संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः १०१ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः १०१ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १०१ Translation - भाषांतर श्रीवसिष्ठ उवाच ।इति कुम्भवचो राजा भावयंस्तदकृत्रिमम् ।स्वयमात्मपदे तस्मिन्क्षणं परिणतोऽभवत् ॥१॥बभूवामीलितमनोलोचनः शान्तवाङ्मुनिः ।शिलातलादिवोत्कीर्णो निस्पन्दावयवाकृतिः ॥२॥ततो मुहूर्तमात्रेण प्रबुद्धं स्फुरितेक्षणम् ।तमुवाच महाबाहो चूडाला कुम्भरूपिणी ॥३॥कुम्भ उवाच ।कच्चिदस्मिन्पदे स्फारे शुद्धे विततनिर्मले ।सुतल्पे निर्विकल्पानां सुखं विश्रान्तवानसि ॥४॥कच्चिदन्तः प्रबुद्धोसि कच्चिद्भ्रान्तिस्त्वयोज्झिता ।कच्चिज्ज्ञेयं परिज्ञातं दृष्टं द्रष्टव्यमेव वा ॥५॥शिखिध्वज उवाच ।भगवंस्त्वत्प्रसादेन महाविभवभूमिका ।महती पदवी दृष्टा सर्वस्योर्ध्वं स्थिता मया ॥६॥सतां विदितवेद्यानामहो बत महात्मनाम् ।अपूर्वैकामृतमयः सङ्गः सारफलप्रदः ॥७॥जन्मनापि मया लब्धं यन्नाम न महामृतम् ।तदद्य त्वत्समासङ्गात्तेनैवासादितं स्वयम् ॥८॥अनन्तमाद्यममृतं चैतत्कमललोचन ।कथं नासादितमभूत्पूर्वमात्मपदं मया ॥९॥कुम्भ उवाच ।मनस्युपशमं याते त्यक्तभोगैषणे स्थिते ।कषायपाके निर्वृत्ते सर्वेन्द्रियगणस्य च ॥१०॥यान्ति चेतसि विश्रान्तिं विमला देशिकोक्तयः ।यथा सितांशुके शुद्धे बिन्दवः कुङ्कुमाम्भसः ॥११॥कषायाणामनन्तानां संभृतानां शरीरकैः ।स्ववासनास्वरूपाणामद्य पाकस्तवोदितः ॥१२॥देहान्मलानि सर्वाणि कालेन कमलेक्षण ।साधो वृक्षात्फलानीव पाकेन विगलन्त्यधः ॥१३॥वासनात्मसु यातेषु मलेषु विमलं सखे ।यद्वक्ति गुरुरन्तस्तद्विशतीषुर्यथा विसे ॥१४॥कषायपाके संपन्ने त्वं मयाद्य विबोधितः ।तेनाद्यैव तवाज्ञानक्षयो जातो महामते ॥१५॥अद्य पक्वकषायस्त्वमद्यैव ज्ञानसंकथाम् ।अद्येह सोपदेशस्त्वमद्यैवासि प्रबुद्धवान् ॥१६॥शुभाशुभानां सर्वेषां कर्मणामद्य संक्षयः ।सत्सङ्गव्यपदेशेन तव निष्पत्तिमागतः ॥१७॥यावदस्य दिनस्यैष पूर्वभागो महीपते ।तावच्चेतोहंममेति तवाज्ञानं बभूव ह ॥१८॥इदानीं मद्वचोबोधाच्चेतसि क्षयमागते ।हृदयात्संपरित्यक्ते संप्रबुद्धोऽसि भूपते ॥१९॥हृदि यावन्मनःसत्ता तावदज्ञानसस्थितिः ।चित्ते चित्ततया त्यक्ते ज्ञानस्याभ्युदयो भवेत् ॥२०॥द्वित्वैकत्वदृशौ चित्तं तदेवाज्ञानमुच्यते ।एतयोर्यो लयो दृष्टेस्तज्ज्ञानं सा परा गतिः ॥२१॥प्रबुद्धोऽसि विमुक्तोऽसि त्यक्तं चित्तं त्वया नृप ।सदसत्तामयत्वं हि त्वया त्यक्तमसत्पदम् ॥२२॥वीतशोको निरायासो निःसङ्गोऽनन्य आत्मवान् ।महोदयो मुनिर्मौनी स्वरूपे तिष्ठ निर्मले ॥२३॥शिखिध्वज उवाच ।एवं हि भगवन् जन्तोर्मूर्खस्यैवास्ति चित्तभूः ।प्रबुद्धस्य न तज्ज्ञस्य चित्तं नाम किल प्रभो ॥२४॥जीवन्मुक्तास्तदेते हि विहरन्ति कथं वद ।अविद्यमानमनसो युष्मदाद्यास्तथा नराः ॥२५॥इति मे कथयाशेषमन्यैः स्ववचनांशुभिः ।हार्दं तमो मे निपुणमेवंप्रायैः प्रमार्जय ॥२६॥कुम्भ उवाच ।यथा वदसि तत्त्वज्ञ तत्तथैव हि नान्यथा ।चित्तं हि जीवन्मुक्तानां नास्त्यङ्कुर इवाश्मनाम् ॥२७॥पुनर्जननयोग्या या वासना घनवासना ।सा प्रोक्ता चित्तशब्देन न सा तज्ज्ञस्य विद्यते ॥२८॥यया वासनया तज्ज्ञा विहरन्तीह कर्मसु ।तां त्वं सत्त्वाभिधां विद्धि पुनर्जननवर्जिताम् ॥२९॥जीवन्मुक्ता महात्मानः सत्त्वस्थाः संयतेन्द्रियाः ।विहरन्ति गतासङ्गं न चित्तस्थाः कदाचन ॥३०॥मूढं चित्तं चित्तमाहुः प्रबुद्धं सत्त्वमुच्यते ।अप्रबुद्धा हि चित्तस्थाः सत्त्वस्थास्तु महाधियः ॥३१॥भूयः प्रजायते चित्तं सत्त्वं भूयो न जायते ।अप्रबुद्धस्य बन्धोस्ति न प्रबुद्धस्य भूपते ॥३२॥सत्ववानसि संजातो महात्यागी स्थितो भवान् ।अशेषेण त्वया चित्तं त्यक्तमद्येति वेद्म्यहम् ॥३३॥समस्तवासनोन्मुक्तो राजन्नद्यैव राजसे ।आकाशसाम्यमायातं मन्ये तव मुने मनः ॥३४॥शमं प्राप्तोऽसि परमं सिद्धः समसमस्थितिः ।अयं हि स महात्यागः सर्वं यत्तत्समुज्झितम् ॥३५॥स्वर्गापवर्गवित्तादि तपोदानफलाद्यपि ।प्रबुद्धमेधया साधो धिया परमबोधया ॥३६॥तपो नाम कियन्मात्रदुःखक्षयकरं भवेत् ।क्षयातिशयनिर्मुक्तं यत्सुखं समतामयम् ॥३७॥तत्सत्तद्वस्तु तत्किंचिन्न तु स्वर्गादि भङ्गुरम् ।भावाभावैरुपारूढं स्थिताधिगतवेदनम् ॥३८॥स्वर्गो नाम किमानन्दः सोपि संदेहसंस्थितः ।अप्राप्तस्वात्मसंसिद्धेः क्रियाकाण्डः शुभो भवेत् ॥३९॥येन नासादितं हेम रीतिं किं स परित्यजेत् ।चूडालादिसमासङ्गाद्भवेज्ज्ञत्वं सुखेन ते ॥४०॥तत्किमर्थमनर्थेऽस्मिन्निमग्नस्त्वं तपोमये ।आश्रमादिविकल्पांशसाध्यस्याद्य कुकर्मणः ॥४१॥आद्यन्तावस्य सुमते मध्य एव सुखं स्म भो ।यतस्ते समयो जातो यस्मिन्परिणमन्ति च ॥४२॥तपोरूपा विकल्पांशास्तत्र बद्धपदो भव ।चिद्व्योम्नोनभसोत्यच्छात्सर्वेभावाः समुत्थिताः ॥४३॥तथैव परिदृश्यन्ते तत्रैव विलयं गताः ।इदं कार्यमिदं नेति संकल्पा ब्रह्मबिन्दवः ॥४४॥वन्ध्यं शिखिध्वज त्यक्त्वा पूर्णमेव समाश्रय ।इष्टं मे प्रार्थयस्वेति यथैव प्रार्थ्यते सखे ॥४५॥स्त्रिया तथैव स कथं दयितः प्रार्थ्यते स्वयम् ।संकल्परचितानेतान्भावानापतभासुरान् ॥४६॥गृह्णन्ति न महात्मानः प्राज्ञा जलरवीनिव ।स्वर्गमोक्षादिफलदं यत्किंचित्सर्वमेव तत् ॥४७॥त्यक्त्वा समसमाभासो योऽस्यसावेव वै भव ।सत्त्वं सत्त्वेन नाशेन नाश्यं हि विगतस्पृहः ॥४८॥पदार्थौघमिमं गृह्णंस्तिष्ठास्पन्दितचित्तभूः ।अपरिस्पन्दचित्तस्य संसृतिर्नेह धावति ॥४९॥पौरुषप्रभवा साधो विपत्तिर्हि मतौ यथा ।यानि यानीह दुःखानि प्रस्फुरन्ति जगत्त्रये ॥५०॥चेतश्चापलजान्येव तानि तानि महीपते ।स्थिरं शान्तं गतस्पन्दं यस्य चित्तमचापलम् ।सदैव स महानन्दी साम्राज्यस्य स भाजनम् ॥५१॥अथ चेतसि तत्त्वज्ञ स्पन्दास्पन्दौ त्वमेकताम् ।नीत्वा तिष्ठ यथाकाममैक्यमागत्य शाश्वतम् ॥५२॥शिखिध्वज उवाच ।कथमैक्यं विभो यातः स्पन्दास्पन्दाविमावुभौ ।सर्वसंशयविच्छेदकारिन्नेतद्वदाशु मे ॥५३॥कुम्भ उवाच ।एकं वस्तु जगत्सर्वं चिन्मात्रं वारिवाम्बुधि ।तदेव स्पन्दते धीभिः शुद्धवारिव वीचिभिः ॥५४॥ब्रह्म चिन्मात्रममलं सत्त्वमित्यादिनामकम् ।यद्गीतं तदिदं मूढाः पश्यन्त्यङ्ग जगत्तया ॥५५॥चित्स्पन्द एव सर्वस्वं सर्गे तस्माद्धि संसृतिः ।परिस्पन्दो हि विन्ध्यादिशब्दस्पन्दसमं परम् ॥५६॥चितः स एव चेत्स्पन्दस्तथाऽस्पन्दश्च भावितः ।एकरूपतया नाम तत्रेदममलं शिवम् ॥५७॥सर्गश्चित्स्पन्दमात्रात्मा सम्यग्दृष्टौ विलीयते ।उदेत्यसम्यग्दृष्टीनां रज्ज्वां सर्पभ्रमो यथा ॥५८॥सस्पन्दा चित्तदभिधा निःस्पन्दा त्वियमातता ।तुर्यातीतपदारूढा वाचा वक्तुं न पार्यते ॥५९॥शास्त्रसज्जनसंपर्कसंतताभ्यासयोगतः ।कालेनामलतां याते चेतसीन्दाविवोदिता ॥६०॥एतत्केवलमाभातं स्वानुभूतिभिराततम् ।कथ्यते स्वानुभूतेषु स्वयं स्वं रूपमात्मना ॥६१॥प्राप्तोऽसि सारं स्वमनादिमध्य-मत्रैव तिष्ठ स्वपदे निविष्टः ।नो रूपनिर्भेदमहाचिदात्माजातोऽसि साधो खलु वीतशोकः ॥६२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० चू० शिखिध्वजबोधनं नामैकाधिकशततमः सर्गः ॥१०१॥ N/A References : N/A Last Updated : September 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP