संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः १०७ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः १०७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः १०७ Translation - भाषांतर श्रीवसिष्ठ उवाच ।अथ सूर्याख्यरङ्गेण रञ्जिते भुवनोदरे ।शिखिध्वजाङ्गना प्रातर्मदनी कुम्भतां ययौ ॥१॥एवं महेन्द्रदर्यां तावुभौ कुम्भशिखिध्वजौ ।स्वयं विवाहिताविष्टौ संपन्नौ देवदंपती ॥२॥विलेसतुर्विचित्रासु प्रत्यहं वनराजिषु ।प्रपक्वफलभारासु पुष्पपल्लविनीषु च ॥३॥दिवा प्रीततरौ मित्रे यामिन्यामिष्टदंपती ।प्रभादीपाविव श्लिष्टौ न वियुक्तौ बभूवतुः ॥४॥रेमाते वनकुञ्जेषु गुहासु च महीभृताम् ।तमालजालखण्डेषु मन्दारगहनेषु च ॥५॥सह्यदर्दुरकैलासमहेन्द्रमलयेषु च ।गन्धमादनविन्ध्याद्रिलोकालोकतटेषु च ॥६॥दिनैस्त्रिभिस्त्रिभिर्गत्वा निद्रां गतवति प्रिये ।चूडाला राजकार्याणि कृत्वा स्वभ्याययौ पुनः ॥७॥तौ दिवा सुहृदौ मित्रे दंपती कुम्भभूमिपौ ।नानाकुसुमसंवीतौ तस्थतुर्मुदितौ मिथः ॥८॥मासमेकं महेन्द्राद्रौ रम्ये सरलसंकुले ।रत्नकुड्ये गुहागेहे पूजितौ सुरकिंनरैः ॥९॥हस्तलभ्योदितामोघमन्दारवनमालिते ।एवं शुक्तिमतः पृष्ठे पक्षं कल्पलतागृहे ॥१०॥मासद्वयं पक्षवतो गिरेर्दक्षिणदिक्तटे ।पारिजातवने देवपुष्पस्तबकमण्डपे ॥११॥जम्बूखण्डतले मेरोः पादे जम्बूनदीतटे ।जाम्बूनदमये मासं जम्बूफलरसासवैः ॥१२॥दशोत्तरकुरूणां च मण्डले दिवसानि तौ ।कोसलेषूत्तरस्थेषु सप्तविंशतिवासरान् ॥१३॥एवमन्येषु देशेषु विचित्रेषु महीभृताम् ।स्थितवन्तौ महाभागौ सुहृदौ निशि दम्पती ॥१४॥ततो यातेषु मासेषु शनैः कतिपयेषु सा ।चूडाला चिन्तयामास देवपुत्रकरूपिणी ॥१५॥सुरूपभोगभारेण परीक्षेऽहं शिखिध्वजम् ।मा कदाचन चेतोऽस्य भोगेषु रतिमेष्यति ॥१६॥इति संचिन्त्य चूडाला मायया विपिनावनौ ।आगतं दर्शयामास ससुराप्सरसं हरिम् ॥१७॥इन्द्रमभ्यागतं दृष्ट्वा परिवारसमन्वितम् ।यथावत्पूजयामास वनसंस्थः शिखिध्वजः ॥१८॥शिखिध्वज उवाच ।आत्मना किं कृता दूरादभ्यागमकदर्थना ।देवराज यथा तन्मे प्रसादाद्वक्तुमर्हसि ॥१९॥इन्द्र उवाच ।इमे वयमिहायातास्त्वद्गुणातिशयेन खात् ।हृदि लग्नेन सूत्रेण खगा वनगता इव ॥२०॥उत्तिष्ठ स्वर्गमागच्छ तत्र सर्वे त्वदुन्मुखाः ।त्वद्गुणश्रवणाश्चर्याः स्थिता देवाङ्गनागणाः ॥२१॥पादुकागुटिकाखङ्गरसादीदमथापि च ।गृहीत्वा सिद्धमार्गेण स्वीकुरु स्वर्गमण्डलम् ॥२२॥आगत्य विविधा भोगास्त्वया विबुधसद्मनि ।जीवन्मुक्तेन भोक्तव्यास्तेन त्वामहमागतः ॥२३॥विमानयन्ति संप्राप्तां न तिरस्करणैः श्रियम् ।नाभिवाञ्छन्ति न प्राप्तां त्वादृशाः साधु साधवः ॥२४॥अविघ्नमागतेनाद्य सुखं विहरता त्वया ।स्वर्गः पवित्रतां यातु हरिणेव जगत्त्रयम् ॥२५॥शिखिध्वज उवाच ।सर्व स्वर्गसमाचारं वेद्मि देवाधिनायक ।किंतु सर्वत्र मे स्वर्गो नियतो न तु कुत्रचित् ॥२६॥सर्वत्रैव हि तुष्यामि सर्वत्रैव रमे प्रभो ।अवाञ्छनत्वान्मनसः सर्वत्रानन्दवानहम् ॥२७॥नियतं किंचिदेकत्र स्थितं स्वर्गकमीदृशम् ।शक्र गन्तुं न जानामि त्वदाज्ञां न करोम्यहम् ॥२८॥शक्र उवाच ।साधो विदितवेद्यानां परिपूर्णधियां समम् ।सज्जनाचरितं युक्तं मन्ये भोगोपसेवनम् ॥२९॥देवेशे प्रोक्तवत्येवं तूष्णीमेव स्थिते नृपे ।किमितो नापयाम्येष त्वमिति प्रोक्तवान् हरिः ॥३०॥नाहमद्यैव कालेन वदतीति शिखिध्वजे ।कल्याणं तेऽस्तु कुम्भेति वदन्नन्तर्धिमाययौ ॥३१॥तद्देववृन्दमखिलं त्रिदशेशयुक्तंतत्र क्षणादलमदृश्यमभूद्द्वितीयम् ।कल्लोलराशिरिव वारिनिधौ प्रशान्तेवाते स्फुरन्मकरफेनफणीन्द्रवृन्दम् ॥३२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० चू० शक्रगमनं नाम सप्तोत्तरशततमः सर्गः ॥१०७॥ N/A References : N/A Last Updated : September 25, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP