निर्वाणप्रकरणं - सर्गः ९६
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
इति ब्रह्मणि विश्रान्तिमवाप्य स शिखिध्वजः ।
मुहूर्तमासीत्संशान्तमना निर्वातदीपवत् ॥१॥
निर्विकल्पसमाधानपरेणाशु विविक्षितम् ।
स्वलीलयेति कुम्भेन झटित्येव प्रबोधितः ॥२॥
कुम्भ उवाच ।
राजन्नज्ञाननिद्रातः प्रबुद्धोऽसि शिवः स्थितः ।
कार्यं नास्तमयेनैव न चानस्तमयेन ते ॥३॥
सकृदेव विभातात्मा नष्टानिष्टपदात्मकः ।
कलाकलननिर्मुक्तो जीवन्मुक्तोऽङ्ग सांप्रतम् ॥४॥
श्रीवसिष्ठ उवाच ।
कुम्भेन बोधितस्त्वेवं स बभूवावबोधवान् ।
विनिर्गतो रराजोच्चैर्महामोहसमुद्गकात् ॥५॥
विश्रान्तधीः क्षणेनैव पश्यन्दृश्यस्य वस्तुनः ।
असत्तामेव मुक्तात्मा लीलया समुवाच ह ॥६॥
शिखिध्वज उवाच ।
ज्ञातप्रायमपीदं तु यत्पृच्छामि तदुच्यताम् ।
भूयो निपुणबोधाय मम मानद मोदद ॥७॥
शिवे शान्ते निराभासे पदेऽनुल्लसितात्मनि ।
द्रष्टृदर्शनदृश्याख्यो विश्वात्मा प्रत्ययः कुतः ॥८॥
कुम्भ उवाच ।
साधु पृष्टं महाराज राजसे वाथ भास्वरः ।
एतदेव हि ते शिष्टं ज्ञातुं यत्तदिदं श्रृणु ॥९॥
यदिदं दृश्यते किंचिज्जगत्स्थावरजंगमम् ।
सर्वं सर्वप्रकाराढ्यं कल्पान्ते तद्विनश्यति ॥१०॥
ततः स्तिमितगम्भीरं न तेजो न तमस्ततम् ।
महाकल्पविलासान्ते सत्सारमवशिष्यते ॥११॥
चिन्मात्रममलं शान्तमाभातं परमं नभः ।
समस्तकलनोन्मुक्तं युक्तं परमया धिया ॥१२॥
यदेकोदितमत्यच्छं शान्तमाततमुज्ज्वलम् ।
परमात्मात्मकं तेजस्तिमितं ज्ञप्तिमात्रकम् ॥१३॥
अप्रतर्क्यमविज्ञेयं समं शिवमनिन्दितम् ।
ब्रह्मनिर्वाणमापूर्णमापूर्णोदितसंविदा ॥१४॥
अणीयसामणीयश्च स्थविष्ठं च स्थवीयसाम् ।
गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि ॥१५॥
ईदृशं तत्परं सूक्ष्मं तस्याग्रे यदिदं नभः ।
अणोः पार्श्वे महामेरुरिव स्थूलात्म लक्ष्यते ॥१६॥
ईदृशं तत्परं स्थूलं यस्याग्रे यदिदं जगत् ।
परमाणुवदाभाति क्वचिदेव न भाति च ॥१७॥
विश्वात्मकचनं नाम पदेऽसंभववेधसः ।
तदहंवेदनं विद्धि विराडात्मा जगत्स्थितम् ॥१८॥
वातस्य वातस्पन्दस्य यथा भेदो न विद्यते ।
शून्यत्वखत्वोपमयोश्चिन्मात्राहंत्वयोस्तथा ॥१९॥
जलेऽस्ति देशकालान्ते यथोर्म्यादि सकारणम् ।
परेऽसद्देशकालान्ते तथा जगदकारणम् ॥२०॥
हेम्न्यस्ति देशकालान्ते कटकादि सकारणम् ।
ब्रह्मण्यदेशकालान्ते तथा जगदकारणम् ॥२१॥
ईदृशं तद्वरिष्ठं च जगद्राज्यं तदक्षतम् ।
न द्वैतममलं शान्तं जगत्तृणलवायते ॥२२॥
ईदृशं तत्परं श्रेयस्तस्मिन्सति यदीश्वरे ।
जगत्पदार्थसार्थश्रीः सा सत्तामेति वेदनात् ॥२३॥
तत्सारमेकमेवेह विद्यते भूपते ततम् ।
एकमेकान्तचित्कान्तं नैकमप्यद्वितावशात् ॥२४॥
तस्माद्द्वितीया कलना काचिन्नाम न विद्यते ।
आत्मतत्त्वमलं भातं तदेवापूर्णमक्षयम् ॥२५॥
संस्थितं सर्वदा सर्वं सर्वाकारमिवोदितम् ।
अदृश्यत्वादलभ्यत्वान्न तत्कार्यं न कारणम् ॥२६॥
प्रत्यक्षादेरगम्यत्वात्किमप्येव तदुत्तमम् ।
सर्वं सर्वात्मकं सूक्ष्ममच्छानुभवमात्रकम् ॥२७॥
आख्यानाख्यास्वरूपस्य निराभासप्रभादृशः ।
सतो वाप्यसतो वाथ कथं कारणता भवेत् ॥२८॥
यद्वै न कस्यचिद्बीजमनाख्यत्वान्न कारणम् ।
न किंचिज्जायते तस्मात्प्रमाणादि ततात्मनः ॥२९॥
अकर्तृकर्मकरणं सत्यं चिद्धनमक्षतम् ।
आत्मरूपमनाभासं स्वयंवेदनमक्षतम् ॥३०॥
तस्मान्न जायते किंचित्परस्माद्ब्रह्मणो मुने ।
कथं किं लभ्यते केन यथोर्म्यादि सकारणम् ॥३१॥
परेऽसद्देशकालान्ते तथा जगदकारणम् ।
शिखिध्वज उवाच ।
जलादौ यत्तरङ्गादि तत्सकारणमस्ति हि ॥३२॥
परे जगदहंतादि नाकारणमवैम्यहम् ।
कुम्भ उवाच ।
इदानीं तत्त्वतो ज्ञातमेतत्सत्यं महीपते ॥३३॥
इदं जगदहंतादि नेह किंचिन्न विद्यते ।
जगच्छब्दार्थरहितं जगदस्ति शिवात्मकम् ॥३४॥
व्योम्न्येव निर्मितं शान्तं व्योम्ना सूक्ष्मतरेण च ।
यथा नभसि शून्यत्वं तथेदं जगदीश्वरे ॥३५॥
सदृशं स्वस्वरूपेण न वा रूपेण केनचित् ।
एवंरूपं जगदिदं सम्यग्ज्ञातं शिवं भवेत् ॥३६॥
सम्यग्ज्ञानप्रभावेण विषमप्यमृतायते ।
असम्यग्ज्ञातमशिवं जगद्दुःखप्रदं परम् ॥३७॥
विषबुद्ध्यामृतमपि भुक्तं विषरसायते ।
ईदृशश्च यथा वेत्ति यद्यदेष चिदीश्वरः ॥३८॥
तत्तथैवाशु भवति तादृग्रूपतया शिवः ।
यथा ज्वाला भ्रमाज्जाता विचित्राकारविभ्रमैः ॥३९॥
तिष्ठत्यनन्यरूपैव ब्रह्मसत्ता तथैव हि ।
यत्परं चित्स्वरूपेण स्थितमात्मनि मन्थरम् ॥४०॥
तत्तेन देहदेह्यादिर्जगदादीव लक्ष्यते ।
केवलं परमेवेत्थं परमं भासते शिवम् ॥४१॥
अतो जगदहंतादि प्रश्न एवेति नोचितः ।
यद्वस्तु विद्यमानं सत्प्रश्नस्तत्र विराजते ॥४२॥
प्रेक्षितं यत्तु नास्त्येव प्रेक्षाप्रश्नेन तत्र किम् ।
संनिवेशं विना सत्ता यथा हेम्नो न विद्यते ॥४३॥
तथा जगदहंभावं विना नेशस्य संस्थितिः ॥
अकारणत्वान्नास्तीदं ब्रह्मैवेत्थं विजृम्भते ॥४४॥
अजृम्भमाणमेवेदं जगत्त्वेनेव संस्थितम् ।
यन्मया एव तेनैव मिथः संप्रेरिताशयम् ॥४५॥
चमत्कुर्वन्त्यमी भावाः पञ्चके मिथुनौघवत् ।
चिन्मात्र एव चिन्मात्रं चिन्मात्रेणावधीयते ॥४६॥
नानात्मनैव नानेव स्वात्मज्ञानात्मनात्मवत् ।
पूर्णात्पूर्णान्युद्धरन्ति पूर्णात्पूर्णानि चक्रिरे ॥४७॥
भवन्ति पूर्णात्पूर्णानि पूर्णमेवावशिष्यते ।
चिन्मात्रमेव कचति यच्चिन्मात्रमयात्मनि ॥४८॥
अकचित्वैव तन्नाम कचितं सर्गवेदनम् ।
अहं चिता चिदेवादौ भवतीव स्वयं ततः ॥४९॥
अभवन्त्येव रूपं स्वमत्यजन्ती निरामयम् ।
तेजोमयमनाद्यन्तं मनोरूपमनन्तकम् ॥५०॥
सम्राट्संसारमाभासि भवतीव स्वयं वपुः ।
पश्यत्यथ सदेवेदं स्वरूपत्वात्सदेव वा ।
भावनाद्भूततामेति दृश्यं भवति च क्षणात् ॥५१॥
शान्तं जगत्प्रसररूपतया स्वभाव-
शब्दार्थमुक्तमिदमव्यपदेश्यमेकम् ।
वस्तु स्थितं निजचमत्करणावलोक-
रूपं जगत्स्वरहितानुभवात्मतत्त्वम् ॥५२॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० पू० चू० शिखिध्वजावबोधनं नाम षण्णवतितमः सर्गः ॥९६॥
N/A
References : N/A
Last Updated : September 25, 2021
TOP