संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ८२ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ८२ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ८२ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अणुतां स्थूलतां वापि यथा गच्छति योगिनाम् ।देहो नाम तथा सम्यग्वक्ष्यमाणमिदं श्रृणु ॥१॥हृद्यब्जचक्रकोशोर्ध्वं प्रस्फुरत्यानलः कणः ।हेमभ्रमरवत्सांध्यविद्युल्लव इवाम्बुदे ॥२॥स प्रवर्धनसंवित्त्या वात्ययेवाशु वर्धते ।संविद्रूपतया नूनमर्कवद्याति चोदयम् ॥३॥संध्याभ्रप्रथमार्काभो वृद्धिमभ्यागतः क्षणात् ।गालयत्यखिलं साङ्गं देहं हेम यथानलः ॥४॥जलस्पर्शासहो युक्त्या गलयेत्प्रपदादपि ।बाह्य एवानलः स्पर्शात्स्वान्ते वस्तुविशेषतः ॥५॥स शरीरद्वयं पश्चाद्विधूय क्वापि लीयते ।विक्षोभितेन प्राणेन नीहारो वात्यया यथा ॥६॥आधारनाडीनिर्हीना व्योमस्थैवावशिष्यते ।शक्तिः कुण्डलिनी वह्नेर्धूमलेखेव निर्गता ॥७॥क्रोडीकृतमनोबुद्धिमयजीवाद्यहंकृतिः ।अन्तःस्फुरच्चमत्कारा धूमलेखेव नागरी ॥८॥विसे शैले तृणे भित्तावुपले दिवि भूतले ।सा यथा योज्यते यत्र तेन निर्यात्यलं तथा ॥९॥संवित्तिः सैव यात्यङ्ग रसाद्यन्तं यथाक्रमम् ।रसेनापूर्णतामेति तन्त्रीभार इवाम्बुना ॥१०॥रसापूर्णा यमाकारं भावयत्याशु तत्तथा ।धत्ते चित्रकृतो बुद्धौ रेखा राम यथा कृतिम् ॥११॥दृढभाववशादन्तरस्थीन्याप्नोति सा ततः ।मातृगर्भनिषण्णेषु सुसूक्ष्मेवाङ्कुरस्थितिः ॥१२॥यथाभिमतमाकारं प्रमाणं वेत्ति राघव ।जीवशक्तिरवाप्नोति सुमेर्वादि तृणादि च ॥१३॥श्रुतं त्वया योगसाध्यमणिमाद्यर्थसाधनम् ।ज्ञानसाध्यमिदानीं त्वं श्रृणु श्रवणभूषणम् ॥१४॥एकं चिन्मात्रमस्तीह शुद्धं सौम्यमलक्षितम् ।सूक्ष्मात्सूक्ष्मतरं शान्तं न जगन्न जगत्क्रिया ॥१५॥तच्चिनोत्यात्मनात्मानं संकल्पोन्मुखतां गतम् ।यदा तदा जीव इति प्रोक्तमाविलतां गतम् ॥१६॥असत्यमेव संकल्पभ्रमेणेदं शरीरकम् ।जीवः पश्यति मूढात्मा बालो यक्षमिवोद्धतम् ॥१७॥यदा तु ज्ञानदीपेन सम्यगालोक आगतः ।संकल्पमोहो जीवस्य क्षीयते शरदभ्रवत् ॥१८॥शान्तिमायाति देहोऽयं सर्वसंकल्पसंक्षयात् ।तदा राघव निःशेषं दीपस्तैलक्षये यथा ॥१९॥निद्राव्यपगमे जन्तुर्यथा स्वप्नं न पश्यति ।जीवो हि भाविते सत्ये तथा देहं न पश्यति ॥२०॥अतत्त्वे तत्त्वभावेन जीवो देहावृतः स्थितः ।निर्देहो भवति श्रीमान् सुखी तत्त्वैकभावनात् ॥२१॥अनात्मनि शरीरादावात्मभावनमङ्ग यत् ।सूर्याद्यालोकदुर्भेदं हार्दं तद्दारुणं तमः ॥२२॥आत्मन्येवात्मभावेन सर्वव्यापि निरञ्जनम् ।चिन्मात्रममलोऽस्मीति ज्ञानादित्येन नश्यति ॥२३॥अन्ये च विदितात्मानो भावयन्ति यथैव यत् ।तत्तथैवाशु पश्यन्ति दृढभावनया तया ॥२४॥दृढभावानुसंधानाद्विमूढा अपि राघव ।विषं नयन्त्यमृतताममृतं विषतामपि ॥२५॥एवं यथा यदेवेह भाव्यते दृढभावनात् ।भूयते हि तदेवाशु तदित्यालोकितं मुहुः ॥२६॥सत्यभावनदृष्टोऽयं देहो देहो भवत्यलम् ।दृष्टस्त्वसत्यभावेन व्योमतां याति देहकः ॥२७॥अणिमादिपदप्राप्तौ ज्ञानयुक्तिरिति श्रुता ।भवता साधुना राम युक्तिमन्यामिमां श्रृणु ॥२८॥रेचकाभ्यासयोगेन जीवः कुण्डलिनीगृहात् ।उद्धृत्य योज्यते यावदामोदः पवनादिव ॥२९॥त्यज्यते विरतस्पन्दो देहोऽयं काष्ठलोष्टवत् ।देहेऽपि जीवेऽपि मतावासेचक इवादरः ॥३०॥स्थावरे जंगमे वापि यथाभिमतयेच्छया ।भोक्तुं तत्संपदं सम्यग्जीवोऽन्तर्विनिवेश्यते ॥३१॥इति सिद्धिश्रियं भुक्त्वा स्थितं चेत्तद्वपुः पुनः ।प्रविश्यते स्वमन्यद्वा यद्यत्तात विरोचते ॥३२॥देहादयस्तथा बिम्बान्व्याप्तवत्याखिलानथ ।संविदा जगदापूर्य संपूर्ण स्थीयतेऽथवा ॥३३॥ज्ञात्वा सदाभ्युदितमुज्झितदोषमीशोयद्यद्यथा समभिवाञ्छति चित्प्रकाशः ।प्राप्नोति तत्तदचिरेण तथैव रामसम्यक्पदं विदुरनावरणत्वमेव ॥३४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे पू० चू० अणिमादिलाभयोगोपदेशो नाम द्व्यशीतितमः सर्गः ॥८२॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP