संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ९८ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ९८ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ९८ Translation - भाषांतर शिखिध्वज उवाच ।चित्तं नास्तीति मे बोधो यथा युक्त्या स्फुटं भवेत्।तामन्यामथवा ब्रूहि बुद्धं न निपुणं मया ॥१॥कुम्भ उवाच ।चित्तं नास्त्येव हे राजन्कदाचित्किंचन क्वचित् ।यच्चेदं चित्तवद्भाति तद्ब्रह्माभिधमव्ययम् ॥२॥अतोऽज्ञानात्मकं यत्तज्जगदेव न विद्यते ।तत्राहंत्वंतदित्यादिकल्पिताः कलनाः कुतः ॥३॥नास्त्येव जगदेवेदं यच्चेदं किंचनोदितम् ।ब्रह्मैवास्तीह सकलं केन तद्बुध्यते कथम् ॥४॥महाप्रलयसर्गादावेवेदं नोदितं जगत् ।निर्देशस्त्विदमित्यत्र त्वद्बोधाय मया कृतः ॥५॥उपादानात्मकादीनां कारणानामभावतः ।अकारणं च भावानामशेषाणां त्वसंभवात् ॥६॥एवमज्ञानबुद्ध्यात्म जगत्तस्मान्न विद्यते ।तस्माद्यदिदमाभाति भासनं ब्रह्म नेतरत् ॥७॥अनाख्येऽनाकृतौ देवे करोतीदमिति त्वसत् ।भाषितं नोपपत्त्यात्म न सत्यं नानुभूयते ॥८॥अनाख्योऽप्रतिघः स्वात्मा निराकारो य ईश्वरः ।स करोति जगदिति हासायैव वचोऽधियाम् ॥९॥अनेनैव प्रयोगेण राजंश्चित्तं न विद्यते ।जगदेव न सत्साधो कुतश्चित्तादि तद्गतम् ॥१०॥चेतो हि वासनामात्रं वास्ये तु सति वासना ।वास्यं जगत्तदेवासदतश्चित्तास्तिता कुतः ॥११॥यदिदं कचति ब्रह्म स्वयमात्मात्मनात्मनि ।कृतं तस्यैव तेनैव चित्तमित्यादिनामकम् ॥१२॥जगद्दृश्यमिदं वास्यं तदेवोत्पन्नमेव नो ।कारणाभावतः पूर्वमेवातश्चित्तता कुतः ॥१३॥अतश्चिद्व्योममात्रात्म परमाकाशनामकम् ।स्फारं वेदनमेवेदं कचत्यस्ति कुतो जगत् ॥१४॥यत्किंचित्परमाकाश ईषत्कचकचायते ।चिदादर्शे न जातत्वान्न चित्तं नो जगत्क्रिया ॥१५॥अहं त्वं जगदित्येषा प्रतिपत्तिर्न वास्तवी ।मिथ्या स्वप्न इवाभाति नूनं मेऽशेषकारिणी ॥१६॥वास्यस्य जगतोऽभावाद्यतो नास्त्येव वासना ।अतस्तदात्मकं चित्तं कीदृशं क्व कुतः कथम् ॥१७॥अप्रबुद्धैरवगतं चित्तं दृश्यमिदं जगत् ।असच्चित्तं निराकारं पूर्वमुत्पन्नमेव नो ॥१८॥नोत्पन्नं कारणाभावात्सर्गादावेव सर्वदा ।लोकशास्त्रानुभवतो न च दृश्यस्य वस्तुनः ॥१९॥अनादित्वमजत्वं वा स्थैर्यं वाप्युपपद्यते ।साकारस्यास्य जगतः स्थूलस्य प्रतिघाकृतेः ॥२०॥समस्तकारणाभावाल्लोकशास्त्रानुभूतिभिः ।युज्यन्ते च निराकर्तुं न महाप्रलयादयः ॥२१॥शास्त्रानुभववेदार्थसिद्धान्तैस्ते त्रयोऽपि वा ।प्रलयाश्च न सन्तीति वक्त्युन्मत्तक एव च ॥२२॥लोकः शास्त्राणि वेदाश्च प्रमाणं यस्य नो मतेः ।असद्भ्यो ह्यतिमूढः स सज्जनस्तं न संश्रयेत् ॥२३॥न च सप्रतिघस्यास्य दृश्यस्याप्रतिघं क्वचित् ।कारणं भवितुं शक्तं साकारस्य निराकृति ॥२४॥इत्थमालक्ष्यमाणं तत्तदेवं सततं मुने ।न च नार्थक्रियाकारि भवेन्नेत्थमिदं जगत् ॥२५॥तस्मादिदं निरंशस्य चिद्व्योम्नोऽप्रतिघाकृतेः ।निराकृतेरनन्तस्य पूर्वात्पूर्वनिरंशतः ॥२६॥ब्रह्मणः सर्वरूपस्य शान्तस्यात्तस्य यत्समम् ।स्वत एवात्मकचनं सर्गप्रलयरूपधृक् ॥२७॥स्वकं वपुश्च तेनैव ज्ञातं जगदिव क्षणात् ।क्षणान्तरानुबुद्धं सद्ब्रह्मैवास्ते निरात्मनि ॥२८॥ब्रह्मैवेदमतः सर्वं क्वचिन्न जगदादिधीः ।क्वाचित्तादि क्वचित्तादि क्व द्वैतैक्यादिकल्पना ॥२९॥सर्वं निरालम्बमजं प्रशान्त-मनादिरित्यात्म यथास्थितं सत् ।इदं तु नानेव न चाप्यनानायथास्थितं तिष्ठ सुकाष्ठमौनम् ॥३०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० चू० शिखिध्वजावबोधनं नामाष्टनवतितमः सर्गः ॥९८॥ N/A References : N/A Last Updated : September 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP