निर्वाणप्रकरणं - सर्गः १२४
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
यथा सत्त्वमुपेक्ष्य स्वं शनैर्विप्रो दुरीहया ।
अङ्गीकरोति शूद्रत्वं तथा जीवत्वमीश्वरः ॥१॥
भूतानि द्विविधान्येव प्रतिसर्गे स्फुरन्ति वै ।
आद्यविस्पन्दजातानि तानि निष्कारणानि वै ॥२॥
ईश्वरात्समुपागत्य पुनर्जन्मान्तराणि च ।
भूतान्यनुभवत्यङ्ग स्वकृतैरेव कर्मभिः ॥३॥
कार्यकारणभावोऽयमीदृशो जन्मकर्मणोः ।
अकारणमुपायान्ति सर्वे जीवा परात्पदात् ॥४॥
पश्चात्तेषां स्वकर्माणि कारणं सुखदुःखयोः ।
आत्मज्ञानात्समुत्पन्नः संकल्पः कर्मकारणम् ॥५॥
संकल्पित्वं हि बन्धस्य कारणं तत्परित्यज ।
मोक्षस्तु निःसंकल्पित्वं तदभ्यासपरो भव ॥६॥
सावधानो भव त्वं च ग्राह्यग्राहकसंभ्रमे ।
अजस्रमेव संकल्पदशाः परिहरञ्छनैः ॥७॥
मा भव ग्राह्यभावात्मा ग्राह्यकात्मा च मा भव ।
भावनामखिलां त्यक्त्वा यच्छिष्टं तन्मयो भव ॥८॥
अजस्रं यं यमेवार्थं पतत्यक्षगणोऽनघ ।
बध्यते तत्र रागेण तत्रारागेण मुच्यते ॥९॥
किंचिद्यद्रोचते तुभ्यं तद्बद्धोऽसि भवस्थितौ ।
न किंचिद्रोचते चित्ते तन्मुक्तोऽसि भवस्थितौ ॥१०॥
तस्मात्पदार्थनिचयात्सह स्थावरजङ्गमात् ।
तृणादेर्देवकायान्तान्मा किंचित्तव रोचताम् ॥११॥
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
न कर्तासि न भोक्तासि तत्र मुक्तमतिः शमी ॥१२॥
सन्तोऽतीतं न शोचन्ति भविष्यच्चिन्तयन्ति नो ।
वर्तमानं च गृह्णन्ति कर्म प्राप्तमखण्डितम् ॥१३॥
मनसि ग्रथिता भावास्तृष्णामोहमदादयः ।
मनसैव मनो राम च्छेदनीयं विजानता ॥१४॥
विवेकेनातितीक्ष्णेन बलादय इवायसा ।
मनसैव मनश्छिन्धि सर्वभ्रमस्य शान्तये ॥१५॥
क्षालयन्ति मलेनैव मलं क्षालनकोविदाः ।
वारयन्त्यस्त्रमस्त्रेण विषं प्रति विषेण च ॥१६॥
जीवस्य त्रीणि रूपाणि स्थूलसूक्ष्मपराणि च ।
तत्रास्य यत्परं रूपं तद्भज द्वे परित्यज ॥१७॥
पाणिपादमयो योऽयं देहो भोगाय वल्गति ।
भोगार्थमेतज्जीवस्य रूपं स्थूलमिहास्थितम् ॥१८॥
स्वसंकल्पमयाकारं यावत्संसारभावि यत् ।
चित्तं तद्विद्धि जीवस्य रूपं रामातिवाहिकम् ॥१९॥
आद्यन्तरहितं सत्यं चिन्मात्रं निर्विकल्पकम् ।
यत्तद्विद्धि परं रूपं तृतीयं विश्वरूपकम् ॥२०॥
एतत्तुर्यपदं शुद्धमत्र बद्धपदो भव ।
संपरित्यज्य पूर्वे द्वे मा तत्रात्ममतिर्भव ॥२१॥
श्रीराम उवाच ।
जाग्रत्स्वप्नसुषुप्तेषु स्थितं त्रिष्वप्यलक्षितम् ।
तुर्यं ब्रूहि विशेषेण विविच्य मुनिनायक ॥२२॥
श्रीवसिष्ठ उवाच ।
अहंभावानहंभावौ त्यक्त्वा सदसती तथा ।
यदसक्तं समं स्वच्छं स्थितं तत्तुर्यमुच्यते ॥२३॥
या स्वच्छा समता शान्ता जीवन्मुक्तव्यवस्थितिः ।
साक्ष्यवस्था व्यवहृतौ सा तुर्यकलनोच्यते ॥२४॥
नैतज्जाग्रन्न च स्वप्नं संकल्पानामसंभवात् ।
सुषुप्तभावो नाप्येतदभावाज्जडता स्थितेः ॥२५॥
शान्तं सम्यक्प्रबुद्धानां यथास्थितमिदं जगत् ।
विलीनं तुर्यमेवाहुरबुद्धानां स्थिरं स्थितम् ॥२६॥
अहंकारकलात्यागे समतायाः समुद्भवे ।
विशरारौ कृते चित्ते तुर्यावस्थोपतिष्ठते ॥२७॥
अथेमं श्रृणु दृष्टान्तं कथ्यमानं मयाधुना ।
प्रबुद्धोऽपि यथा बोधमुपैषि विबुधोपम ॥२८॥
कस्मिंश्चित्काननाभोगे महामौनं व्यवस्थितम् ।
दृष्ट्वाद्भुतमिदं किंचिन्मुनिं पप्रच्छ लुब्धकः ॥२९॥
पश्चादुपगतो बाणभिन्नं मृगमभिद्रुतम् ।
मुने मदीयबाणेन विद्धो मृग इहागतः ॥३०॥
क्व प्रयातो मृग इति प्रत्युवाच स तं मुनिः ।
समशीला वयं साधो मुनयो वनवासिनः ॥३१॥
नास्माकमस्त्यहंकारो व्यवहारेषु यः क्षमः ।
सर्वाणीन्द्रियकर्माणि करोति हि सखे मनः ॥३२॥
अहंकारमयं तन्मे नूनं प्रगलितं चिरम् ।
जाग्रत्स्वप्नसुषुप्ताख्या दशा वेद्मि न काश्चन ॥३३॥
तुर्य एव हि तिष्ठेऽहं तत्र दृश्यं न विद्यते ।
इति तस्य वचः श्रुत्वा मुनिनाथस्य राघव ॥३४॥
लुब्धकोऽर्थमविज्ञाय जगामाभिमतां दिशम् ।
अतो वच्मि महाबाहो नास्ति तुर्येतरा दशा ॥३५॥
निर्विकल्पा हि चित्तुर्यं तदेवास्तीह नेतरत् ।
जाग्रत्स्वप्नसुषुप्ताख्यं त्रयं रूपं हि चेतसः ॥३६॥
घोरं शान्तं च मूढं च आत्मचित्तमिहास्थितम् ।
घोरं जाग्रन्मयं चित्तं शान्तं स्वप्नमयं स्थितम् ॥३७॥
मूढं सुषुप्तभावस्थं त्रिभिर्हीनं मृतं भवेत् ।
यच्च चित्तं मृतं तत्र सत्त्वमेकं स्थितं समम् ।
तदेव योगिनः सर्वे यत्नात्संपादयन्ति हि ॥३८॥
समस्तसंकल्पविलासमुक्तं
तुर्ये पदे तिष्ठ निरामयात्मा ।
यत्र स्थिताः साधु सदैव मुक्ताः
प्रशान्तमेदा मुनयो महान्तः ॥३९॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० मृगव्याधीयं नाम चतुर्विंशत्यधिकशततमः सर्गः ॥१२४॥
N/A
References : N/A
Last Updated : September 25, 2021
TOP