निर्वाणप्रकरणं - सर्गः ३४
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
ईश्वर उवाच ।
इत्थं स्थितमिदं विश्वं सदसद्देवरूपि च ।
द्वैतैक्यपदनिर्मुक्तं युक्तं द्वैतैक्यमप्यतः ॥१॥
चितेः कलङ्कवैरूप्यमिति संसारतां गतम् ।
अकलङ्कमसंसारि तच्चाभिन्नाद्वयात्मकम् ॥२॥
इयमस्मीति संप्राप्तकलङ्का चिन्निबध्यते ।
एतामेव कलां बुद्ध्वा स्वकाभिन्नां विमुच्यते ॥३॥
चिदर्थाकारताभावाद्द्वित्वात्सत्त्वं समुज्झति ।
सुखादिमिलितां धत्ते न सत्यां सदिति क्षणात् ॥४॥
शुद्धा निरंशा सत्या वाऽसत्या वेत्येवमादिभिः ।
विमुक्ता नामशब्दार्थैः सर्वैः सर्वात्मिकापि खम् ॥५॥
सर्वं निरुपमं शान्तं मनसैतत्त्रिमार्गगम् ।
ब्रह्मेदं बृंहितं ब्रह्म शक्त्याऽऽकाशविकासया ॥६॥
मनसा मनसि च्छिन्ने स्वेन्द्रियावयवात्मनि ।
सत्यालोकाज्जगज्जाले प्रच्छन्ने विलयं गते ॥७॥
छिद्यते शीर्णसंसारकलना कल्पनात्मिका ।
भृष्टबीजोपमा सत्ता जीवस्य इतिनामिका ॥८॥
पश्यन्ती नाम कलितोत्सृजन्ती चेत्यचर्वणाम् ।
मनोमोहाभ्रनिर्मुक्ता शरदाकाशकोशवत् ॥९॥
शुद्धा चिद्भावमात्रस्था चेत्यचिच्चापलं गता ।
समस्तसामान्यवती भवतीर्णभवार्णवा ॥१०॥
अपुनर्भवसौषुप्तपदपाण्डित्यपीवरी ।
परमासाद्य विश्रान्ता विश्रान्ता वितते पदे ॥११॥
एतत्ते मनसि क्षीणे प्रथमं कथितं पदम् ।
द्वितीयं श्रृणु विप्रेन्द्र शक्तेरस्याः सुपावनम् ॥१२॥
एषैव मनसोन्मुक्ता चिच्छक्तिः शान्तिशालिनी ।
सर्वज्योतिस्तमोमुक्ता वितताकाशसुन्दरी ॥१३॥
घनसौषुप्तलेखावच्छिलान्तःसन्निवेशवत् ।
सैन्धवान्तस्थरसवद्वातान्तःस्पन्दशक्तिवत् ॥१४॥
कालेनायाति तत्रैव परां परिणतिं यदा ।
शून्यशक्तिरिवाकाशे परमाकाशगा तदा ॥१५॥
चेत्यांशोन्मुखतां नूनं त्यजत्यम्ब्विव चापलम् ।
वातलेखेव चलनं पुष्पलेखेव सौरभम् ॥१६॥
कालताकाशते त्यक्त्वा सकले सकलाकला ।
न जडा नाजडा स्फारा धत्ते सत्तामनामिकाम् ॥१७॥
दिक्कालाद्यनवच्छिन्नमहासत्तापदं गताम् ।
तुर्यतुर्यांशकलितामकलङ्कामनामयाम् ॥१८॥
कांचिदेव विशालाक्ष साक्षिवत्समवस्थिताम् ।
सर्वतः सर्वदा सर्वप्रकाशस्वादुतत्पराम् ॥१९॥
एषा द्वितीया पदता कथिता तव सुव्रत ।
तृतीयं श्रृणु वक्ष्यामि पदं पदविदां वर ॥२०॥
एषा दृक्चेत्यवलनादनामार्थापदं गता ।
ब्रह्मात्मेत्यादिशब्दार्थादतीतोदेति केवला ॥२१॥
स्थैर्येण कालतः स्वस्था निष्कलङ्का परात्मना ।
तुर्यातीतादिनामत्वादपि याति परं पदम् ॥२२॥
सा परा परमा काष्ठा प्रधानं शिवभावतः ।
चित्येका निरवच्छेदा तृतीया पावनी स्थितिः ॥२३॥
चिरमस्यां प्रतिष्ठायां सर्वाध्वाध्वगदूरगा ।
सा ममाप्यंग वचसां न समायाति गोचरम् ॥२४॥
त्रिमार्गकलनातीतमिति ते कथितं मुने ।
तिष्ठ तस्मिन्पदे नित्यमिति देवः सनातनः ॥२५॥
एतन्मयमिदं विश्वं मुने तन्मयवेदनात् ।
सत्यसंवेदनान्नेदं न च नेदं मुनीश्वर ॥२६॥
नेदं प्रवर्तते किंचिन्नेदं किचिन्निवर्तते ।
शान्तं समसमाभासं प्रथते स्वस्य कोशवत् ॥२७॥
अद्वैतैक्यादसंक्षोभाद्धनचेतनया तया ।
अविकारादिमत्त्वाच्च नित्यानित्यतया चिरम् ॥२८॥
चिद्धनत्वाच्छिशुशिलाकोशानां जगतामपि ।
मनागपि न भेदोऽस्ति सतामप्यसतामपि ॥२९॥
समस्तं सुशिवं शान्तमतीतं वाग्विलासतः ।
ओमित्यस्य च तन्मात्रातुर्या सा परमा गतिः ॥३०॥
श्रीवाल्मीकिरुवाच ।
इत्युक्तवानमलदृक्परिणामतोऽस्मिन्
पारे पदे समुपशान्तरवाभिधाने ।
तूष्णीमतिष्ठदमुना मुनिना च सार्धं
विश्रान्तवृत्तिरथ तत्र मुहूर्तमीशः ॥३१॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० परमेश्वरोपदेशो नाम चतुस्त्रिंशः सर्गः ॥३४॥
N/A
References : N/A
Last Updated : September 24, 2021
TOP