संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्|
सर्गः ९५

निर्वाणप्रकरणं - सर्गः ९५

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


शिखिध्वज उवाच ।
आब्रह्मस्तम्बपर्यन्तं यद्ययं भासते भ्रमः ।
अर्थक्रियासमर्थश्च तत्कथं दुःखकारणम् ॥१॥
कुम्भ उवाच ।
एवं जगद्भ्रमस्यास्य भावनं तावदाततम् ।
शिलीभूतस्य शीतेन सलिलस्येव रूक्षता ॥२॥
अज्ञानं शिथिलीभूतमेवं नष्टं विदुर्बुधाः ।
न नाशेन विनोदेति पूर्वसंस्थानविच्युतिः ॥३॥
तनुत्वं सर्वबोधस्य यत्तदेव हि कारणम् ।
सर्गोपशमसंपत्तौ प्रतिपन्ने परे पदे ॥४॥
तानवं दृश्यते यस्य तस्यानुक्रमतः स्वयम् ।
पूर्वसंस्थानविगमात्प्रशमोऽप्युपपद्यते ॥५॥
अनेनैव क्रमेणैवं त्वमादिपुरुषो नृपः ।
भ्रमाकारोदयं विद्धि मृगतृष्णाम्बुवत्स्थितम् ॥६॥
एषा पितामहाभावेऽप्यसती भूतसंततिः ।
न कदाचन तत्सिद्धं यदसिद्धेन साध्यते ॥७॥
अयं भूतोपलम्भो हि मृगतृष्णाम्ब्विवोदितः ।
विचाराद्विलयं याति शुक्तौ रजतधीरिव ॥८॥
कारणाभावतः कार्यमभूत्वा भवतीति यत् ।
मिथ्याज्ञानादृते तस्य न रूपमुपपद्यते ॥९॥
मिथ्यादृष्टिप्रेक्षितं तु न कदाचन विद्यते ।
मृगतृष्णाम्भसा केन घटकाः परिपूरिताः ॥१०॥
शिखिध्वज उवाच ।
स्रष्टुराद्यस्य परमं ब्रह्म कस्मान्न कारणम् ।
अनन्तमजमव्यक्तमम्बरं शान्तमच्युतम् ॥११॥
कुम्भ उवाच ।
हेतुत्वाभावतो ब्रह्म कार्यत्वाभावतस्तथा ।
अद्वैतेनातिगन्तात्मा न च कार्यं न कारणम् ॥१२॥
अकर्तृकर्मकरणमकारणमबीजकम् ।
अप्रतर्क्यमविज्ञेयं ब्रह्म कर्तृ कथं भवेत् ॥१३॥
अकारणत्वात्कार्यत्वरहितं तज्जगद्भवेत् ।
अद्वैतैक्यमनाद्यन्तं तदाद्यमुपलम्भनम् ॥१४॥
अप्रतर्क्यमविज्ञेयं यच्छिवं शान्तमव्ययम् ।
तत्कथं कस्य केनैव कर्तृ भोक्तृ कदा भवेत् ॥१५॥
अतो नेदं कृतं किंचिज्जगदादि न विद्यते ।
न कर्तासि न भोक्तासि सर्वं शान्तमजं शिवम् ॥१६॥
कारणाभावतः कार्यं न कस्यचिदिदं जगत् ।
अकारणत्वात्कार्यत्वं भ्रमाद्विद्धि त्विदं जगत् ॥१७॥
अकार्यत्वाच्च नास्त्येतत्सर्ग इत्थं न विद्यते ।
यदा न कस्यचित्कार्यं कारणस्य जगत्तदा ॥१८॥
पदार्थाभावसंसिद्धिस्तत्सिद्धौ कस्य वेदनम् ।
एवं तु वेदनाभावे नास्त्यहंत्वस्य कारणम् ॥१९॥
अतः शुद्धो विमुक्तोऽसि कैवोक्तिर्बन्धमोक्षयोः ।
शिखिध्वज उवाच ।
बुद्धोऽस्मि भगवन्युक्तियुक्तमुक्तं त्वयोत्तमम् ॥२०॥
कारणाभावतः कर्तृ नेदं ब्रह्मेति वेद्म्यहम् ।
कर्त्रभावाज्जगन्नास्ति तेन नास्ति पदार्थदृक् ॥२१॥
नातश्चित्तादि तद्बीजं नातोऽहंतादि किंचन ।
एवंस्थिते विशुद्धोऽस्मि विबुद्धोस्मि शिवोस्मि वा ॥२२॥
नमो मह्यं परं चेत्यं न किंचिदिति बोधितः ।
पदार्थवेदनादित्थमसदेवावभासते ।
अहमाद्यन्तमेतेन शान्तमासे खकोशवत् ॥२३॥
जगत्पदार्थप्रविभागदृष्टिः
सदेशदिक्कालकलाक्रियौघा ।
अहो तु कालेन चिरेण शान्ता
ब्रह्मैव शान्तं स्थितमव्ययात्म ॥२४॥
शाम्यामि निर्वामि परिस्थितोऽस्मि
न यामि नोदेमि न चास्तमेमि ।
तिष्ठामि तिष्ठ स्वयथास्थितात्मा
शिवं शुभं पावनमौनमस्मि ॥२५॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० चू० शिखिध्वजविश्रान्तिर्नाम पञ्चनवतितमः सर्गः ॥९५॥

N/A

References : N/A
Last Updated : September 25, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP