संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ४९ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ४९ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४९ Translation - भाषांतर श्रीराम उवाच ।यदि नास्ति विकारादि ब्रह्मन्ब्रह्मणि बृंहिते ।तदिदं कथमाभाति भावाभावमयं जगत् ॥१॥श्रीवसिष्ठ उवाच ।अपुनःप्रागवस्थानं यत्स्वरूपविपर्ययः ।त्तद्विकारादिकं तात यत्क्षीरादिषु वर्तते ॥२॥पयस्तां पुनरभ्येति दधित्वान्न पुनः पयः ।बुद्धमाद्यन्तमध्येषु ब्रह्म ब्रह्मैव निर्मलम् ॥३॥क्षीरादेरिव तेनास्ति ब्रह्मणो न विकारिता ।अनाद्यन्तविभागस्य न चैषोऽवयविक्रमः ॥४॥समस्याद्यन्तयोर्येयं दृश्यते विकृतिः क्षणात् ।संविदः संभ्रमं विद्धि नाविकारेऽस्ति विक्रिया ॥५॥न संवेद्यं न संवित्तिस्तत्र ब्रह्मणि विद्यते ।तद्ब्रह्मशब्दकथितं निःसंबन्धचिदात्मवत् ॥६॥यादृगाद्यन्तयोर्वस्तु तादृगेव तदुच्यते ।मध्ये यस्य यदन्यत्वं तदबोधाद्विजृम्भितम् ॥७॥आत्मा त्वाद्यन्तमध्येषु समः सर्वत्र सर्वदा ।स्वमप्यन्यत्वमायाति नात्मतत्त्वं कदाचन ॥८॥अरूपत्वात्तथैकत्वान्नित्यत्वादयमीश्वरः ।वशं भावविकाराणां न कदाचन गच्छति ॥९॥श्रीराम उवाच ।विद्यमाने सदैकस्मिन्ब्रह्मण्येकान्तनिर्मले ।संविद्भ्रमस्वरूपाया अविद्यायाः क आगमः ॥१०॥श्रीवसिष्ठ उवाच ।ब्रह्मतत्त्वमिदं सर्वमासीदस्ति भविष्यति ।निर्विकारमनाद्यन्तं नाविद्यास्तीति निश्चयः ॥११॥यस्तु ब्रह्मेति शब्देन वाच्यवाचकयोः क्रमः ।तत्रापि नान्यताभावमुपदेष्टुं क्रमो ह्यसौ ॥१२॥त्वमहं जगदाशाश्च द्यौर्भूश्चाप्यनलादि वा ।ब्रह्ममात्रमनाद्यन्तं नाविद्यास्ति मनागपि ॥१३॥नामैवेदमविद्येति भ्रममात्रमसद्विदुः ।न विद्यते या सा सत्या कीदृग्राम भवेत्किल ॥१४॥श्रीराम उवाच ।उपशमप्रकरणे ह्यस्तने तु त्वयेरितम् ।अविद्येयं तथेत्थं च विचार्यत इति प्रभो ॥१५॥श्रीवसिष्ठ उवाच ।एतावन्तमबुद्धस्त्वमभूः कालं रघूद्वह ।कल्पिताभिः किलैताभिर्बोधितोसि स्वयुक्तिभिः ॥१६॥अविद्येयमयं जीव इत्यादिकलनाक्रमः ।अप्रबुद्धप्रबोधाय कल्पितो वाग्विदां वरैः ॥१७॥अप्रबुद्धं मनो यावत्तावदेव भ्रमं विना ।न प्रबोधमुपायाति तदाक्रोशशतैरपि ॥१८॥युक्त्यैव बोधयित्वैष जीव आत्मनि योज्यते ।यद्युक्त्यासाद्यते कार्यं न तद्यत्नशतैरपि ॥१९॥सर्वं ब्रह्मेति यो ब्रूयादप्रबुद्धस्य दुर्मतेः ।स करोति सुहृद्वृत्त्या स्थाणोर्दुःखनिवेदनम् ॥२०॥युक्त्या प्रबोध्यते मूढः प्राज्ञस्तत्त्वेन बोध्यते ।मूढः प्राज्ञत्वमायाति न युक्त्या बोधनं विना ॥२१॥एतावन्तमबुद्धस्त्वं कालं युक्त्या प्रबोधितः ।इदानीं संप्रबुद्धस्त्वं मया येनावबोध्यसे ॥२२॥ब्रह्माहं त्रिजगद्ब्रह्म त्वं ब्रह्म खलु दृश्यभूः ।द्वितीया कलना नास्ति यथेच्छसि तथा कुरु ॥२३॥असंवेद्यमहासंवित्कोटिमात्रं जगत्त्रयम् ।एकप्रत्ययवानन्तः कुर्वन्नपि न लिप्यसे ॥२४॥भारूपश्चेतनो व्यापी परमात्माहमित्ययम् ।राघवानुभवान्तस्त्वं तिष्ठन्गच्छञ्छ्वसन्स्वपन् ॥२५॥निर्ममो निरहंकारो बुद्धिमानसि साधु चेत् ।तद्ब्रह्म वेदनं शान्तं सर्वभूतस्थितं भव ॥२६॥तदनाद्यन्तमाभासं सत्त्वमेव परं पदम् ।स्थितोऽसि सर्वगैकात्मशुद्धसंविन्मयात्मकः ॥२७॥यद्ब्रह्मात्मापि तुर्यश्च याऽविद्या प्रकृतिश्च या ।तदभिन्नसदैकात्म यथा कुम्भशतेषु मृत् ॥२८॥नात्मनः प्रकृतिर्भिन्ना घटान्मृन्मयता यथा ।सन्मृन्मात्रं यथा चान्तरात्मैवं प्रकृतिः स्थिता ॥२९॥आवर्तः सलिलस्येव यः स्पन्दस्त्वयमात्मनः ।प्रोक्तः प्रकृतिशब्देन तेनैवेह स एव हि ॥३०॥यथैकः स्पन्दपवनौ नाम्ना भिन्नौ न सत्तया ।तथैकमात्मप्रकृती नाम्रा भिन्ने न सत्तया ॥३१॥अबोधादेतयोर्भेदो बोधेनैव विलीयते ।अबोधात्सन्मयो याति रज्ज्वां सर्पभ्रमो यथा ॥३२॥चित्क्षेत्रे कलनाबीजं यदेतत्पतति स्फुरन् ।चित्ताङ्कुरं तदेतस्माद्भाविसंसारखण्डकः ॥३३॥एतदेवात्मविज्ञानाद्दग्धं सद्वासनाजलैः ।संसिक्तमपि यत्नेन न भवत्यङ्कुरक्षमम् ॥३४॥नो चेत्पतति चित्क्षेत्रे कलनाबीजकं ततः ।चित्ताङ्कुरा न जायन्ते सुखदुःखलवद्रुमाः ॥३५॥द्वित्वं जगत्यसदुपात्तमबोधजातंबोधक्षयं जहिहि बोधमुपागतोऽसि ।आत्मैकभावविभवेन भवाभयात्मानास्त्येव दुःखमिति नः परमार्थसारः ॥३६॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषु निर्वाणप्रकरणे पूर्वा० संसृतिविचारयोगो नामैकोनपञ्चाशः सर्गः ॥४९॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP