संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः १२८ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः १२८ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १२८ Translation - भाषांतर श्रीवाल्मीकिरुवाच ।शान्तो दान्तश्चोपरतो निषिद्धात्काम्यकर्मणः ।विषयेन्द्रियसंश्लेषसुखाच्च श्रद्धयान्वितः ॥१॥मृद्वासने समासीनो जितचित्तेन्द्रियक्रियः ।ओमित्युच्चारयेत्तावन्मनो यावत्प्रसीदति ॥२॥प्राणायामं ततः कुर्यादन्तःकरणशुद्धये ।इन्द्रियाण्याहरेत्पश्चाद्विषयेभ्यः शनैःशनैः ॥३॥देहेन्द्रियमनोबुद्धिक्षेत्रज्ञानां च संभवः ।यस्माद्भवति तज्ज्ञात्वा तेषु पश्चाद्विलापयेत् ॥४॥विराजि प्रथमं स्थित्वा तत्रात्मनि ततः परम् ।अव्याकृते स्थितः पश्चात्स्थितः परमकारणे ॥५॥मांसादिपार्थिवं भागं पृथिव्यां प्रविलापयेत् ।आप्यं रक्तादिकं चाप्सु तैजसं तेजसि क्षिपेत् ॥६॥वायव्यं च महावायौ नाभसं नभसि क्षिपेत् ।पृथिव्यादिषु विन्यस्य चेन्द्रियाण्यात्मयोनिषु ॥७॥श्रोत्रादिलक्षणोपेतां कर्तुर्भोगप्रसिद्धये ।दिक्षु न्यस्यात्मनः श्रोत्रं त्वचं विद्युति निक्षिपेत् ॥८॥चक्षुरादित्यबिम्बे च जिह्वामप्सु विनिक्षिपेत् ।प्राणं वायौ वाचमग्नौ पाणिमिन्द्रे विनिक्षिपेत् ॥९॥विष्णौ तथात्मनः पादौ पायुं मित्रे तथैव च ।उपस्थं कश्यपे न्यस्य मनश्चन्द्रे निवेशयेत् ॥१०॥बुद्धिं ब्रह्मणि संयच्छेदेताः करणदेवताः ।इन्द्रियव्यपदेशेन व्यादिश्यन्ते च देवताः ॥११॥श्रुतिवाक्यमनुस्मृत्य न स्वतः प्रकटीकृताः ।एवं न्यस्यात्मनो देहं विराडस्मीति चिन्तयेत् ॥१२॥ब्रह्माण्डान्तः स्थितो योऽसावर्धनारीश्वरः प्रभुः ।आधारः सर्वभूतानां कारणं तदुदाहृतम् ॥१३॥स यज्ञसृष्टिरूपोऽसौ जगद्वृत्तौ व्यवस्थितः ।द्विगुणाण्डाद्वहिः पृथ्वी पृथिव्या द्विगुणं जलम् ॥१४॥सलिलाद्द्विगुणं तेजस्तेजसो द्विगुणोऽनिलः ।वायोर्द्विगुणमाकाशमूर्ध्वमेकैकशः क्रमात् ॥१५॥व्यस्तेन च समस्तेन व्यापिना ग्रथितं जगत् ।क्षितिं चाप्सु समावेश्य सलिलं चानले क्षिपेत् ॥१६॥अग्निं वायौ समावेश्य वायुं च नभसि क्षिपेत् ।नभश्च महदाकाशे समस्तोत्पत्तिकारणे ॥१७॥स्थित्वा तस्मिन्क्षणं योगी लिङ्गमात्रशरीरधृक् ।वासना भूतसूक्ष्माश्च कर्माविद्ये तथैव च ॥१८॥दशेन्द्रियमनोबुद्धिरेतल्लिङ्गं विदुर्बुधाः ।ततोऽर्धोण्डाद्बहिर्यातस्तत्रात्मास्मीति चिन्तयेत् ॥१९॥चतुर्मुखोऽग्रके चायं भूतसूक्ष्मव्यवस्थितः ।लिङ्गमव्याकृते सूक्ष्मे न्यस्याव्यक्ते च बुद्धिमान् ॥२०॥नामरूपविनिर्मुक्तं यस्मिन्संतिष्ठते जगत् ।तमाहुः प्रकृतिं केचिन्मायामेके परे त्वणून् ॥२१॥अविद्यामपरे प्राहुस्तर्कविभ्रान्तचेतसः ।तत्र सर्वे लयं गत्वा तिष्ठन्त्यव्यक्तरूपिणः ॥२२॥निःसंबन्धा निरास्वादाः संभवन्ति ततः पुनः ।तत्स्वरूपा हि तिष्ठन्ति यावत्सृष्टिः प्रवर्तते ॥२३॥आनुलोम्यात्स्मृता सृष्टिः प्रातिलोम्येन संहृतिः ।अतः स्थानत्रयं त्यक्त्वा तुरीयं पदमव्ययम् ॥२४॥ध्यायेत्तत्प्राप्तये लिङ्गं प्रविलाप्य परं विशेत् ।भूतेन्द्रियमनोबुद्धिवासनाकर्मवायवः ॥२५॥अज्ञानं च प्रतिष्ठाः स्युर्लिङ्गमव्याकृते सति ।भरद्वाज उवाच ।इदानीं लिङ्गनिगडान्मुक्तोऽहं सर्वथा यतः ॥२६॥चिदंशत्वात्प्रविष्टोऽहं चैतन्यानन्दसागरे ।अभेदात्परमात्मास्मि सर्वोपाधिविवर्जितः ॥२७॥कूटस्थः केवलो व्यापी चिदचिच्छक्तिमानहम् ।घटाभावे घटाकाशकलशाकाशयोर्यथा ॥२८॥तमाहुः श्रुतयो बह्व्य एवमेवैक्यमादरात् ।यथाग्निरग्नौ संक्षिप्तः समानत्वमनुव्रजेत् ॥२९॥तदाख्यस्तन्मयो भूत्वा गृह्यते न विशेषतः ।यथा तृणादिकं क्षिप्तं रुमायां लवणं भवेत् ॥३०॥अचेतनं जगन्न्यस्तं चैतन्ये चेतनी भवेत् ।यथा वै लवणग्रन्थिः समुद्रे सैन्धवो यथा ॥३१॥नामरूपाद्विनिर्मुक्तः प्रविश्यैति समुद्रताम् ।यथा जले जलं न्यस्तं क्षीरे क्षीरं घृते घृतम् ॥३२॥अविनष्टा भवन्त्येते गृह्यन्ते न विशेषतः ।तथाहं सर्वभावेन प्रविष्टश्चेतने सति ॥३३॥नित्यानन्दे समस्तज्ञे परे परमकारणे ।नित्यं सर्वगतं शान्तं निरवद्यं निरञ्जनम् ॥३४॥निष्कलं निष्क्रियं शुद्धं तद्ब्रह्मास्मि परं परम् ।हेयोपादेयनिर्मुक्तं सत्यरूपं निरिन्द्रियम् ॥३५॥केवलं सत्यसंकल्पं शुद्धं ब्रह्मास्म्यहं परम् ।पुण्यपापविनिर्मुक्तं कारणं जगतः परम् ॥३६॥अद्वितीयं परं ज्योतिर्ब्रह्मास्म्यानन्दमव्ययम् ।एवमादिगुणैर्युक्तं सत्त्वादिगुणवर्जितम् ॥३७॥प्रविष्टं सकलं ब्रह्म सदा ध्यायेत्स्वकर्मकृत् ।एवमभ्यसतः पुंसो मनोऽस्तं याति तत्र वै ॥३८॥मनस्यस्तं गते तस्य स्वयमात्मा प्रकाशते ।प्रकाशे सर्वदुःखानां हानिः स्यात्सुखमात्मनि ॥३९॥स्वयमेवात्मनात्मानमानन्दं प्रतिपद्यते ।न मत्तोऽस्त्यपरः कश्चिच्चिदानन्दमयः प्रभुः ॥४०॥अहमेकः परं ब्रह्म इत्यात्मान्तः प्रकाशते ।श्रीवाल्मीकिरुवाच ।सखे संन्यस्य कर्माणि ब्रह्मणः प्रणयी भव ॥४१॥नेष्यसे यदि संसारचक्रावर्तभ्रमः शमम् ।भरद्वाज उवाच ।त्वयोक्तं सर्वमेवेदं ज्ञानं बुद्धं मया गुरो ॥४२॥बुद्धिश्च निर्मला जाता संसारो न विलम्बते ।इदानीं ज्ञातुमिच्छामि ज्ञानिनः कर्म कीदृशम् ॥४३॥प्रवृत्तं वा निवृत्तं वा कर्तव्यं च न वा प्रभो॥श्रीवाल्मीकिरुवाच ।तस्माद्यन्न कृते दोषस्तत्कर्तव्यं मुमुक्षुभिः ॥४४॥काम्यं कर्म निषिद्धं च न कर्तव्यं विशेषतः ।यदा ब्रह्मगुणैर्जीवो युक्तस्त्यक्त्वा मनोगुणान् ॥४५॥संशान्तकरणग्रामस्तदा स्यात्सर्वगः प्रभुः ।देहेन्द्रियमनोबुद्धेः परस्तस्माच्च यः परः ॥४६॥सोऽहमस्मि यदा ध्यायेत्तदा जीवो विमुच्यते ।कर्तृभोक्त्त्रादिनिर्मुक्तः सर्वोपाधिविवर्जितः ॥४७॥सुखदुःखविनिर्मुक्तस्तदानीं विप्रमुच्यते ।सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ॥४८॥यदा पश्यत्यभेदेन तदा जीवो विमुच्यते ।जाग्रत्स्वप्नसुषुप्ताख्यं हित्वा स्थानत्रयं यदा ॥४९॥विशेत्तुरीयमानन्दं तदा जीवो विमुच्यते ।जीवस्य च तुरीयाख्या स्थितिर्या परमात्मनि ॥५०॥अवस्थाबीजनिद्रादिनिर्मुक्ता चित्सुखात्मिका ।योगस्य सेयं वा निष्ठा सुखं संवेदनं महत् ॥५१॥मनस्यस्तं गते पुंसां तदन्यन्नोपलभ्यते ।प्रशान्तामृतकल्लोले केवलामृतवारिधौ ॥५२॥मज्ज मज्जसि किं द्वैतग्रहक्षाराब्धिवीचिषु ।भज संभरिताभोगं परमेशं जगद्गुरुम् ॥५३॥इति ते वर्णितं सर्वं वसिष्ठस्योपदेशनम् ।अनेन ज्ञानमार्गेण योगमार्गेण पुत्रक ॥५४॥भरद्वाज महाप्राज्ञ सर्वं ज्ञास्यसि निश्चितम् ।परामर्शेन शास्त्रस्य गुरुवाक्यार्थबोधनात् ॥५५॥अभ्यासात्सर्वसिद्धिः स्यादिति वेदानुशासनम् ।तस्मात्त्वं सर्वमुत्सृज्य कुर्वभ्यासे स्थिरं मनः ॥५६॥भरद्वाज उवाच ।रामः प्राप्तः परं योगं स्वात्मनात्मनि हे मुने ।कथं वसिष्ठदेवेन व्यवहारपरः कृतः ॥५७॥इति ज्ञात्वाहमप्येवमभ्यासार्थं यते यथा ।तथैव व्यवहारोऽपि व्युत्थाने मे भविष्यति ॥५८॥श्रीवाल्मीकिरुवाच ।यदा परिणतः साधुः स्वस्वरूपे महामनाः ।विश्वामित्रस्तदोवाच वसिष्ठमृषिसत्तमम् ॥५९॥विश्वामित्र उवाच ।हे वसिष्ठ महाभाग ब्रह्मपुत्र महानसि ।गुरुत्वं शक्तिपातेन तत्क्षणादेव दर्शितम् ॥६०॥दर्शनात्स्पर्शनाच्छब्दात्कृपया शिष्यदेहके ।जनयेद्यः समावेशं शांभवं स हि देशिकः ॥६१॥रामोऽप्ययं विशुद्धात्मा विरक्तः स्वात्मनैव हि ।विभ्रान्तिमात्राकाङ्क्षी च संवादात्प्राप्तवान्पदम् ॥६२॥शिष्यप्रज्ञैव बोधस्य कारणं गुरुवाक्यतः ।मलत्रयमपक्वं चेत्कथं बुद्ध्यति पक्ववत् ॥६३॥ज्ञानं प्रत्यक्षमेवेदं गुरुशिष्यप्रयोजनम् ।उभावपि यतो योग्यौ सर्वेषामीदृशामपि ॥६४॥इदानीं कृपया रामव्युत्थानं कर्तुमर्हसि ।पदे परिणतस्त्वं हि कार्याविष्टा वयं यतः ॥६५॥स्मरन्कार्यं मम विभो यदुद्दिश्याहमागतः ।प्रार्थितश्चातिकष्टेन राजा दशरथः स्वयम् ॥६६॥तद्वृथा मा कृथाः सर्वं शुद्धेन मनसा मुने ।देवकार्यं चरामान्यदवतारप्रयोजनम् ॥६७॥सिद्धाश्रमं मया नीतो रामो राक्षसमर्दनम् ।करिष्यति ततोऽहल्यामुक्तिं च जनकात्मजाम् ॥६८॥परिणेष्यति कोदण्डभङ्गेन कृतनिश्चयः ।रामस्य जामदग्न्यस्य कर्ता नष्टां गतिं ध्रुवम् ॥६९॥पितृपैतामहं राज्यं विगतोऽभयनिस्पृहः ।वनवासच्छलेनेह दण्डकारण्यवासिनः ॥७०॥उद्धरिष्यति तीर्थानि प्राणिनो विविधानि हि ।सीताहरणदौर्गत्यच्छलेन भुवि शोच्यताम् ॥७१॥दर्शयिष्यति सर्वेषां रावणादिवधादपि ।स्त्रीसङ्गिनामथास्वास्थ्यं वानरादेः परावृतिम् ॥७२॥सीताविशुद्धिमन्विच्छँल्लोकानुमतिमात्मनः ।जीवन्मुक्तो निस्पृहोपि क्रियाकाण्डपरायणः ॥७३॥भविष्यति गतिं द्रष्टुं ज्ञानकर्मसमुच्चयौ ।यैर्दृष्टो यैः स्मृतो वापि यैः श्रुतो बोधितस्तु यैः ॥७४॥सर्वावस्थागतानां तु जीवन्मुक्तिं प्रदास्यति ।इति कार्यमशेषेण त्रैलोक्यस्य ममापि हि ॥७५॥अनेन रामचन्द्रेण पुरुषेण महात्मना ।नमोऽस्मै जितमेवैते कोऽप्येवं चिरमेधताम् ॥७६॥श्रीवाल्मीकिरुवाच ।इति श्रुत्वा च ते सर्वे विश्वामित्रेण भाषितम् ।सिद्धाश्च वरयोगीन्द्रा वसिष्ठप्रमुखाः पुनः ॥७७॥रामाङ्गिपद्मरजसामादरस्मरणास्थिताः ।दूरश्रुतोत्तरकथाः कथया मैथिलीपतेः ॥७८॥न संतुतोष भगवान्वसिष्ठोऽन्ये महर्षयः ।गुणान्गुणनिधेस्तस्य ब्रुवन्नाकर्णयञ्छ्रुतम् ॥७९॥विश्वामित्रमुनिं प्राह वसिष्ठो भगवानृषिः ।श्रीवसिष्ठ उवाच ।ब्रूहि विश्वामित्र मुने रामो राजीवलोचनः ।कोऽयमभूद्बुधः किं वा मनुष्यो वाथ राघवः ॥८०॥विश्वामित्र उवाच ।अत्रैव कुरु विश्वासमयं स पुरुषः परः ।विश्वार्थमथिताम्भोधिर्गम्भीरागमगोचरः ॥८१॥परिपूर्णपरानन्दः समः श्रीवत्सलाञ्छनः ।सर्वेषां प्राणिनां रामः प्रदाता सुप्रसादितः ॥८२॥अयं निहन्ति कुपितः सृजत्ययमसत्सकान् ।विश्वादिर्विश्वजनको धाता भर्ता महासखः ॥८३॥अयं व्युत्क्रान्तनिःसारमृदुसंसारधूर्तकैः ।आनन्दसिन्धुर्विततो वीतरागैर्विगाह्यते ॥८४॥क्वचिन्मुक्त इवात्मस्थः क्वचित्तुर्यपदाभिधः ।क्वचित्प्रणीतप्रकृतिः क्वचित्तत्स्थः पुमानयम् ॥८५॥अयं त्रयीमयो देवस्त्रैगुण्यगहनातिगः ।जयत्यङ्गैरयं षड्भिर्वेदात्मा पुरुषोऽद्भुतः ॥८६॥अयं चतुर्बाहुरयं विश्वस्रष्टा चतुर्मुखः ।अयमेव महादेवः संहर्ता च त्रिलोचनः ॥८७॥अजोऽयं जायते योगाज्जागरूकः सदा महान् ।बिभर्ति भगवानेतद्विरूपो विश्वरूपवान् ॥८८॥विजयो विक्रमेणेव प्रकाश इव तेजसा ।प्रज्ञोत्कर्षः श्रुतेनेव सुपर्णेनायमुह्यते ॥८९॥अयं दशरथो धन्यः सुतो यस्य परः पुमान् ।धन्यः स दशकण्ठोऽपि चिन्त्यश्चित्तेन योऽमुना ॥९०॥हा स्वर्गममुना शून्यं हा पातालादिहागतः ।तस्यागमादयं लोको मध्यमः श्रेष्ठतां गतः ॥९१॥राम इत्यवतीर्णोऽयमर्णवान्तःशयः पुमान् ।चिदानन्दघनो रामः परमात्मायमव्ययः ॥९२॥निगृहीतेन्द्रियग्रामा रामं जानन्ति योगिनः ।वयं त्ववरमेवास्य रूपं रूपयितुं क्षमाः ॥९३॥रघोरघोच्छेदकरो भगवानिति शुश्रुम ।वसिष्ठ कृपया त्वं हि व्यवहारपरं कुरु ॥९४॥श्रीवाल्मीकिरुवाच ।इत्युक्त्वावस्थितस्तूष्णीं विश्वामित्रो महामुनिः ।वसिष्ठस्तु महातेजा रामचन्द्रमभाषत ॥९५॥श्रीवसिष्ठ उवाच ।राम राम महाबाहो महापुरुष चिन्मय ।नायं विश्रान्तिकालो हि लोकानन्दकरो भव ॥९६॥यावल्लोकपरामर्शो निरूढो नास्ति योगिनः ।तावद्रूढसमाधित्वं न भवत्येव निर्मलम् ॥९७॥तस्माद्राज्यादिविषयान्पर्यालोक्य विनश्वरान् ।देवकार्यादिभारांश्च भज पुत्र सुखी भव ॥९८॥श्रीवाल्मीकिरुवाच ।इत्युक्तोऽपि यदा रामः किंचिन्नोचे लयं गतः ।तदा सुषुम्नया सोऽपि विवेश हृदयं शनैः ॥९९॥शक्तिप्राणमनःप्रसक्तिकरणो जीवः प्रकाशात्मकोनाडीरन्ध्रसुपुष्टसर्वकरणः प्रोन्मील्य नेत्रे शनैः ।दृष्ट्वोत्कृष्टवसिष्ठमुख्यविदुषो निर्मुक्तसर्वैषणःकृत्याकृत्यविचारणादिरहितः सर्वान्प्रतीक्ष्य स्थितः ॥१००॥श्रुत्वा वसिष्ठवचनं गुरुवाक्यमिति स्वयम् ।श्रुत्वा प्रोवाच भगवान्रामचन्द्रः समाहितः ॥१०१॥श्रीराम उवाच ।न विधेर्न निषेधस्य त्वत्प्रसादादयं प्रभुः ।तथापि तव वाक्यं तु करणीयं हि सर्वदा ॥१०२॥वेदागमपुराणेषु स्मृतिष्वपि महामुने ।गुरुवाक्यं विधिः प्रोक्तो निषेधस्तद्विपर्ययः ॥१०३॥इत्युक्त्वा चरणौ तस्य वसिष्ठस्य महात्मनः ।शिरसा धार्य सर्वात्मा सर्वान्प्राह घृणानिधिः॥१०४॥श्रीराम उवाच ।सर्वे श्रृणुत भद्रं वो निश्चयेन सुनिश्चितम् ।आत्मज्ञानात्परं नास्ति गुरोरपि च तद्विदः ॥१०५॥सिद्धादय ऊचुः ।रामैवमेव सर्वेषां मनसि स्थितिमागतम् ।त्वत्प्रसादाच्च सकलं संवादेन दृढीकृतम् ॥१०६॥सुखी भव महाराज रामचन्द्र नमोऽस्तु ते ।वसिष्ठेनाप्यनुज्ञाता गच्छामोऽद्य यथागतम् ॥१०७॥श्रीवाल्मीकिरुवाच ।एवमुक्त्वा गताः सर्वे रामसंस्तवने रताः ।रामचन्द्रस्य शिरसि पौष्पी वृष्टिः पपात ह ॥१०८॥एतत्ते सर्वमाख्यातं रामचन्द्रकथानकम् ।अनेन क्रमयोगेन भरद्वाज सुखी भव ॥१०९॥इति रघुपतिसिद्धिः प्रोदिता या मया तेवरमुनिवचनालीरत्नमालाविचित्रा ।निखिलकविकुलानां योगिनां सेव्यरूपापरमगुरुकटाक्षान्मुक्तिमार्गं ददाति ॥११०॥य इमं श्रृणुयान्नित्यं विधिं रामवसिष्ठयोः ।सर्वावस्थोऽपि श्रवणान्मुच्यते ब्रह्म गच्छति ॥१११इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते द्वात्रिंशत्साहस्त्र्यां संहितायां बालकाण्डे मोक्षोपायेषु निर्वाणप्रकरणे पूर्वार्धे ब्रह्मदर्शने रामव्युत्थानं नामाष्टाविंशत्युत्तरशततमः सर्गः ॥१२८॥ N/A References : N/A Last Updated : September 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP