संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ९४ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ९४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ९४ Translation - भाषांतर श्रीवसिष्ठ उवाच ।एवं वदति वै कुम्भे चित्तत्यागं मुहुर्मुहुः ।अन्तर्विचारयन्सौम्यो राजा वचनमब्रवीत् ॥१॥शिखिध्वज उवाच ।हृदयाकाशविहगो हृदयद्रुममर्कटः ।भूयोभूयो निरस्तं हि समभ्येत्येव मे मनः ॥२॥जानामि चैतदादातुं मत्स्यं जाल इवाकुलम् ।त्यागमस्य न जानामि चित्तं द्रव्य इवोत्तम ॥३॥चित्तस्यादौ स्वरूपं मे यथावद्भगवन्वद ।ततश्चित्तपरित्यागं यथावद्वद मे प्रभो ॥४॥कुम्भ उवाच ।वासनैव महाराज स्वरूपं विद्धि चेतसः ।चित्तशब्दस्तु पर्यायो वासनाया उदाहृतः ॥५॥त्यागस्तस्यातिसुकरः सुसाध्यः स्पन्दनादपि ।राज्यादप्यधिकानन्दः कुसुमादपि सुन्दरः ॥६॥मूर्खस्य तु मनस्त्यागो नूनं दुःसाध्यतां गतः ।पामरस्येव साम्राज्यं तृणस्येव सुमेरुता ॥७॥शिखिध्वज उवाच ।स्वरूपं वेद्मि चित्तस्य वासनामयमाकुलम् ।त्यागः स मन्ये दुःसाध्यो वज्रनिर्गिलनादपि ॥८॥संसृत्यामोदपुष्पस्य दुःखदाहानलस्य च ।जगदब्जमृणालस्य मोहमारुतखस्य च ॥९॥शरीरयन्त्रवाहस्य दृत्पद्मभ्रमरस्य च ।अयत्नाच्चेतसस्त्यागो यथा भवति तद्वद ॥१०॥कुम्भ उवाच ।सर्वनाशोऽस्य यः साधो चेतसः संसृतिक्षयः ।स एव चित्तसंत्याग इत्युक्तं दीर्घदर्शिभिः ॥११॥शिखिध्वज उवाच ।चित्तत्यागादहं मन्ये चित्तनाशः सुसिद्धये ।अभावः शतशो व्याधेः कथमस्यानुभूयते ॥१२॥कुम्भ उवाच ।अहंबीजश्चित्तद्रुमः सशाखाफलपल्लवः ।उन्मूलय समूलं तमाकाशहृदयो भव ॥१३॥शिखिध्वज उवाच ।चेतसः किं मुने मूलं कोऽकुंरः कोऽस्य संभवः ।काःशास्त्राःकेच वा स्कन्धाः कथमुन्मूल्यते च सः ॥१४॥कुम्भ उवाच ।अहमर्थोदयो योऽयं स चित्तावेदनात्मकः ।एतच्चित्तद्रुमस्यास्य विद्धि बीजं महामते ॥१५॥परमात्मपदं क्षेत्रं क्षेत्रं मायामयस्य तत् ।एतस्मात्प्रथमोद्भिन्नादंकुरोऽनुभवाकृतिः ॥१६॥निश्चयात्मा निराकारो बुद्धिरित्येव सोच्यते ।अस्य बुद्ध्यभिधानस्य याङ्कुरस्य प्रपीनता ॥१७॥संकल्परूपिणी तस्याश्चित्तनाममनोभिधा ।जीवो मिथ्योपलम्भात्मा शून्यात्मा ह्युपलोपमः ॥१८॥स्तम्भः कायोऽयमेतस्य स्नाय्वस्थिरसरञ्जितः ।देशान्तरेऽङ्कुरोद्देशे कालस्पन्दोऽस्य वासना ॥१९॥शाखायाश्चित्तवृक्षस्य दीर्घा दूरगतास्तताः ।इन्द्रियाण्यल्पभोगाश्च भावाभावात्मयोनयः ॥२०॥विटपौघा महान्तोऽस्य शुभाशुभफलाकुलाः ।ईदृशस्यास्य चित्तस्य दुर्वृक्षस्य प्रतिक्षणम् ॥२१॥शास्त्राविलवनं कुर्वन्मूलकाषे भरं कुरु ।शिखिध्वज उवाच ।चित्तद्रुमस्य शाखादेः कुर्वाणोऽहं विकर्तनम् ॥२२॥कथं करोमि मूलस्य निःशेषकषणं मुने ।कुम्भ उवाच ।वासना विविधाः शाखाः फलस्पन्दादिनान्विताः ॥२३॥अभाविता भवन्त्यन्तर्लूनाः संविद्वलेन ते ।असंसक्तमना मौनी शान्तवादविचारणः ॥२४॥संप्राप्तकारी यः सोऽन्तर्लूनश्चित्तलतो भवेत् ।चित्तद्रुमलताजालं पौरुषेण विकर्तयन् ॥२५॥यस्तिष्ठति स मूलस्य योग्यो निकषणे भवेत् ।गौणं शाखाविलवनं मुख्यं मूलविकर्तनम् ॥२६॥चित्तवृक्षस्य तेन त्वं मूलकाषपरो भव ।मुख्यत्वेन महाबुद्धे मूलदाहमलं कुरु ॥२७॥चित्तकण्टकखण्डस्य भवत्येवमचित्तता ।शिखिध्वज उवाच ।अहंभावात्मनश्चित्तद्रुमबीजस्य हे मुने ।कोऽनलो दहनाख्येऽस्मिन्कर्मण्यर्थकरो भवेत् ॥२८॥कुम्भ उवाच ।राजन्स्वात्मविचारोऽयं कोऽहं स्यामिति रूपधृक् ।चित्तदुर्द्रुमबीजस्य दहने दहनः स्मृतः ॥२९॥शिखिध्वज उवाच ।मुने मया स्वया बुद्ध्या बहुशः प्रविचारितम् ।यावन्नाहं जगन्नोर्वीवनमण्डलमण्डितम् ॥३०॥नाद्रेस्तटं न विपिनं न पर्णस्पन्दनादि च ।जडत्वान्न च देहादि न मांसास्थ्यसृगादि च ॥३१॥कर्मेन्द्रियाण्यपि न च न च बुद्धीन्द्रियाणि च ।न मनो नापि च मतिर्नाहंकारश्च जाड्यतः ॥३२॥कटकत्वं यथा हेम्नि तथाहंत्वं चिदात्मनि ।जडं त्वसद्रूपतया तेन तन्नास्ति हे मुने ॥३३॥संनिवेशनिवासात्मा सर्वार्थादिः परे पदे ।विद्यते नान्यदन्यत्वान्नभसीव महाद्रुमः ॥३४॥जानन्नपीति भगवन्नहंत्वमलमार्जनम् ।अन्तर्यज्ज्ञं न जानामि तेन तप्ये चिरं मुने ॥३५॥कुम्भ उवाच ।एतावन्मात्रकं वृन्दं यदि न त्वं महीपते ।जडत्वात्तन्महाबुद्धे योऽसि तद्वद मेऽनघ ॥३६॥शिखिध्वज उवाच ।चिन्मात्रमहमच्छात्मवेदनं विदुषां वर ।यत्र भावाः स्वदन्ते ते निर्णीयन्ते च येन वा ॥३७॥एवंरूपस्य मे लग्नं नूनं मलमकारणम् ।सकारणं वाहमिति यत्पदं च न वेद्म्यहम् ॥३८॥असदेतदनात्मीयं प्रमार्ष्टुं मलमात्मनः ।मुने यदा न शक्नोमि तेन तप्ये सुदारुणम् ॥३९॥कुम्भ उवाच ।ब्रूहि किं तन्महाबाहो लग्नं तव मलं महत् ।स्थितोऽसि येन संसारी सता वाप्यथवाऽसता ॥४०॥शिखिध्वज उवाच ।चित्तद्रुमस्य यद्बीजमहंभावश्च मे मलम् ।तच्च त्यक्तुं न जानामि त्यक्तं त्यक्तमुपैति माम् ॥४१॥कुम्भ उवाच ।कारणाज्जायते कार्यं यत्तत्सर्वत्र संभवेत् ।अन्यत्त्वसद्द्विचन्द्राभं दृष्टमेतन्न विद्यते ॥४२॥कारणाज्जायते कार्यमहंभावाद्भवाङ्कुरः ।इति कारणमन्विष्य कथयस्व ममाधुना ॥४३॥शिखिध्वज उवाच ।मुनेऽहमिति दोषस्य वेदनं वेद्मि कारणम् ।तद्यथोपशमं याति तन्मे वद मुनीश्वर ॥४४॥चितश्चेत्योन्मुखत्वेन दुःखायायमहंस्थितः ।चेत्योपशमनं ब्रूहि मुने तदुपशान्तये ॥४५॥कुम्भ उवाच ।कारणं कारणज्ञोऽसि वेदनस्य वदाशु मे ।ततस्त्वां बोधयिष्यामि कारणाकारणक्रमम् ॥४६॥वेद्यवेदनरूपस्य चेत्यसंचेतनस्य मे ।अकारणं कारणतां यद्यातं तव तद्वद ॥४७॥शिखिध्वज उवाच ।चेत्यचेतनरूपस्य वेद्यसंवेदनाकृतेः ।इयं पदार्थसत्तेह देहादि कारणं मुने ॥४८॥शरीरादितयोदेति वेदनं वस्तुसत्तया ।असत्याभासया स्पन्दो यथा पवनलेखया ॥४९॥असत्ता वस्तुसत्ताया नावगच्छाम्यहं यथा ।अहंत्ववेदनं चित्तबीजं समुपशाम्यति ॥५०॥कुम्भ उवाच ।विद्यते यदि देहादिवस्तुसत्ता तदस्ति ते ।अभावाद्देहसत्तादेः किंनिष्ठं तव वेदनम् ॥५१॥शिखिध्वज उवाच ।यस्योपलभ्यते किंचित्स्वरूपं कलनात्मकम् ।असद्रूपं कथं तत्स्यात्प्रकाशः स्यात्कथं तमः ॥५२॥हस्तपादादिसंयुक्तः क्रियाफलविलासवान् ।सदानुभूयमानोऽयं देहो नास्ति कथं मुने ॥५३॥कुम्भ उवाच ।कारणं यस्य कार्यस्य भूमिपाल न विद्यते ।विद्यते नेह तत्कार्यं तत्संवित्तिस्तु विभ्रमः ॥५४॥कारणेन विना कार्यं शरीरं न कदाचन ।विद्यते यस्य नो बीजं तद्द्रव्यं क्वेव जायते ॥५५॥अकारणं तु यत्कार्यं सदिवाग्रेऽनुभूयते ।तद्द्रष्टुर्विभ्रमाद्विद्धि मृगतृष्णाजलोपमम् ॥५६॥अविद्यमानमेव त्वं विद्धि मिथ्याभ्रमोदितम् ।नातियत्नवतोऽप्येतन्मृगतृष्णाम्बु लभ्यते ॥५७॥शिखिध्वज उवाच ।असतो द्वीन्दुबिम्बादेर्न युक्तं कारणेक्षणम् ।वन्ध्यातनयसर्वाङ्गमण्डनं कस्य राजते ॥५८॥कुम्भ उवाच ।कारणेन विना कार्यं शरीराद्यस्थिपञ्जरम् ।अविद्यमानमेवेदं विद्ध्यसंभवतो नृप ॥५९॥शिखिध्वज उवाच ।हस्तपादादियुक्तस्य शरीरस्य मुनीश्वर ।नित्यमालक्ष्यमाणस्य पिता कस्मान्न कारणम् ॥६०॥कुम्भ उवाच ।कारणाभावतो राजन्पिता नाम न विद्यते ।असतो यत्तु संजातमसदेव तदुच्यते ॥६१॥पदार्थानां च कार्याणां कारणं बीजमुच्यते ।संभवत्यङ्ग जगति न बीजेन विनाङ्कुरः ॥६२॥तस्मान्न कारणं यस्य कार्यस्येहोपपद्यते ।बीजाभावे हि तन्नास्ति तत्संवित्तिस्तु विभ्रमः ॥६३॥अवश्यं खलु यन्नास्ति निर्बीजं तन्मतिभ्रमः ।द्वीन्दुत्वमरुभूम्यम्बुवन्ध्यापुत्रदशासमम् ॥६४॥शिखिध्वज उवाच ।पितामहानां पुत्राणां पितृणां च जगत्त्रये ।आद्यः पितामहः कस्मात्पूर्वोत्पत्तौ न कारणम् ॥६५॥कुम्भ उवाच ।आद्यः पितामहो यः स्यात्सोऽपि नास्त्येव भूपते ।कारणाभावतो नित्यं यदा भावो न कस्यचित् ॥६६॥कारणस्य स्वबीजस्य नित्याभावात्पितामहः ।अन्यः स दृश्यमानोपि भ्रमादन्यो न विद्यते ॥६७॥मृगतृष्णाम्बुवद्भ्रान्तिरूप एवावभासते ।पितामहार्थकारित्वमपि तस्य भ्रमात्मकम् ॥६८॥पितामहोदरे तस्य मिथ्याप्रत्ययतः स्थितिः ।घना तव निवृत्तैव मार्जयिष्याम्यथेतरत् ॥६९॥तस्माच्चिदात्मकतयात्मनि चित्ततोऽयंनित्यं स्वयं कचति भूमिप देवदेवः ।तेनैव पद्मज इति स्वयमात्मनात्माप्रोक्तः स्वरूप इति शान्तमिदं समस्तम् ॥७०॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० शिखिध्वजावबोधनं नाम चतुर्नवतितमः सर्गः ॥९४॥ N/A References : N/A Last Updated : September 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP