संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ३१ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ३१ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३१ Translation - भाषांतर ईश्वर उवाच ।चिनोत्यलीकमेवैवं सदुःखास्मीति भावनात् ।चित्स्वप्नक्षीबतामोहपतिता संभ्रमे यथा ॥१॥अमृतापि मृतास्मीति विपर्यस्तमतिर्वधूः ।यथा रोदित्यनष्टैव नष्टास्मीति तथैव चित् ॥२॥अकारणं विपर्यस्ता मतिर्भ्रान्तमपि स्थिरम् ।यथा जगत्पश्यतीदं तथाहंताभ्रमाच्चितिः ॥३॥चित्तं हि कारणं त्वस्याः संसारानुभवे चितेः ।न च तत्कारणं किंचिच्चित्त्वान्यत्वात्यसंभवात् ॥४॥एवं हि कारणाभावाच्चेत्यस्यासंभवादिति ।नासौ चित्तं ततश्चेत्यं यत्नतश्चेत्यते यया ॥५॥न दृश्यदर्शनद्रष्ट्ररूपं तैलमिवोपले ।न कर्तृकर्मकरणं दृशीन्दाविव कृष्णता ॥६॥न मातृमेयमानानि नभसीव नवाङ्कुरः ।न चिच्चेतनचेत्यादि नन्दने खदिरो यथा ॥७॥नाहंत्वत्वंत्वतत्त्वादि पर्वतत्वमिवाम्बरे ।सदेहत्वान्यदेहत्वे शङ्खत्वमिव कज्जले ॥८॥नानाऽनाना न चाप्यन्तरणाविव सुमेरवः ।न च शब्दार्थशब्दश्रीर्महोषरलता यथा ॥९॥नेति नेति न चैवार्कमण्डले रजनी यथा ।न वस्तुतावस्तुते च तुषारे तु यथोष्णता ॥१०॥न शून्यताशून्यते वा शिलाकोश इव द्रुमः ।शून्यताशून्यता नाम महती ख इवाखता ॥११॥केवल केवलीभावस्वच्छतैवावशिष्यते ।न चित्तात्कस्यचिद्दोषाज्जातयैतदवाप्यते ॥१२॥तत्सर्वभावनामात्रेणानर्थः प्रकृतः स्थितः ।तज्ज्ञेऽप्यभावनामात्रेणानर्थ उपशाम्यति ॥१३॥तज्ज्ञेऽप्यभावनामात्रादृतेऽन्यत्रोपयुज्यते ।न तृणं न च त्रैलोक्यमिति स्वायत्ततात्र या ॥१४॥स्वायत्त एव चैषोऽर्थो दुःसाध्यो भावनास्थितः ।यद्यन्न साध्यते पुंसा तत्कथं क्वेव लभ्यते ॥१५॥निर्विकल्पाद्वितीया चिद्यासौ सकलगा सती ।परमैका परा साच्छा दीपिका तेजसामपि ॥१६॥सैषावभासनकरी सर्वगा नित्यनिर्मला ।नित्योदिता निर्मनस्का निर्विकारा निरञ्जना ॥१७॥घटे पटे वटे कुड्ये शकटे वानरे खरे ।असुरे सागरे भूते नरे नागे च संस्थिता ॥१८॥साक्षिवत्तिष्ठति सती स्पन्दते न च कुत्रचित् ।दीपः प्रकाशनायेव करोति न पुनः क्रियाम् ॥१९॥मलिनाप्यमुनैषा साऽविकल्पाढ्या विकल्पिनी ।जडेवाप्यजडाभासा न सर्वा सर्वगैव च ॥२०॥निर्विकल्पा परा सूक्ष्मा चिच्चिनोति स्वसंविदम् ।वातावाताङ्गमर्मादि यथा यन्त्रादिवेष्टने ॥२१॥रूपालोकमनस्कारवलिता चिदबोधतः ।बोधतश्चैव भवति निद्रां सदसती यतः ॥२२॥सा परैव चिदत्यच्छा चिन्तामायाति चेतनात् ।साधुरेव यथाऽसाधुर्भाविते दुर्जनैषणाः ॥२३॥मलेन स्वर्णमायाति ताम्रतां मलमार्जनात् ।पुनः कनकतामेति यथा चित्परमा तथा ॥२४॥स्वारोपशान्त्या स्वादर्शो यथैति प्रतिमास्थितिम् ।तथा सर्गमिवागम्य बोधात्स्वं याति तत्पदम् ॥२५॥अभाववेदनादस्याः संसारः संप्रवर्तते ।स्वभाववेदनादेष त्वसदेवोपशाम्यति ॥२६॥यदा चित्त्वाच्चिनोत्यन्तरन्यतामसतीं तदा ।अहंतामिव संप्राप्य नश्यतीवाप्यनाशिनी ॥२७॥ईषत्स्पन्दादधो याति भृगुप्रान्तात्तरोः फलम् ।यथा तथैष संवित्तेरधःपातो महानिव ॥२८॥रूपादीनां तु सत्तैषा चित एवामलैव चित् ।द्वित्वैकत्वे त्वबोधोत्थे बोधेन विलयं गते ॥२९॥सत्तामात्रेण चित्तस्य बोधश्चित्तेन्द्रियादिषु ।आलोकसत्तामात्रेण व्यवहारः क्रियास्विव ॥३०॥वातात्कनीनिकास्पन्दस्तद्दीप्तिर्दृष्टिरुच्यते ।तद्बाह्यवति तद्रूपरूपबोधस्तु चित्परा ॥३१॥त्वङ्मारुतौ जडौ तुच्छौ तत्सङ्गः स्पर्श उच्यते ।मननं स्पर्शसंवित्तिस्तत्संवित्तिस्तु चित्परा ॥३२॥गन्धतन्मात्रपवनसंबन्धो गन्धसंविदः ।आसां तु मनसा हीनं वेदनं परमैव चित् ॥३३॥शब्दतन्मात्रश्रवणवातसङ्गान्मनो विना ।सुषुप्तसदृशी संवित्परमा चिदुदाहृता ॥३४॥क्रियोन्मुखत्वं संकल्पात्संकल्पो मननक्रमः ।मननं चित्तकालुष्यमात्मा चिन्निर्मला भवेत् ॥३५॥चित्प्रकाशात्मिका नित्या स्वात्मन्येवावसंस्थिता ।इदमन्तर्जगद्धत्ते सन्निवेशं यथा शिला ॥३६॥अद्वितीया दधानेदं विकारादिविवर्जितम् ।नास्तमेति न चोदेति स्पन्दते नो न वर्धते ॥३७॥संकल्पाज्जीवतामेत्य निःसंकल्पात्मनात्मना ।चिज्जडं नो जडं भावं भावयन्ती स्वसंस्थिता ॥३८॥रथस्त्वस्याश्चितेर्जीवो जीवस्याहंकृती रथः ।अहंकृते रथो बुद्धिस्ततो बुद्धेर्मनो रथः ॥३९॥मनसस्तु रथः प्राणः प्राणस्याक्षगणो रथः ।अक्षौघस्य रथो देहो देहस्य स्यन्दनो रथः ॥४०॥स्पन्दनं कर्म संसारे जरामरणपञ्जरम् ।एवं प्रवर्तितं चक्रमिदमादिविभूतिजम् ॥४१॥प्रतिभासत एवात्मन्यसत्स्वप्न इवाततः ।मनागपि न सत्यात्म मृगतृष्णाम्बुवत्स्थितम् ॥४२॥रथस्त्वत्र स्मृतः प्राणः कल्पनाया मुनीश्वर ।यत्र प्राणमरुत्तत्र मननं परितिष्ठति ॥४३॥आलोकश्रीः स्थिता यत्र रूपं तत्रैव राजते ।प्राणो बली स्थितो यत्र तदेव परिवेपति ॥४४॥यत्प्रयाति वनं वात्या तदेव परिघूर्णते ।मनस्याकाशसंलीने न प्राणः परिवेपति ॥४५॥तेजस्यसत्तामायाते न रूपमिव राजते ।प्राणे प्रशान्ते मरुति मनोन्तर्न मनागपि ॥४६॥वात्यायामुपशान्तायां रजो न परिकम्पते ।यत्र प्राणो मरुद्याति मनस्तत्रैव तिष्ठति ॥४७॥यत्र यत्रानुसरति रथस्तत्रैव सारथिः ।प्राणसंप्रेरितं चित्तं याति देशान्तरे क्षणात् ॥४८॥क्षेपणोन्मुक्तपाषाण इव तत्रान्यथा क्षयि ।यत्र पुष्पं तत्र गन्धो यत्राग्निस्तत्र सोष्णता ॥४९॥यत्र प्राणो मरुद्याति यत्रेन्दुस्तत्र तच्छविः ।संवित्तिः पवनस्पन्दान्नाडीसंस्पर्शनश्च सः ॥५०॥संवित्तिस्फारता चित्तं मनस्तत्प्राणकोटरे ।सर्वत्र विद्यते संविद्व्योमस्वच्छा जडाजडे ॥५१॥क्षुभ्यन्तीव तु सा प्राणस्पन्दादित्यनुभूयते ।सत्तामात्रस्वरूपेण जडेषु समवस्थिता ॥५२॥प्राणसंबोधिता वेत्ति वेदनात्मतया जडे ।नानास्फारसमुल्लासैर्यः पूर्वं परिवल्गति ।प्राणेऽतीते त्वमननः स एवाशु न वेपति ॥५३॥पुर्यष्टके चित्परमा स्वे मुने प्रतिबिम्बति ।आदर्श एव प्रतिमा दृश्यते नोपलादिषु ॥५४॥मनः पुर्यष्टकं विद्धि सर्वकार्यैककारणम् ।तदैव भेदैः कथितमन्यैः स्वाशयकल्पितैः ॥५५॥यस्मादुदेति कलनाकुलदृश्यजालंयत्तत्र च स्थितवदित्यनुभूतमुच्चैः ।यस्मान्मनो विपरिवर्तति देहदृष्ट्यासर्वं तु तत्परमवस्त्विति विद्धि विश्वम् ॥५६॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० मनःप्राणैक्यप्रतिपादनं नामैकत्रिंशः सर्गः ॥३१॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP