संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ४४ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ४४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४४ Translation - भाषांतर श्रीवसिष्ठ उवाच ।केवलेनेन्द्रियैः सार्धं वर्तमानार्थवर्तिना ।असंगमेन मनसा यत्करोषि न तत्कृतम् ॥१॥यथा प्राप्तिक्षणे वस्तु प्रथमे तुष्टये तथा ।न प्राप्त्येकक्षणादूर्ध्वमिति को नानुभूतवान् ॥२॥वाञ्छाकाले यथा वस्तु तुष्टये नान्यदा तथा ।तस्मात्क्षणसुखे सक्तिं बालो बध्नाति नेतरः ॥३॥वाञ्छाकाले तुष्टये यत्तत्र वाञ्छैव कारणम् ।तुष्टिस्त्वतुष्टिपर्यन्ता तस्माद्वाञ्छां परित्यज ॥४॥यदि तत्पदमाप्तोऽसि कदाचित्कालपर्ययात् ।तदहंभावनारूपे न मङ्क्तव्यं त्वया पुनः ॥५॥आत्मज्ञानाचलस्याग्रे राम विश्रान्तवानसि ।अहंभावमहाश्वभ्रे न पुनः पातमर्हसि ॥६॥यत्स्मृतानन्तसद्दृष्टेर्ज्ञत्वमेरुशिरःस्थितेः ।पुनर्गर्भानुकारान्तःपाताले पतनं कुतः ॥७॥दृश्यते ते स्वभावोऽयं समतासत्यतामयः ।मन्ये क्षीणविकल्पोऽसि जातोऽसि हतकालिकः ॥८॥स्वभावे संस्थितो राम इत्यावेदयतीव मे ।सौम्य पूर्णार्णवप्रख्या समता निर्मला तव ॥९॥आशा यातु निराशत्वमभावं यातु भावनम् ।अमनस्त्वं मनो यातु तवासङ्गेन जीवतः ॥१०॥यां यां वस्तुदृशं यासि तस्यां तस्यामवस्थितम् ।सत्तासामान्यरूपेण ब्रह्म बृंहितचिद्धनम् ॥११॥अज्ञातात्मा निबद्धोऽसि विज्ञातात्मा न बध्यसे ।राम त्वं स्वात्मनात्मानं बोधयस्व बलादतः ॥१२॥यत्र न स्वदते वस्तु स्वदते च यथागतम् ।अवासनत्वं तद्विद्धि साम्यमाकाशकोमलम् ॥१३॥वासनारहितैरन्तरिन्द्रियैराहर क्रियाः ।न विक्रियामवाप्नोषि खवत्क्षोभशतैरपि ॥१४॥ज्ञाता ज्ञानं तथा ज्ञेयं त्रयमेकतयात्मनि ।शान्तात्मानुभवाऽभव्यं न भूयो भवभागसि ॥१५॥चित्तोन्मेषनिमेषाभ्यां संसारप्रलयोदयौ ।वासनाप्राणसंरोधादनिमेषं मनः कुरु ॥१६॥प्राणोन्मेषनिमेषाभ्यां संसृतेः प्रलयोदयौ ।तमभ्यासप्रयोगाभ्यामुन्मेषरहितं कुरु ॥१७॥मौर्ख्योन्मेषनिमेषाभ्यां कर्मणां प्रलयोदयौ ।तद्विलीनं कुरु बलाद्गुरुशास्त्रार्थसंयमैः ॥१८॥यथा वातरजःसङ्गस्पन्दात्खं भाववेदनम् ।तथा चितश्चेत्यतया स्पन्दादिदमुपस्थितम् ॥१९॥दृश्यदर्शनसंबन्धस्पन्देनेयं जगद्गतिः ।स्फुरत्यालोककुड्यादिसंगजा वर्णधीरिव ॥२०॥दृश्यदर्शनसंबन्धस्पन्दाभावे न जायते ।वेदना भवदाभासा चित्रपुंसामिवाशये ॥२१॥चित्तस्पन्दोत्थिता माया तदभावे विलीयते ।पयःस्पन्दोत्थिता वीचिस्तदभावे विनश्यति ॥२२॥त्यागेन वासनांशस्य बोधाद्वा प्राणरोधनात् ।चित्ते निस्पन्दतां याते कुतः स्पन्दस्य संभवः ॥२३॥असंवित्स्पन्दमात्रेण याति चित्तमचित्तताम् ।प्राणानां वा निरोधेन तदेव च परं पदम् ॥२४॥दृश्यदर्शनसंबन्धे यत्सुखं पारमार्थिकम् ।तदन्तैकान्तसंवित्त्या ब्रह्मदृष्ट्या मनःक्षयः ॥२५॥यत्र नाभ्युदितं चित्तं तत्तत्सुखमकृत्रिमम् ।न स्वर्गादौ संभवति मरौ हिमगृहं यथा ॥२६॥चित्तोपशमजं स्फारमवाच्यं वचसा सुखम् ।क्षयातिशयनिर्मुक्तं नोदेति न च शाम्यति ॥२७॥बोधाद्भवति चित्तान्तो दुर्बोधाच्चित्तवेदिता ।बालवेतालवत्तेन मोहश्रीर्घनतां गता ॥२८॥विद्यमानमपि ह्येतच्चित्तं बोधाद्विलीयते ।सदप्यसदिवाभाति ताम्रं हेमीकृतं यथा ॥२९॥ज्ञस्य चित्तं न चित्ताख्यं ज्ञचित्तं सत्त्वमुच्यते ।नामार्थान्यत्वभाक्चित्तं बोधात्ताम्रसुवर्णवत् ॥३०॥न संभवति चित्तत्वं तेन तत्प्रविलीयते ।भ्रमः शाम्यति बोधेन नाभावो विद्यते सतः ॥३१॥अवस्त्वेव विकल्पात्म चित्तादि शशश्रृङ्गवत् ।सर्वं तदात्मनस्तस्मात्तद्धि बोधाद्विलीयते ॥३२॥चित्तं सत्त्वं समायातं किंचित्कालं जगत्स्थितौ ।विहृत्य तुर्यावस्थायां तुर्यातीतं भवत्यतः ॥३३॥ब्रह्मैव भूरिभवनभ्रमविभ्रमौघै-रित्थं स्थितं सममनेकतयैकमेव ।सर्वात्म संभवति नेतरदङ्ग किंचि-च्चित्तादिकं च न हृदीव हि संनिवेशः ॥३४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पूर्वार्धे चित्तसत्तासूचनं नाम चतुश्चत्वारिंशः सर्गः ॥४४॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP