिष्यबोधतः ।अनिर्देश्योऽप्यदृश्योऽपि स्वयमात्मा प्रसीदति ॥१४॥शास्त्रार्थैर्बुध्यते नात्मा गुरोर्वचनतो न च ।बुध्यते स्वयमेवैष स्वबोधवशतस्ततः ॥१५॥गुरूपदेशशास्त्रार्थैर्विना चात्मा न बुध्यते ।एतत्संयोगसत्तैव स्वात्मज्ञानप्रकाशिनी ॥१६॥गुरुशास्त्रार्थशिष्याणां चिरसंयोगसत्तया ।अहनीव जनाचार आत्मज्ञानं प्रवर्तते ॥१७॥कर्मबुद्धीन्द्रियाद्यन्तसुखदुःखादिसंक्षये ।शिव आत्मेति कथितस्तत्सदित्यादिनामभिः ॥१८॥यत्रेदमखिलं नास्ति तद्रूपेणैव चास्ति वा ।तदाकाशादच्छतरमनन्तं सदिवास्ति हि ॥१९॥अविश्रान्ततया यत्र तनुविद्यैर्मुमुक्षुभिः ।विचित्रशुद्धमननकलङ्ककलितात्मभिः ॥२०॥अदूर एव तिष्ठद्भिर्जीवन्मुक्तस्य दृक्पथे ।मोक्षोपासकबोधाय शास्त्रार्थरचनाय च ॥२१॥ब्रह्मेन्द्ररुद्रप्रमुखैर्लोकपालैः सुपण्डितैः ।पुराणवेदसिद्धान्तसिद्धये भावितात्मभिः ॥२२॥चिद्ब्रह्म शिव आत्मेशपरमात्मेश्वरादिका ।एतस्मिन्कल्पिता संज्ञा निःसंज्ञे पृथगीश्वरे ॥२३॥एवमेतज्जगत्तत्त्वं स्वं तत्त्वं शिवनामकम् ।सर्वथा सर्वदा सर्वसर्वं यत्सुखमास्व भो ॥२४॥शिव आत्मा परं ब्रह्मेत्यादिशब्दैस्तु भिन्नता ।पुरातनैर्विरचिता तस्य भेदो न वस्तुतः ॥२५॥एवं देवार्चनं नित्यं ज्ञः कुर्वन्मुनिनायक ।यत्रास्मदादयो भृत्यास्तत्प्रयान्ति परं पदम् ॥२६॥श्रीवसिष्ठ उवाच ।अविद्यमानमेवेदं विद्यमानमिव स्थितम् ।यथा तन्मे समासेन भगवन्वक्तुमर्हसि ॥२७॥ईश्वर उवाच ।योऽसौ ब्रह्मादिशब्दार्थः संविदं विद्धि केवलम् ।स्वच्छमाकाशमप्यस्य स्थूलं मेरुरणोरिव ॥२८॥सा वेद्यमिह गच्छन्ती याति चिन्नामयोग्यताम् ।अप्यवेद्यवती नूनमुन्मन्यन्तपदस्थिता ॥२९॥क्षणाद्भावितवेद्यत्त्वादहन्तामनुगच्छति ।पुरुषत्वात्पुमान्स्वप्ने वनवारणतामिव ॥३०॥अस्याहन्तादिरूपाया देशतां कालतां गताः ।संपद्यन्ते ततः शून्यरूपिण्यः सख्य एव ताः ॥३१॥ताभिः संवलिता सैव सत्ता जीवाभिधानिका ।भवति स्पन्दविज्ञाना पवनस्येव लेखिका ॥३२॥जीवशक्तिस्तथाभूता निश्चयैकविलासिनी ।बुद्धितामनुयाता सा भवत्यज्ञपदे स्थिता ॥३३॥शब्दशक्त्या क्रियाशक्त्या ज्ञानशक्त्यानुगम्यते ।प्रत्येकं प्रस्फुरत्यन्तरप्रदर्शितरूपया ॥३४॥मिलित्वैष गणः क्षिप्रं स्मृतिं समनुकूलयन् ।मनो भवति भूतात्मबीजं संकल्पशाखिनः ॥३५॥आतिवाहिकदेहोक्तिभाजनं तद्विदुर्बुधाः ।अन्तस्थया ब्रह्मशक्त्या ज्ञरूपं स्वात्मनात्मदृक् ॥३६॥संपद्यमाना एवास्मिंश्चेतसीमा हि शक्तयः ।पश्चादिह बहिष्ठास्ता उद्यन्त्यनुदिता अपि ॥३७॥वातसत्ता स्पन्दसत्ता स्पर्शसत्ता तथैव च ।त्वक्सत्ता तेजसां सत्ता तथा सत्ताप्रकाशिनी ॥३८॥रूपसत्ता जलसत्ता स्वादुसत्ता तथैव च ।तथैव रससत्ता च गन्धसत्ता तथैव च ॥३९॥भूसत्ता हेमसत्ता च पिण्डसत्ता च पीवरी ।देशसत्ता कालसत्ता सर्वाढ्याकारवर्जिता ॥४०॥सर्वसत्तागणं चैतत्क्रोडीकृत्य स्वरूपवत् ।स्फुरत्याश्रित्य पत्रादि बीजं बीजादितां गतम् ॥४१॥एतत्पुर्यष्टकं विद्धि देहोऽयं चातिवाहिकः ।अपारबोधमेतत्तु स्फुरत्यङ्ग विभागवत् ॥४२॥एवमाद्यङ्गसंपन्नं संपन्नं न च किंचन ।न ज्ञानं न च तद्रूपं न विदाचितचेतनम् ॥४३॥परं परे प्रस्फुरितं केवलं केवलात्म सत् ।जलपीठस्य जठरे जलद्रवविलासवत् ॥४४॥संवित्संवेदनैकात्म पृथगेतदचेतनम् ।संपद्यते परिज्ञातं संकल्पनगरोपमम् ॥४५॥संवेदनात्परिज्ञानाच्छिवतामेव गच्छति ।अज्ञातमेव वा यत्तत्कथं गच्छति वस्तुताम् ॥४६॥अथैतद्विन्दते स्वान्तःसंकल्पादंशता स्वतः ।तन्मात्रसत्ता तस्याणोरेतां पश्यति देहके ॥४७॥सर्वं स्थूलत्वमापन्नं तदेवाशु प्रपश्यति ।तस्य तन्मात्ररन्ध्राणि यथादेशं प्रपश्यति ॥४८॥ततः पुरुषरूपैकभावनात्पुरुषाकृतिम् ।काकतालीयवद्दृष्ट्वा तुष्टं पुष्टं भवत्यलम् ॥४९॥जीवदेतदवस्थाकं स्थितं पश्यति देहकम् ।असन्तमेव गन्धर्वपुरं स्वप्रनरं यथा ॥५०॥श्रीवसिष्ठ उवाच ।गन्धर्वनगराकारमपि स्वप्ननरोपमम् ।जगद्दुःखाय दुःखस्य कात्र युक्तिः परिक्षये ॥५१॥ईश्वर उवाच ।वासनावशतो दुःखं विद्यमाने च सा भवेत् ।अविद्यमानं च जगन्मृगतृष्णाम्बुभङ्गवत् ॥५२॥अतः किं वास्यते केन कस्य वा वासना कुतः ।कथं स्वप्ननरेणाङ्ग मृगतृष्णाम्बु पीयते ॥५३॥सद्रष्टरि तु साहन्ते समनोमननादिके ।अविद्यमाने जगति यत्सत्तत्परिदृश्यते ॥५४॥यत्र नो वासना नैव वासको नैव वास्यता ।केवलं केवलीभावः संशान्तकलनभ्रमः ॥५५॥यस्य सत्योऽप्यसत्यो वा शून्य एव हि यक्षकः ।विलीनस्तस्य कैवल्यात्किमन्यदवशिष्यते ॥५६॥शून्य एव हि वेताल इवेत्थं चित्तवासना ।उदितेयं जगन्नाम्नी तच्छान्तौ शान्तिरक्षता ॥५७॥अहन्तायां जगति च मृगतृष्णाजले च यः ।सास्थस्तं थिग्घतनरं नोपदेश्यस्त्वसाविति ॥५८॥जीवं विवेकिनमिहोपदिशन्ति तज्ज्ञानो बालमुद्भ्रममसन्मयमार्यमुक्तम् ।अज्ञं प्रशास्ति किल यः कनकावदातांस स्वप्नदृष्टपुरुषाय सुतां ददाति ॥५९॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० जगन्मिथ्यात्वप्रतिपादनं नामैकचत्वारिंशः सर्गः ॥४१॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP