निर्वाणप्रकरणं - सर्गः १०६
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
ततः कतिपयेष्वेव दिवसेषु गतेषु सा ।
इदं प्रोवाच भर्तारं कुम्भरूपधरा सती ॥१॥
राजन्राजीवपत्राक्ष ममेदं वचनं श्रृणु ।
निशायां प्रत्यहं तावत्स्थित एवाहमङ्गना ॥२॥
तदिच्छाम्यङ्गनाधर्मं निपुणीकर्तुमीदृशम् ।
भर्त्रे कस्मैचिदात्मानं विवाहेन ददाम्यहम् ॥३॥
तद्भवानेव मे भर्ता रोचते भुवनत्रये ।
गृहाण मां विवाहेन भार्यात्वे निशि सर्वदा ॥४॥
अयत्नोपनतं साधो प्रियेण सुहृदा सह ।
स्त्रीसुखं भोक्तुमिच्छामि मा मे विघ्नकरो भव ॥५॥
क्रमप्रवृत्तमासृष्टेः सुखं साध्यं मनोरमम् ।
प्रकृतं कुर्वतः कार्यं दोषः क इव जायते ॥६॥
इच्छानिच्छे फले त्यक्त्वा समन्तात्सर्ववस्तुषु ।
वयं न सेच्छा नानिच्छाः कुर्मस्तेनेदमीप्सितम् ॥७॥
शिखिध्वज उवाच ।
कृतेनानेन कार्येण न शुभं नाशुभं सखे ।
पश्यामि तन्महाबुद्धे यथेच्छसि तथा कुरु ॥८॥
समतां संप्रयातेन चेतसेदं जगत्त्रयम् ।
स्वरूपमेव पश्यामि यथेच्छसि तदाचर ॥९॥
कुम्भ उवाच ।
यद्येवं तन्महीपाल लग्नमद्यैव शोभनम् ।
राकेयं श्रावणस्यास्य ह्यः सर्वं गणितं मया ॥१०॥
रात्रावद्योदिते चन्द्रे परिपूर्णकलामले ।
जन्यत्रो नौ महाबाहो द्वयोरेव भविष्यति ॥११॥
महेन्द्राद्रिशिरःश्रृङ्गसानावद्य मनोरमे ।
रत्नदीपप्रकाशाढ्ये मणिकन्दरमन्दिरे ॥१२॥
पुष्पभारानतोत्तुङ्गवृक्षराजिविराजिते ।
वनपुष्पलतालास्यनारीनृत्यमनोहरे ॥१३॥
निशि व्योमगतास्तारा भर्त्रा पूर्णेन्दुना सह ।
आवयोः परिपश्यन्तु कर्णान्तायतलोचन ॥१४॥
उत्तिष्ठात्मविवाहार्थं कुर्वः काननकोटरात् ।
राजेश्चन्दनपुष्पादिसंभारं रत्नसंयुतम् ॥१५॥
इत्युक्त्वा कुम्भ उत्थाय सह तेन महीभृता ।
कुसुमावचयं चक्रे तथा रत्नादिसंचयम् ॥१६॥
ततो मुहूर्तमात्रेण रत्नसानौ समे शुभे ।
समालम्भनपुष्पाणां ताभ्यां वै राशयः कृताः ॥१७॥
हाराम्बरमणीन्द्रादिराशयस्त्वपरेऽजिरे ।
सौभाग्यस्येव कामेन कोशाः कालेन संभृताः ॥१८॥
तथा जन्यत्रसंभारं कृत्वा काञ्चनकन्दरे ।
ययतुस्तौ महामित्रे स्नातुं मन्दाकिनीं नदीम् ॥१९॥
तत्रैनं स्नापयामास महाराजं महादरात् ।
गजकुम्भोपमस्कन्धं कुम्भो मङ्गलपूर्वकम् ॥२०॥
भविष्यद्दयितारूपां भविष्यद्दयितोऽङ्गनाम् ।
चूडालां स्नापयामास कुम्भरूपधरां प्रियाम् ॥२१॥
पूजयामासतुः स्नातौ तत्र देवपितृन्मुनीन् ।
यथा क्रियाफलेऽनिच्छौ क्रियात्यागे तथैव तौ॥२२॥
नित्यज्ञानरसातृप्तौ व्यवस्थायां जगत्स्थितेः ।
चक्राते भोजनं भव्यं तावन्योन्यसमीहितम् ॥२३॥
कल्पवृक्षदुकूलानि परिधाय सितानि तौ ।
फलानि भुक्त्वा जन्यत्रस्थानमाययतुः क्रमात् ॥२४॥
एतावताथ कालेन तयोर्जन्यत्रसोत्कयोः ।
प्रियं कर्तुमिवास्ताद्रिं द्रागित्येवाविशद्रविः ॥२५॥
अथ संध्याक्रमे वृत्ते कृते जप्याघमर्षणे ।
विवाहदर्शनायैव ताराजाले खमागते ॥२६॥
मिथुनैकसखीयामा कुमुदोत्करहासिनी ।
प्रालेयजालप्रकरं विकिरन्ती समाययौ ॥२७॥
रत्नदीपान्बहून्सानौ कुम्भः सम्यगयोजयत् ।
ज्योतींषीन्द्वर्कयुक्तानि पद्मोद्भव इवाम्बरे ॥२८॥
भूषयामास राजानं स्त्रीत्वं गच्छन्निशागमे ।
चन्दनागुरुकर्पूरपूरैर्मृगजकुङ्कुमैः ॥२९॥
हारकेयूरकटकैस्तथा कल्पलतांशुकैः ।
स्रगुद्दामावतंसैश्च माल्यैश्च विविधोचितैः ॥३०॥
तथा कल्पलतागुच्छैर्मन्दारैः पारिजातकैः ।
संतानैर्बहुरत्नैश्च मौलिना चेन्दुरूपिणा ॥३१॥
एतावताथ कालेन वधूत्वं कुम्भ आययौ ।
घनस्तनभराक्रान्तो बभूवाशु विलासवान् ॥३२॥
इदं संचिन्तयामास संपन्नोऽयमहं वधूः ।
कामायात्मा मया देयः कार्यं कालोचितं किल ॥३३॥
इयमस्मि वधूः कान्ता भर्ता त्वं मे पुरःस्थितः ।
गृहाण काम मामेहि कालोऽयं तव हृच्छयः ॥३४॥
इति संचिन्त्य भर्तारमग्रस्थगहनस्थितम् ।
उदयन्तमिवादित्यं रतिः काममिवाभ्यगात् ॥३५॥
अहं मदनिका नाम भार्यास्मि तव मानद ।
पादयोस्ते प्रणामोऽयं सस्नेहं क्रियते मया ॥३६॥
इत्युक्त्वा सानवद्याङ्गी लज्जावनमितानना ।
लोलालकेन शिरसा प्रणनाम लसत्पतिम् ॥३७॥
उवाचेदं च हे नाथ त्वं मां भूषय भूषणैः ।
क्रमेणाग्निं च संज्वाल्य मत्पाणिग्रहणं कुरु ॥३८॥
राजसेऽतितरां राजन्मां करोषि स्मरातुराम् ।
रतेर्विवाहे मदनमभिभूयाधितिष्ठसि ॥३९॥
इन्दोरिवांशुजालानि राजन्माल्यानि तानि ते ।
मेरुगङ्गाप्रवाहाभां धत्ते हारस्तवोरसि ॥४०॥
मन्दारकुसुमप्रोतैः कुन्तलैर्नृप राजसे ।
कनकाब्जमिवोल्लोलैर्भृङ्गैः खचितकेसरैः ॥४१॥
रत्नांशुजालैः कुसुमैः श्रिया स्थैर्येण तेजसा ।
रत्नस्थानं विभो मेरुमभिभूयावतिष्ठसे ॥४२॥
एवमादि वदन्तौ तौ भविष्यन्नवदम्पती ।
प्रच्छन्नपूर्वदाम्पत्यौ मिथस्तुष्टौ बभूवतुः ॥४३॥
महाराज्ञीं मदनिकां महाराजः शिखिध्वजः ।
काञ्चनोपलपर्यङ्के निविष्टो भूषयत्स्वयम् ॥४४॥
अवतंसैस्तथा माल्यैर्मणिरत्नविभूषणैः ।
वस्त्रैर्विलेपनैः पुष्पै रुचिरस्थानकार्पितैः ॥४५॥
सा बभौ भूषिता तन्वी मदनी मददायिनी ।
गिरिजेव विवाहोत्का कामकान्तेव कामिनी ॥४६॥
महाराजो महाराज्ञीं भूषयित्वेदमाह ताम् ।
राजसे मृगशावाक्षि लक्ष्मीरिव नवोदिता ॥४७॥
शक्रेण सह यच्छच्या यल्लक्ष्म्या हरिणा सह ।
यद्गौर्याः शंभुना सार्धं तत्ते भवतु मङ्गलम् ॥४८॥
पद्मकोशाङ्कुरहृदा लोलनीलोत्पलेक्षणा ।
आमोदशुभझांकारा स्वास्थिता पद्मिनीव सा ॥४९॥
सुरक्तपल्लवकरा स्तनस्तबकधारिणी ।
त्वमनेकफला मन्ये कामकल्पतरोर्लता ॥५०॥
हिमशीतावदाताङ्गी ज्योत्स्नाप्रसरहासिनी ।
पूर्णेन्दुश्रीरिवोद्युक्ता हृष्टैवाह्लादयस्यलम् ॥५१॥
तदुत्तिष्ठ वरारोहे वेदीं वैवाहिकीं स्वयम् ।
श्रीवसिष्ठ उवाच ।
तत्र पुष्पलताजालैः काण्डं प्रति शिलाङ्कितैः ॥५२॥
मुक्ताकुसुमजालानां प्रकरैः स्तबकोपमैः ।
चतुर्दिक्कं चतुर्भिश्च नालिकेरमहाफलैः ॥५३॥
पूर्णकुम्भैस्तथा गङ्गावारिपूर्णैः प्रकल्पितैः ।
ज्वालयामासतुस्तस्या मध्ये चन्दनदारुभिः ॥५४॥
ज्वलनं ज्वालितज्वालं दक्षिणस्थं प्रदक्षिणम् ।
पूर्वाभिमुखमेवाग्नेरग्रे पल्लवविष्टरे ॥५५॥
नियोज्य दंपती कान्तौ तयोर्विविशतुः स्वयम् ।
स हुत्वा तिललाजानि पावकाय शिखिध्वजः ॥५६॥
उत्थायोत्थाय कान्तां स पाणिभ्यां स्वयमाददे ।
अन्योन्यं शोभमानौ तौ भवाविव वने शिवौ ॥५७॥
चक्रतुर्दंपती तस्य पावकस्य प्रदक्षिणम् ।
स्वदायं ज्ञानसर्वस्वं हृदयं प्रेम चापलम् ॥५८॥
ददतुस्तौ मिथोऽन्योन्यस्मितकान्तमुखश्रियौ ।
प्रदक्षिणत्रयं कृत्वा लाजांस्त्यक्त्वाथ वह्नये ॥५९॥
भार्यावरौ समं तुष्टौ करौ तत्यजतुः क्रमात् ।
स्मयमानमुखौ कान्तौ चन्द्राविव नवोदितौ ॥६०॥
पूर्वोपरचिते पुष्पतल्पे विविशतुर्नवे ।
एतस्मिन्नन्तरे चन्द्रश्चतुर्भागं नभस्तलात् ॥६१॥
शनैराक्रमयामास शोभां द्रष्टुमिवानयोः ।
तस्मिंश्च ललनाछिद्रं द्रष्टुं दृष्टिरिवाभितः ॥६२॥
लोलः संचरयामास करानिन्दुर्लतागृहे ।
तैस्तैर्नवकथालापैरिन्दावभ्युदिते त्वथ ॥६३॥
तावासांचक्रतुः कान्तौ दंपती सुमुहूर्तकम् ।
अथोत्थाय ज्वलद्रत्नदीपां काञ्चनकन्दराम् ॥६४॥
स्वयं पूर्वोपरचितां गुप्तां विविशतुः प्रियौ ।
ददर्शतुर्नवं तत्र तल्पं कुसुमकल्पितम् ॥६५॥
परितो व्याप्तमुत्कीर्णैर्हेमपङ्कजराशिभिः ।
मन्दारादिभिरन्यैश्च पुष्पैर्ग्लानिविवर्जितैः ॥६६॥
उच्चकैः सुप्रमाणेन निर्मितैः कुसुमैः समैः ।
दीर्घेन्दुबिम्बप्रतिमैस्तुषारस्थलशीतलैः ॥६७॥
क्षीरोदजलधाराभं ज्योत्स्नासंपिण्डसुन्दरम् ।
प्रतिबिम्बमनङ्गस्य नतं भित्ताविव स्थितम् ॥६८॥
सुगन्धमुन्नतं कान्तं चिरादन्यतयोत्थितम् ।
मिथुनं पुष्पराशौ तन्न्यषीदत्परितोऽमले ।
तस्मिन्समसमाभोगे क्षीरोदे मन्दरो यथा ॥६९॥
तैस्तैर्मिथः प्रणयपेशलवाग्विलासै-
स्तत्कालकार्यसुभगैः प्रणयोपचारैः ।
सत्कान्तयोर्नवनवेन तयोः सुखेन
दीर्घा मुहूर्त इव सा रजनी जगाम ॥७०॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० चू० लीलाविवाहो नाम षडुत्तरशततमः सर्गः ॥१०६॥
N/A
References : N/A
Last Updated : September 25, 2021
TOP