संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः १०५ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः १०५ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १०५ Translation - भाषांतर शिखिध्वज उवाच ।एवं स्थिते महाभाग कथमुद्वेगमीदृशम् ।लब्धवानसि देवोऽपि वद वेद्यविदां वर ॥१॥कुम्भ उवाच ।श्रृणु कार्यमिदं चित्तं मदीयं वसुधाधिप ।कथयामि तवाशेषं सर्गे यद्वृत्तमद्य मे ॥२॥सुहृद्यावेदितं दुःखं परमायाति तानवम् ।घनं जडं कृष्णमपि मुक्तवृष्टिरिवाम्बुदः ॥३॥सुहृदा पृच्छता साधु चेतो याति प्रसन्नताम् ।स्वच्छतोपगतेनाशु कतकेन जलं यथा ॥४॥अहं तावदितो यातो भवते पुष्पमञ्जरीम् ।दत्त्वा गगनमुल्लङ्घ्य संप्राप्तश्च त्रिविष्टपम् ॥५॥ततः पित्रा महेन्द्रस्य सभास्थाने यथाक्रमम् ।स्थित्वोत्थाय तथोत्थानकाले पित्रा विवर्जितः ॥६॥इहागन्तुमहं त्यक्त्वा स्वर्गं संप्राप्तवान्नभः ।दिवाकरहयैः सार्धं वहाम्यनिलवर्त्मनि ॥७॥अथैकत्र गतो भानुरेकेनान्येन वर्त्मना ।आगच्छाम्यहमाकाशं सागरापतिताकृतिः ॥८॥अथाग्रे वारिपूर्णानां मेघानां मध्यवर्त्मना ।अपश्यं मुनिमायान्तमहं दुर्वाससं जवात् ॥९॥पयोधरपटच्छन्नं विद्युद्वलयभूऽषितम् ।अभिसारिकया तुल्यं धाराधौताङ्गचन्दनम् ॥१०॥स्थितां सुतरुसुच्छायामापगां वसुधातले ।वेगेनाभिसरन्तं तां तपोलक्ष्मीमिव प्रियाम् ॥११॥तस्य कृत्वा नमस्कारमुक्तं खे वहता मया ।मुने नीलाभ्रवस्त्रस्त्वमभिसारिकया समः ॥१२॥इत्याकर्ण्य मुमोचासौ मयि मानद शापकम् ।स्तनकेशवती कान्ता हावभावविलासिनी ॥१३॥गच्छानेन दुरुक्तेन रात्रौ योषा भविष्यसि ।इति श्रुत्वाऽशुभं वाक्यमुत्थितं जर्जरद्विजात् ॥१४॥विमृशामि मनाग्यावत्तावदन्तर्हितो मुनिः ।इत्युद्वेगमनाः साधो संप्राप्तोऽहं नभस्तलात् ॥१५॥एतत्ते कथितं सर्वं संपन्नोऽस्मि निशाङ्गना ।अतिवाह्यं दिनान्तेषु स्त्रीत्वमेतन्मया कथम् ॥१६॥योषित्स्तनवती रात्रौ वक्तव्यं किं मया पितुः ।संसृतौ भवितव्यानामहो नु विषमा गतिः ॥१७॥अहमप्यद्य यद्दैवाद्यूनामामिषतां गतः ।कष्टं मदपहारेण कलहो जायतेऽधुना ॥१८॥दिवि देवकुमाराणां कामाकुलधियामिह ।गुरुदेवद्विजातीनां लज्जापरवशात्मना ॥१९॥कथमग्रे मया सम्यग्वस्तव्यं यामिनीस्त्रिया ।श्रीवसिष्ठ उवाच ।इत्युक्त्वा क्षणमेकं सा तूष्णीं स्थित्वा मुनिस्थितौ ॥२०॥धैर्यमाश्रित्य कुम्भोऽत्र पुनराह रघूद्वह ।किमज्ञ इव शोचामि किं मम क्षतमात्मनः ॥२१॥यथागतमयं देहो मत्तोऽन्योऽनुभविष्यति ।शिखिध्वज उवाच ।परिदेवनया कोऽर्थो देवपुत्र तथैतया ॥२२॥यदायाति तदायातु देहस्यात्मा न लिप्यते ।कानिचिद्यानि दुःखानि सुखानि विहितानि च ॥२३॥तानि सर्वाणि देहस्य देहिनो न तु कानिचित् ।यदि त्वमपि कार्याणामखेदार्होऽपि खिद्यसे ॥२४॥तदन्येषामुपायः स्यात्क इवागमभूषणः ।खेदे खेदोचितं वाच्यमिति किंचित्त्वमुक्तवान्॥२५॥इदानीं समतामेत्य तिष्ठाखिन्नो यथास्थितम् ।श्रीवसिष्ठ उवाच ।तावेवमादिभिर्वाक्यैरन्योन्याश्वासनं स्वयम् ॥२६॥कृत्वा स्थितौ वनस्निग्धौ सुहृदौ खेदिनौ मिथः ।अथार्कोऽप्यस्य कुम्भस्य स्त्रीत्वमुत्पादयन्निव ॥२७॥जगामास्तं जगद्दीपो दीपः स्नेहक्षयादिव ।व्यवहारभरैः सार्धं पद्माः संकोचमाययुः ॥२८॥मार्गाश्च पथिकैः सार्धं पान्थस्त्रीहृदयानि च ।दाशवद्विहगान्सर्वान्कुर्वदेकत्र संचितान् ॥२९॥तारकारत्नजालाढ्यं भुवने साम्यतां ययौ ।खं हसदिव ताराढ्यं विकासिकुमुदाकरम् ॥३०॥ययावुन्नादचक्राह्वभ्रमद्भ्रमरपेटकम् ।सुहृदौ तावथोत्थाय संध्यामुद्यन्निशाकराम् ॥३१॥वन्दयित्वा तथा कृत्वा जप्यं गुल्मान्तरे स्थितौ ।ततः कुम्भः शनैस्तत्र स्त्रैणमभ्याहरन्वपुः ॥३२॥शिखिध्वजं पुरःसंस्थं प्रोवाच गलदक्षरम् ।पतामीव स्फुरामीव द्रवामीवाङ्गयष्टिभिः ॥३३॥लज्जयैव च ते राजन्मन्ये स्त्रीत्वं व्रजाम्यहम् ।पश्येमे परिवर्धन्ते राजन्मम शिरोरुहाः ॥३४॥प्रस्फुरत्तारकामाला दिनान्ततिमिरा इव ।पश्येमौ मम जायेते प्रोन्मुखावुरसि स्तनौ ॥३५॥कोरकाविव पद्मिन्या वसन्ते गगनोन्मुखौ ।आगुल्फमेव लम्बानि संपद्यन्तेऽम्बराणि मे ॥३६॥देहादेव सखे पश्य स्त्रिया इव शनैः शनैः ।भूषणान्युत रत्नानि माल्यानि विविधानि च ॥३७॥पश्येमान्यङ्ग जायन्ते स्वाङ्गेभ्यो वृक्षपुष्पवत् ।पश्यायं स्वयमेवाद्य चन्द्रांशुकरशोभनः ॥३८॥मूर्ध्नि पट्टांशुको जातो नीहारोऽद्राविवाङ्ग मे ।सर्वाणि कान्तालिङ्गानि जातानि मम मानद ॥३९॥हा धिक्कष्टं विषादो मे किं करोम्यङ्गनास्म्यहम् ।हा धिक्कष्टमहो साधो स्थित एवाहमङ्गना ॥४०॥संविदानुभवाम्यन्तर्नितम्बजघने त्विमे ।विपिने कुम्भ इत्युक्त्वा तूष्णीं खिन्नो बभूव ह ॥४१॥राजापि च तमालोक्य तथैवासीद्विषण्णधीः ।मुहूर्तमात्रेणोवाच शिखिध्वज इदं वचः ॥४२॥कष्टं सोऽयं महासत्त्वः संपन्ना वरवर्णिनी ।साधो विदितवेद्यस्त्वं जानासि नियतेर्गतिम् ॥४३॥अवश्यभाविन्यर्थेऽस्मिन्मा खिन्नहृदयो भव ।आपतन्ति दशास्तास्ताः सुधियां देहमात्रके ॥४४॥न चेतस्यधियां त्वेताश्चित्तं यान्ति न देहकम् ।कुम्भ उवाच ।एवमस्त्वनुतिष्ठामि यामिनीस्त्रीत्वमात्मनः ॥४५॥न खेदमनुगच्छामि नियतिः केन लङ्घ्यते ।इति निर्णीय तौ खेदं तं नीत्वा तनुतामिव ॥४५॥एकतल्पे निशां तूष्णीं नीतवन्तौ चिरेण ताम् ।अथ प्रभाते तत्स्त्रैणं वपुरुत्सृज्य यौवनम् ॥४७॥बभूव कुम्भः कुम्भाभः कुचप्रोज्झितमूर्तिमान् ।इति सा राजमहिषी चूडाला वरवर्णिनी ॥४८॥कुम्भत्वमास्थिता भर्तुः पश्चात्स्त्रीत्वमुपागता ।विजहार वनान्तेषु कुमारीधर्मिणी निशि ।कुम्भरूपधरा चाह्नि भर्त्रा मित्रेण संयुता ॥४९॥कैलासमन्दरमहेन्द्रसुमेरुसह्य-सानुष्वविस्खलितयोगगमागमा सा ।साकं प्रियेण सुहृदा भवता यथेच्छंस्रग्दामहारवलिता विजहार नारी ॥५०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० चू० कुम्भस्य स्त्रीत्वलाभो नाम पञ्चाधिकशततमः सर्गः ॥१०५॥ N/A References : N/A Last Updated : September 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP