निर्वाणप्रकरणं - सर्गः २
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवाल्मीकिरुवाच ।
ततः क्लिन्नेन्दुवदना पर्याकुलतमःपदा ।
क्षीयमाणा बभौ श्यामा विवेक इव वासना ॥१॥
पूर्वे ध्वस्ततयालोकं दृश्यमाने परेऽचले ।
शयालीकावतंसाभं तापको निकरो दधौ ॥२॥
अवश्यायकणाकर्षी परामृष्टेन्दुमण्डलः ।
ज्योत्स्नाकवलनालोको बभौ प्राभातिकोऽनिलः ॥३॥
रामलक्ष्मणशत्रुघ्ना उत्थायानुचरैः सह ।
ययुर्वन्दितसंध्यास्ते पुण्यं वासिष्ठमाश्रमम् ॥४॥
तत्र वन्दितसंध्यस्य निर्गतस्यापि सद्मतः ।
मुनेर्ववन्दिरे पादौ पदोर्दत्वार्घ्यसंततिम् ॥५॥
क्षणात्तत्सदनं मौनं मुनिब्राह्मणराजभिः ।
हस्त्यश्वरथयानैश्च शनैर्नीरन्ध्रतां ययौ ॥६॥
अथासौ मुनिशार्दूलस्तयैव सह सेनया ।
गृहं दाशरथं काले रामाद्यनुगतो ययौ ॥७॥
तत्रैनं पूर्वसंबन्धः कृतसंध्यो महीपतिः ।
दूरमार्गं विनिर्गत्य पूजयामास सादरम् ॥८॥
पुष्पमुक्तामणिव्रातैर्भूयोऽत्यधिकभूषिताम् ।
सभा प्रविश्य ते सर्वे विविशुर्विष्टरालिषु ॥९॥
अथ तस्मिन्नवसरे ह्यस्तनाः सर्व एव ते ।
श्रोतारः समुपाजग्मुर्नभश्चरमहीचराः ॥१०॥
विवेश सा सभा सौम्या कृतान्योन्याभिवन्दना ।
बभौ राजसमाभोगा शान्तवातेव पद्मिनी ॥११॥
यथाप्रदेशमेवाशु निविष्टेषु यथासुखम् ।
तेषु तद्देशयोगेषु विप्रर्षिमुनिराजसु ॥१२॥
मृदुनि स्वागतरवे शनैः शममुपागते ।
सभाकोणोपविष्टेषु शान्तशब्देषु बन्दिषु ॥१३॥
तरसैवोदितेष्वाशु श्रोतुमभ्यागतेष्विव ।
गवाक्षादिव जालेषु प्रविष्टेष्वर्करश्मिषु ॥१४॥
सत्वरप्रविशच्छ्रोतृहस्तस्पर्शघटोद्भवे ।
मुक्ताजालझणत्कारे निद्रायामिव शाम्यति ॥१५॥
कुमारः शंकरस्येव कचो देवगुरोरिव ।
प्रह्लाद इव शुक्रस्य सुपर्ण इव शार्ङ्गिणः ॥१६॥
वसिष्ठस्यानने रामः शनैर्दृष्टिं न्यवेशयत् ।
भ्रमन्तीमम्बरोपान्ते फुल्लपद्म इवालिनीम् ॥१७॥
मुनिस्त्वनुज्झितेनाथ तेनैव रघुनन्दनम् ।
क्रमेणोवाच वाक्यज्ञो वाक्यं वाक्यार्थकोविदम् ॥१८॥
श्रीवसिष्ठ उवाच ।
कच्चित्स्मरसि यत्प्रोक्तं ह्यो मया रघुनन्दन ।
वाक्यमत्यन्तगुर्वर्थं परमार्थावबोधनम् ॥१९॥
इदानीमवबोधार्थमन्यच्च रिपुमर्दन ।
उच्यमानं मयेदं च श्रृणु शाश्वतसिद्धये ॥२०॥
वैराग्याभ्यासवशतस्तथा तत्त्वावबोधनात् ।
संसारस्तीर्यते तेन तेष्वेवाभ्यासमाहर ॥२१॥
सम्यक्तत्त्वावबोधेन दुर्बोधे क्षयमागते ।
गलिते वासनावेशे विशोकं प्राप्यते पदम् ॥२२॥
दिक्कालाद्यनवच्छिन्नमदृष्टोभयकोटिकम् ।
एकं ब्रह्मैव हि जगत्स्थितं द्वित्वमुपागतम् ॥२३॥
सर्वभावानवच्छिन्नं यत्र ब्रह्मैव विद्यते ।
शान्तं समसमाभासं तत्रान्यत्वं कथं भवेत् ॥२४॥
इति मत्वाहमित्यन्तर्मुक्त्वा मुक्तवपुर्महान् ।
एकरूपः प्रशान्तात्मा साक्षात्स्वात्मसुखो भव ॥२५॥
नास्ति चित्तं न चाविद्या न मनो नच जीवकः ।
एताः स्वकलना राम कृता ब्रह्मण एव ताः ॥२६॥
याः संपदो याश्च दृशो याश्चितो यास्तदेषणाः ।
ब्रह्मैव तदनाद्यन्तमब्धिवत्प्रविजृम्भते ॥२७॥
पाताले भूतले स्वर्गे तृणे प्राण्यम्बरेऽपि च ।
दृश्यते तत्परं ब्रह्म चिद्रूपं नान्यदस्ति हि ॥२८॥
उपेक्ष्यहेयोपादेयबन्धवो विभवा वपुः ।
ब्रह्मैव विगताद्यन्तमब्धिवत्प्रविजृम्भते ॥२९॥
यावदज्ञानकलना यावदब्रह्मभावना ।
यावदास्था जगज्जाले तावच्चित्तादिकल्पना ॥३०॥
देहे यावदहंभावो दृश्येऽस्मिन्यावदात्मना ।
यावन्ममेदमित्यास्था तावच्चित्तादिविभ्रमः ॥३१॥
यावन्नोदितमुच्चैस्त्वं सज्जनासङ्गसङ्गतः ।
यावन्मौर्ख्यं न संक्षीणं तावच्चित्तादिनिम्नता ॥३२॥
यावच्छिथिलतां यातं नेदं भुवनभावनम् ।
सम्यग्दर्शनशक्त्यान्तस्तावच्चित्तादयः स्फुटाः ॥३३॥
यावदज्ञत्वमन्धत्वं वैवश्यं विषयाशया ।
मौर्ख्यान्मोहसमुच्छ्रायस्तावच्चित्तादिकल्पना ॥३४॥
यावदाशाविषामोदः परिस्फुरति हृद्वने ।
प्रविचारचकोरोऽन्तर्न तावत्प्रविशत्यलम् ॥३५॥
भोगेष्वनास्थमनसः शीतलामलनिर्वृतेः ।
छिन्नाशापाशजालस्य क्षीयते चित्तविभ्रमः ॥३६॥
तृष्णामोहपरित्यागान्नित्यशीतलसंविदः ।
पुंसः प्रशान्तचित्तस्य प्रबुद्धा त्यक्तचित्तभूः ॥३७॥
असंस्तुतमिवानास्थमवस्तु परिपश्यतः ।
दूरस्थमिव देहं स्वमसन्तं चित्तभूः कुतः ॥३८॥
भावितानन्तचित्तत्त्वरूपरूपान्तरात्मनः ।
स्वान्तावलीनजगतः शान्तो जीवादिविभ्रमः ॥३९॥
असम्यग्दर्शने शान्ते मिथ्याभ्रमकरात्मनि ।
उदिते परमादित्ये परमार्थैकदर्शने ॥४०॥
अपुनर्दर्शनायैव दग्धसंशुष्कपर्णवत् ।
चित्तं विगलितं विद्धि वह्नौ घृतलवं यथा ॥४१॥
जीवन्मुक्ता महात्मानो ये परावरदर्शिनः ।
तेषां या चित्तपदवी सा सत्त्वमिति कथ्यते ॥४२॥
जीवन्मुक्तशरीरेषु वासना व्यवहारिणी ।
न चित्तनाम्नी भवति सा हि सत्त्वपदं गता ॥४३॥
निश्चेतसो हि तत्त्वज्ञा नित्यं समपदे स्थिताः ।
लीलया प्रभ्रमन्तीह सत्त्वसंस्थितिहेलया ॥४४॥
शान्ता व्यवहरन्तोऽपि सत्त्वस्थाः संयतेन्द्रियाः ।
नित्यं पश्यन्ति तज्जयोतिर्न द्वैतैक्येन वासना ॥४५॥
अन्तर्मुखतया सर्वं चिद्वह्नौ त्रिजगत्तृणम् ।
जुह्वतोऽन्तर्निवर्तन्ते मुनेश्चित्तादिविभ्रमाः ॥४६॥
विवेकविशदं चेतः सत्त्वमित्यभिधीयते ।
भूयः फलति नो मोहं दग्धबीजमिवाङ्कुरम् ॥४७॥
यावत्सत्त्वं विमूढान्तः पुनर्जननधर्मिणी ।
चित्तशब्दाभिधानोक्ता विपर्यस्यति बोधतः ॥४८॥
प्राप्तप्राप्यो भवान्नाम सत्त्वभावमुपागतम् ।
चित्तं ज्ञानाग्निना दग्धं न भूयः परिरोहति ॥४९॥
संरोहतीषणाविद्धं यथा परशुनाग्निना ।
न तु ज्ञानाग्निनिर्दग्धं प्रबोधविशदं मनः ॥५०॥
ब्रह्मबृंहैव हि जगज्जगच्च ब्रह्मबृंहणम् ।
विद्यते नानयोर्भेदश्चिद्घनब्रह्मणोरिव ॥५१॥
चिदन्तरस्ति त्रिजगन्मरिचे तीक्ष्णता यथा ।
नातश्चिज्जगती भिन्ने तस्मात्सदसती मुधा ॥५२॥
शब्दशब्दार्थसंकेतवासनेह न संविदा ।
चिद्व्योमत्वादुभे भातस्त्यजातः सदसन्मती ॥५३॥
अचिन्मयत्वान्नासि त्वं स्वात्मा किमिव रोदिषि ।
अचिन्मयत्वे जगतामभावे कल्पनं कुतः ॥५४॥
चिन्मयं चेत्सदा सर्वं तच्चित्त्वं प्रविचारय ।
शुद्धं सत्त्वमनाद्यन्तं तत्राङ्ग कलना कुतः ॥५५॥
चिदात्मासि निरंशोऽसि पारावारविवर्जितः ।
रूपं स्मर निजं स्फारं माऽस्मृत्या संमितो भव ॥५६॥
तां स्वसत्तां गतः सर्वमसर्वं भावयोदयी ।
तादृग्रूपोऽसि शान्तोऽसि चिदसि ब्रह्मरूप्यसि ॥५७॥
चिच्छिलोदरमेवासि नासि नानास्यथाप्यसि ।
योसि सोसि न सोसीव सदस्यसदसि स्वभाः ॥५८॥
यः पदार्थविशेषोऽन्तर्न त्वं न ह्येव सोऽस्ति ते ।
तदस्यतदसि स्वस्थश्चिद्घनात्मन्नमोऽस्तु ते ॥५९॥
आद्यन्तवर्जितविशालशिलान्तराल-
संपीडचिद्घनवपुर्गगनामलस्त्वम् ।
स्वस्थो भवाजठरपल्लवकोशलेखा
लीलास्थिताखिलजगज्जय ते नमस्ते ॥६०॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षोपायेषु निर्वाणप्रकरणे पू०
विश्रान्तिसुदृढीकरणं नाम द्वितीयः सर्गः ॥२॥
N/A
References : N/A
Last Updated : September 22, 2021
TOP