निर्वाणप्रकरणं - सर्गः ३५
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
ततो मुहूर्तेन हरो गौरीकमलिनीसरः ।
मद्विकासोन्मुखः स्वैरं विकासं बहिराददे ॥१॥
दृक्चयो द्योतयामास मुखाकाशतलोदितः ।
बोधं समुद्गकादर्क अंशुराशिरिवोद्गतः ॥२॥
ईश्वर उवाच ।
मुने मननमाहूय स्वसत्तैवाशु मीयताम् ।
त्वमर्थं माहरानर्थं पवनः स्पन्दतामिव ॥३॥
द्रष्टव्यमिह यत्किंचित्तद्दृष्टं किं समं भ्रमैः ।
न हि हेयमुपादेयं चेह पश्यामि तद्विदः ॥४॥
शान्त्यशान्तिमयानेतान्विकल्पान्दलयन्नसिः ।
धीरोसिनान्यथाऽऽस्थित्वा त्वमेव भव चात्मदृक् ॥५॥
इमां दृश्यदशामाशु बाह्यबोधाय वा पुनः ।
समाश्रित्य मदुक्तं त्वं श्रृणु तूष्णीं स्थितेन किम् ॥६॥
इत्युक्त्वा बाह्यबोधस्त्वं मा भवेति त्रिशूलधृक् ।
प्राणेनेदं देहगेहं परिस्फुरति यन्त्रवत् ॥७॥
प्राणहीनं परिस्पन्दं त्यक्त्वा तिष्ठति मूकवत् ।
चालनी पावनी शक्तिः शक्तिः संवेदनी चितिः ॥८॥
सा मूर्ता खादपि स्वच्छा सत्सत्तैवात्र कारणम् ।
विनश्यतः प्राणदेहौ वियोगान्मरुदेव च ॥९॥
चिदात्मा खादपि स्वच्छो न विनश्यति किं भ्रमैः ।
मनःप्राणमये देहे चित्तत्त्वं परिजायते ॥१०॥
मुकुरे ह्यमलाभासे प्रतिबिम्बं प्रवर्तते ।
सदप्यग्रगतं वस्तु प्रतिबिम्बक्रिया विना ॥११॥
यथा नास्ति मलोपेते मुकुरे मुनिनायक ।
तथा नास्ति गतप्राणे विद्यमानेऽपि देहके ॥१२॥
सर्वगापि चिदुच्छूनबोधात्स्पन्दादिकं प्रति ।
बोधात्कलङ्कविमला चिदेव परमं शिवम् ॥१३॥
विदुर्देवं तदाभासं सर्वसत्तार्थदं तथा ।
स हरिः स शिवः सोऽजः स ब्रह्मा स सुरेश्वरः ॥१४॥
अनिलानलचन्द्रार्कवपुः स परमेश्वरः ।
स एष सर्वगो ह्यात्मा चित्खनिश्चेतनः स्मृतः ॥१५॥
देवेशो देवभृद्धाता देवदेवो दिवः पतिः ।
महाचितः समुल्लासं मुह्यन्तीव न केचन ॥१६॥
ये नाम ते जगत्येते ब्रह्मविष्णुहरादयः ।
परस्मात्परिनिर्याता ब्रह्मविष्णुहरादयः ॥१७॥
कणास्तप्तायस इव वारिधेरिव बिन्दवः ।
तेष्विव भ्रमभूतेषु जातेष्विव परात्पदात् ॥१८॥
स्थितेषु भ्रमबीजेषु कल्पनाजालकर्तृषु ।
सहस्रशतशाखेयमविद्योदेति पीवरी ॥१९॥
वेदवेदार्थवेदादिजीवजालजटावली ।
ततस्तस्या अनन्तायाः प्रसृतायाः पुनःपुनः ॥२०॥
संपन्नदेशकालायाः क्रमः स्याद्वर्णनासु कः ।
ब्रह्मविष्णुहरादीनामतोऽयं परमः पिता ॥२१॥
मूलबीजं महादेवः पल्लवानामिव द्रुमः ।
सर्वसत्त्वाभिधः सर्वः सर्वसंवेदनैककृत् ॥२२॥
सर्वसत्ताप्रदो भास्वान्वन्द्योऽभ्यर्च्यश्च तद्विदः ।
प्रत्यक्षवस्तुविषयः सर्वत्रैव सदोदितः ॥२३॥
संवेदनात्मकतया गतया सर्वगोचरम् ।
न तस्याह्वानमन्त्रादि किंचिदेवोपयुज्यते ॥२४॥
नित्याहूतः स सर्वस्थो लभ्यते सर्वतः स्वचित् ।
यां यां वस्तुदशां याति तत एव मुने शिवम् ॥२५॥
स्वरूपं समवाप्नोति रूपालोकमनोदृशाम् ।
आद्यं पूज्यं नमस्कार्यं स्तुत्यमर्घ्यं सुरेश्वरम् ॥२६॥
एनं तं विद्धि वेद्यानां सीमान्तं महतामपि ।
एतमात्मानमालोक्य जराशोकभयापहम् ।
संभृष्टबीजवज्जन्तुर्न भूयः परिरोहति ॥२७॥
सकलजन्तुषु यत्त्वभयप्रदं
विदितमाद्यमुपास्यमयत्नतः ।
त्वमजमात्मगतं परमं पदं
भवसि किं परिमुह्यसि दृष्टिषु ॥२८॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० महादेवस्य पूज्यसीमान्तत्वकथनं नाम पञ्चत्रिंशः सर्गः ॥३५॥
N/A
References : N/A
Last Updated : September 24, 2021
TOP