संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ५५ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ५५ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ५५ Translation - भाषांतर श्रीभगवानुवाच ।न कुर्याद्भोगसंत्यागं न कुर्याद्भोगभावनम् ।स्थातव्यं सुसमेनैव यथाप्राप्तानुवर्तिना ॥१॥अनात्मन्यात्मतां देहे मा भावय भवात्मनि ।आत्मन्येवात्मतां सत्ये भावयाऽभवरूपिणि ॥२॥देहनाशे महाबाहो न किंचिदपि नश्यति ।आत्मनाशो हि नाशः स्यान्न चात्मा नश्यति ध्रुवः ॥३॥न हि शीर्यत्यचित्तात्मा त्यक्तसर्वपरिग्रहः ।कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ॥४॥आसक्तिमाहुः कर्तृत्वमकर्तुरपि तद्भवेत् ।मौर्ख्यस्थिते हि मनसि तस्मान्मौर्ख्यं परित्यजेत् ॥५॥परं तत्त्वज्ञमाश्रित्य निरासक्तेर्महात्मनः ।सर्वकर्मरतस्यापि कर्तृतोदेति न क्वचित् ॥६॥अविनाशमनाद्यन्तमात्मानमजरं विदुः ।नश्यत्यात्मेति दुर्बोधो मा तवास्त्विह दुःखदः ॥७॥न तथा परिपश्यन्ति विदितात्मान उत्तमाः ।पश्यन्त्यनात्मनात्मानं स्वमात्मन्यात्ममानिनः ॥८॥अर्जुन उवाच ।एवं चेत्त्रिजगन्नाथ मूढानामपि मानद ।देहनाशे समुत्पन्ने इष्टं नष्टं न किंचन ॥९॥श्रीभगवानुवाच ।एवमेतन्महाबाहो न किंचिन्नश्यति क्वचित् ।आत्मैवास्त्यविनाशात्मा किं तस्य क्व विनश्यति ॥१०॥इदं नष्टमिदं युक्तमिति मोहभ्रमादृते ।अन्यत्तथा न पश्यामि वन्ध्यास्त्रीतनयं यथा ॥११॥नासतो विद्यते भावो नाभावो विद्यते सतः ।उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥१२॥अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥१३॥अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥१४॥आत्मा चैकोऽस्ति न द्वित्वमसतः संभवः कुतः ।अविनाशस्त्वनन्तोऽसौ सतो नाशो न विद्यते ॥१५॥द्वित्वैकत्वपरित्यागे शेषं यत्परिशिष्यते ।शान्तं सदसतोर्मध्यं तदस्तीह परं पदम् ॥१६॥अर्जुन उवाच ।तन्मृतोऽस्मीति भगवन्किंकृता तु नृणां स्थितिः ।कथं स्थितौ च लोकानां तौ स्वर्गनरकौ प्रभो ॥१७॥श्रीभगवानुवाच ।भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।एतत्तन्मात्रजालात्मा जीवो देहेषु तिष्ठति ॥१८॥स कृष्यते वासनया रज्वेव पशुपोतकः ।स तिष्ठति शरीरान्तः पञ्जरे विहगो यथा ॥१९॥स कालदेशतो देहाज्जर्जरत्वमुपागतात् ।वासनावशतो याति प्लक्षपर्णाद्रसो यथा ॥२०॥श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥२१॥वासनावत्त्वमेवास्य देहो नेतरयुक्तिजः ।क्षीयते वासनात्यागे क्षीणे भवति तत्पदम् ॥२२॥वासनावान्परापुष्टो भूत्वा भ्राम्यति योनिषु ।जीवो भ्रमभराभारो मायापुरुषको यथा ॥२३॥अक्षस्वभावानखिलाञ्छरीराद्वासनावशः ।जीवो गृहीत्वा संयाति पुष्पाद्गन्धमिवानिलः ॥२४॥देहो निस्पन्दतामेति जीवे कौन्तेय निर्गते ।निस्पन्दावयवाभोगः शान्तवात इव द्रुमः ॥२५॥अचेष्टं छेदभेदादिदोषैरायात्यदृश्यताम् ।मृत इत्युच्यते तेन देहो विगतजीवितः ॥२६॥स जीवः प्राणमूर्तिः खे यत्र यत्रावतिष्ठते ।तं तं स्ववासनाभ्यासात्पश्यत्याकारमाततम् ॥२७॥अयं देहो हि जीवेन त्वसन्नेवावलोकितः ।अस्य नाशे त्वमप्येवं पश्य मा वा सुषुप्तवत् ॥२८॥यथैव पश्यत्याकारांस्तेषां नाशांस्तथैव सः ।आदिसर्गे भावनया किलैष्वेवं विभावतः ॥२९॥झटित्युद्भवकाले हि यद्यथा दृश्यते पुरः ।आनिपातं तदेवास्या अविनाभाविसंविदः ॥३०॥प्राक्तनं वासनामूलं पुरुषार्थेन जीयते ।यत्नेनाद्यतनेनाशु ह्यस्तनायतनं यथा ॥३१॥य एव पुरुषार्थेन दृष्टो बलवता क्षणात् ।पूर्वोत्तरविशेषांशः स एव जयति स्फुटम् ॥३२॥अपि स्फुटति विन्ध्याद्रौ वाति वा प्रलयानिले ।पौरुषं हि यथाशास्त्रमतस्त्याज्यं न धीमता ॥३३॥नरकस्वर्गसर्गादिवासनावशतोऽभितः ।प्रपश्यति चिराभ्यस्तं जीवो जरठमोहधीः ॥३४॥अर्जुन उवाच ।नरकस्वर्गसर्गादिसंभ्रमेषु जगत्पते ।किमस्य कारणं ब्रूहि जीवस्य जगतः स्थितेः ॥३५॥श्रीभगवानुवाच ।स्वप्नोपमाना तेनेह श्रेयसे वासना क्षयः ।चिराभ्यासवशात्प्रौढा संसारभ्रमकारिणी ॥३६॥अर्जुन उवाच ।किमुत्था देवदेवेश क्षीयते वासना कथम् ।श्रीभगवानुवाच ।मौर्ख्यमोहसमुत्थाना त्वनात्मन्यात्मभावना ।आत्मज्ञानान्महाबोधाद्विलयं याति वासना ॥३७॥भावितात्मासि कौन्तेय सत्यं विज्ञातवानसि ।अयं सोहं जना एते मयेति त्यज वासनाम् ॥३८॥अर्जुन उवाच ।वासनाविलये जीवो विलीनो भवति स्वयम् ।यो हि यत्सत्तयोच्छूनस्तन्नाशात्स विलीयते ॥३९॥जीवे विलयमायाते देशकालान्यथाकृतौ ।कोऽसौ भाजनतामेति जन्मनो मरणस्य च ॥४०॥श्रीभगवानुवाच ।स्वयं कल्पितसंकल्पमात्मरूपं यदाविलम् ।तदेव वासनाकारं जीवं विद्धि महामते ॥४१॥अनायत्तमसंकल्पमात्मरूपं यदव्ययम् ।प्रबोधाद्वासनामुक्तं तन्मोक्षं विद्धि भारत ॥४२॥जीवन्नेव महाबाहो तत्त्वं प्रेक्ष यथास्थितम् ।वासनावागुरोन्मुक्तो मुक्त इत्यभिधीयते ॥४३॥यो न निर्वासनो नूनं सर्वधर्मपरोऽपि सः ।सर्वज्ञोऽप्यभितो बद्धः पञ्जरस्थो यथा खगः ॥४४॥दुर्दर्शनस्य गगने शिखिपिच्छिकेवसूक्ष्मा परिस्फुरति यस्य तु वासनान्तः ।मुक्तः स एव भवतीह हि वासनैवबन्धो न यस्य ननु तत्क्षय एव मोक्षः ॥४५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे पू० अर्जुनोपाख्याने जीवतत्त्वनिर्णयो नाम पञ्चपञ्चाशः सर्गः ॥५५॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP