निर्वाणप्रकरणं - सर्गः ७३
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
इति राजमुखाच्छ्रुत्वा वेतालः शान्तिमाययौ ।
भावितात्मतया तत्र विचारोचितया धिया ॥१॥
उपशान्तमना भूत्वा मत्वैकान्तमनिन्दितम् ।
बभूवाविचलध्यानी विस्मृत्य विषमां क्षुधाम् ॥२॥
एतद्राम मयोक्तं ते वेतालप्रश्नजालकम् ।
एवंक्रमेण चिदणौ तेनेदं संस्थितं जगत् ॥३॥
चिदणोः कोशगं विश्वं विचारेण विलीयते ।
कायो वेतालकस्येव शिष्यते यत्पदं तु तत् ॥४॥
संहृत्य सर्वतश्चित्तं स्तिमितेनान्तरात्मना ।
स्वभावापतितं कुर्वन्निरिच्छं तिष्ठ शान्तधीः ॥५॥
आकाशविशदं कृत्वा मनसैव मनो मुने ।
तिष्ठैकशमशान्तात्मा सर्वत्र समदर्शनः ॥६॥
स्थिरबुद्धिरसंमूढो यथाप्राप्तानुवर्तिनः ।
राज्ञो भगीरथस्येव दुःसाध्यमपि सिद्ध्यति ॥७॥
संपूर्णशान्तमनसः परितृप्तवृत्ते-
र्नित्यं समे सुखमयात्मनि तिष्ठतोऽन्तः ।
सिद्ध्यन्ति दुर्लभतरा अपि वाञ्छितार्था
गङ्गावतार इव सागरखातवस्तु ॥८॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० वेतालाख्यानं नाम त्रिसप्ततितमः सर्गः ॥७३॥
N/A
References : N/A
Last Updated : September 24, 2021
TOP