संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः १०३ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः १०३ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १०३ Translation - भाषांतर श्रीवसिष्ठ उवाच ।निर्विकल्पसमाधानात्काष्ठकुड्योपमस्थितिः ।एवं शिखिध्वजो राजा चूडालामधुना श्रृणु ॥१॥शिखिध्वजं तं भर्तारं कुम्भवेषेण तेन सा ।प्रबोध्यान्तर्धिमागत्य ततार तरसा नभः ॥२॥देवपुत्राकृतिं व्योम्नि जहौ मायाविनिर्मिताम् ।विदग्धमुग्धमाकारं स्त्रैणं जग्राह सुन्दरम् ॥३॥नभसा स्वपुरं प्राप विवेशान्तःपुरं क्षणात् ।दृश्या बभूव लोकस्य नृपकर्म चकार च ॥४॥वासरत्रितयेनाथ पुनरम्बरमेत्य सा ।बभूव कुम्भो योगेन शिखिध्वजवनं ययौ ॥५॥तथा तत्रैव तं भूपमपश्यद्वनभूमिगा ।निर्विकल्पसमाधिस्थं समुत्कीर्णमिव द्रुमम् ॥६॥अहो नु खलु भो दिष्ट्या विश्रान्तोऽयमिहात्मनि ।स्थितः स्वस्थः समः शान्त इत्युवाच पुनःपुनः ॥७॥तदेनं तावदेतस्माद्बोधयामि परात्पदात् ।इदानीमेव किं देहत्यागमेष करोति वै ॥८॥किंचित्कालं स्फुरत्वेष राज्येन विपिनेन वा ।सममेव गमिष्यावस्त्यक्तदेहाविमौ समौ ॥९॥तस्योपदेशो विषमः परिणामं न गच्छति ।अनेनाभ्यासयोगेन तावदाबोधयाम्यहम् ॥१०॥इति संचिन्त्य चूडाला सिंहनादं चकार सा ।भूयोभूयः प्रभोरग्रे वनेचरभयप्रदम् ॥११॥न चचाल शिलेवाद्रौ यदा नादेन तेन सः ।भूयोभूयः कृतेनापि तदा सा तं व्यचालयत् ॥१२॥चालितः पातितोऽप्येष यदा न बुबुधे नृपः ।तदा संचिन्तयामास चूडाला कुम्भरूपिणी ॥१३॥अहो परिणतः साधुः स्वपदे भगवानयम् ।तदेनं हि कया युक्त्या सांप्रतं बोधयाम्यहम् ॥१४॥अथवैनं महात्मानं किमर्थं बोधयाम्यहम् ।विदेहं बोधमासाद्य तिष्ठत्वेष यथासुखम् ॥१५॥अहमप्यंगनादेहमिमं त्यक्त्वा परं पदम् ।अपुनर्जननायैव गच्छामीह हि किं समम् ॥१६॥इति संचिन्त्य देहं स्वं त्यक्तुमभ्युद्यता सती ।पुनः संचिन्तयामास चूडाला सा महामतिः ॥१७॥आलोकयामि चैतावदेनं देहं महीपतेः ।यद्यस्य सत्त्वशेषोऽस्ति बोधबीजं हृदन्तरे ॥१८॥तत्कालेनैष भगवान्संप्रबोधमुपैष्यति ।मूलकोशरसालीनं पुष्पजालमिव द्रुमे ॥१९॥तदेवं विरहञ्जीवन्मुक्त एव भवत्यलम् ।मुक्तो भवत्यथ यदि मन्ये गच्छामि तत्समम् ॥२०॥इति संचिन्त्य चूडाला स्पर्शनेन नयेन च ।पतिमालोक्य साशङ्कमुवाच वरवर्णिनी ॥२१॥अस्त्येव सत्त्वशेषोऽस्य हृदि संबोधकारणम् ।संबोधहेतूदयेन सत्त्वशेषं व्यबुध्यत ॥२२॥श्रीराम उवाच ।भृशं संशान्तचित्तस्य काष्ठलोष्टसमस्थितेः ।सत्त्वशेषः कथं ब्रह्मन्ज्ञायते ध्यानशालिनः ॥२३॥श्रीवसिष्ठ उवाच ।प्रबोधकारणं यस्य दुर्लक्ष्याणुवपुर्हृदि ।विद्यते सत्त्वशेषोऽन्तर्बीजे पुष्पफलं यथा ॥२४॥चित्तस्पन्दवियुक्तस्य तस्यास्पन्दितसच्चितः ।द्वित्वैकत्वविहीनस्य समस्याचलसंस्थितेः ॥२५॥कायः समसमाभोगो न ग्लायति न हृष्यति ।नास्तमेति न चोदेति सममेवावतिष्ठते ॥२६॥द्वित्वैकत्वादियुक्तस्य यस्य प्रस्पन्दते मनः ।तस्य देहोऽन्यतामेति नास्पन्दस्य कदाचन ॥२७॥चित्तस्पन्दो हि सर्वेषां कारणं जगतः स्थितेः ।राम भावविकाराणां कुसुमानां यथा मधुः ॥२८॥अस्मिन्प्रयास्यतो देहे चेतसो हि मुहुर्मुहुः ।हर्षः कोपो न संमोहो वशमेति रघूद्वह ॥२९॥चित्ते प्रशममायाते कायो यः सत्त्ववर्जितः ।बाधते नाम्बरस्येव तस्य भावविकारभूः ॥३०॥वीच्यादि न यथोदेति समाया जलसंततेः ।तथा न दृश्यते दोषः समायाः सत्त्वसंततेः ॥३१॥सत्त्वस्यानुपलम्भोऽस्ति न तस्योपशमादृते ।यावद्भाति समं तत्त्वं कालाच्छाम्यति केवलम् ॥३२॥देहे यस्मिंस्तु नो चित्तं नापि सत्त्वं च विद्यते ।स तापे हिमवद्राम पञ्चत्वेन विलीयते ॥३३॥शिखिध्वजस्य देहोऽसौ निश्चित्तस्तेजसोर्जितः ।सत्त्वांशेन च संयुक्तस्तेन न ग्लानिभाजनम् ॥३४॥तं तथाभूतमालोक्य भर्तुर्देहं वराङ्गना ।अनुज्झितवती देहं चिन्तयामास सत्वरम् ॥३५॥चित्तत्त्वं सर्वगं शुद्धं प्रविश्याबोधयाम्यहम् ।भविष्यद्बोधनं कान्तमथ तत्र हि संस्थिता ॥३६॥न बोधयामि यद्येनं चिरात्तद्बुध्यते स्वयम् ।किमेकैवावतिष्ठेऽहमित्येवं बोधयाम्यहम् ॥३७॥इति संचिन्त्य चूडाला देहं करणपञ्जरम् ।संत्यज्य प्राप चित्तत्त्वे स्थितिमाद्यन्तवर्जिते ॥३८॥तत्र सा चेतनास्पन्दं कृत्वा सत्त्ववतः प्रभोः ।स्वं विवेश पुनर्देहं स्वं नीडमिव पक्षिणी ॥३९॥कुम्भाकृतिरथोत्थाय निविष्टा कुसुमस्थले ।साम गातुं प्रवृत्ता सा भ्रमरीवृन्दनिःस्वना ॥४०॥तं सामस्वनमाकर्ण्य चित्सत्त्वगुणशालिनी ।बुबुधे भूपतेर्देहे वसन्त इव पद्मिनी ॥४१॥दृशं विकासयामास तां तदार्क इवाब्जिनीम् ।गृहीतसत्त्वसंपत्तिः शिखिध्वजमहीपतिः ॥४२॥अपश्यत्कुम्भमग्रस्थं सामगायनतत्परम् ।परेण वपुषा युक्तं सामवेदमिवापरम् ॥४३॥अहो बत वयं धन्याः पुनः प्राप्तो मुनिः स्वतः ।इत्येवोदाहरव्राजा कुम्भाय कुसुमं ददौ ॥४४॥दिष्ट्योदिताः स्मो भगवंस्तव चेतसि पावने ।के नाम वा महासत्त्वाः प्रसादेष्वङ्ग नो स्थिताः ॥४५॥अस्मत्पवित्रीकरणमेवागमनकारणम् ।न चेत्किं चागमे ब्रूहि द्वितीयं कारणं भवेत् ॥४६॥कुम्भ उवाच ।यतः प्रभृति यातोऽस्मि त्वत्सकाशादनिन्दितः ।ततः प्रभृति चेतो मे त्वयैवेह समं स्थितम् ॥४७॥रम्ये स्वर्गे न तिष्ठामि समीपे तव सांप्रतम् ।अभीष्टमुद्यदेवाङ्ग रम्याणां तत्पुरः स्थितम् ॥४८॥त्वादृशो बन्धुराप्तश्च सुहृन्मित्रं तथा सखा ।विश्वास्यो वापि शिष्यश्च मन्ये जगति नास्ति मे ॥४९॥शिखिध्वज उवाच ।अहो नु फलितं पुण्यपादपैर्नः कुलाचले ।यस्माद्भवानसङ्गोऽपि वाञ्छत्यस्मत्समागमम् ॥५०॥इदं वनमिमे वृक्षा भृत्योऽयमहमादृतः ।रोचते ते न चेतस्वर्गस्तदिह स्थीयतां प्रभो ॥५१॥भवद्वितीर्णया योगयुक्त्या विश्रान्तवानहम् ।यथा साधो तथा मन्ये स्वर्गे विश्रमणं कुतः ॥५२॥तामेव संस्थितिं स्वच्छामवलम्ब्य प्रकाशिनीम् ।विहरेह यथाकामं स्वर्गे भूमितले तथा ॥५३॥कुम्भ उवाच ।परे पदे महानन्दे कच्चिद्विश्रान्तवानसि ।इदं भेदमयं दुःखं कच्चित्संत्यक्तवानसि ॥५४॥कच्चिदापातरम्येभ्यः संकल्पेभ्यो रतिर्भृशम् ।निर्मूलतां गता राजन्भोगनीरसमेव ते ॥५५॥हेयादेयदशातीतं शान्तं शमसमस्थिति ।यथाप्राप्तेष्वनुद्वेगं कच्चित्तव मनःस्थितम् ॥५६॥शिखिध्वज उवाच ।त्वत्प्रसादेन भगवन्दृष्टा दृश्यातिगा गतिः ।प्राप्तः संसारसीमान्तो लब्धो लब्धव्यनिश्चयः ॥५७॥चिरादतिचिरेणैव विश्रान्तोऽस्मि निरामयः ।लब्धं लव्धव्यमखिलं तृप्तः संश्चिरसंस्थितः ॥५८॥नोपदेष्टव्यमस्माकं किंचिदप्युपयुज्यते ।सर्वत्रैवातितृप्तोऽस्मि संस्थितोऽस्मि गतज्वरः ॥५९॥ज्ञातमज्ञातमप्राप्तं त्यक्तं त्यक्तव्यमाश्रितम् ।तत्त्वं परत्वं सत्त्वं मे स्वस्यैवास्ति न किंचन ॥६०॥निःसंसृतिर्विगतमोहभयो विरागोनित्योदितः समसमाशयसर्वसौम्यः ।सर्वात्मकः सकलसंकलनावियुक्तआकाशकोशविशदः सममास्थितोऽस्मि ॥६१॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० चू० कुम्भपुनरागमनं नाम त्र्यधिकशततमः सर्गः ॥१०३॥ N/A References : N/A Last Updated : September 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP