संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्|
सर्गः ५९

निर्वाणप्रकरणं - सर्गः ५९

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवसिष्ठ उवाच ।
एतां दृष्टिमवष्टभ्य राघवाऽघविनाशिनीम् ।
तिष्ठ निःसङ्गसंन्यासब्रह्मार्पणमयात्मकः ॥१॥
यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ।
यश्च सर्वमयो नित्यमात्मानं विद्धि तं परम् ॥२॥
दूरस्थमप्यदूरस्थं सर्वगं तत्स्थमेव च ।
तत्स्थः सत्तामवाप्नोषि तदेवास्यस्तसंशयः ॥३॥
यत्संवेद्यविनिर्मुक्तं संवेदनमनिर्मितम् ।
चेत्यमुक्तं चिदाभासं तद्विद्धि परमं पदम् ॥४॥
सा परा परमा काष्ठा सा दृशां दृगनुत्तमा ।
सा महिम्नां च महिमा गुरूणां सा तथा गुरुः ॥५॥
स आत्मा तच्च विज्ञानं स शून्यं ब्रह्म तत्परम् ।
तच्छ्रेयः स शिवः शान्तः सा विद्या सा परा स्थितिः ॥६॥
योऽयमन्तश्चितेरात्मा सर्वानुभवरूपकः ।
यत्र स्वदन्ते सर्वाणि स्वात्मद्रव्याणि सत्तया ॥७॥
स जगत्तिलतैलात्मा स जगद्गृहदीपकः ।
स जगत्पादपरसः स जगत्पशुपालकः ॥८॥
स तन्तुर्भूतमुक्तानां परिप्रोतहृदम्बरः ।
स भूतमरिचौघानां परमा तीक्ष्णता तथा ॥९॥
स पदार्थे पदार्थत्वं स तत्त्वं यदनुत्तमम् ।
स सतो वस्तुनः सत्त्वमसत्त्वं वा सतः स्वतः ॥१०॥
यः स्ववित्तिविचित्रेण स्वयमात्मैव लभ्यते ।
सर्व एव जगद्भावा अविचारेण चारवः ॥११॥
अविद्यमानाः सद्भावा विचारविशरारवः ।
अहमादौ जगज्जाले मिथ्याभ्रमभरात्मनि ॥१२॥
को नु भूत्वाऽनुबध्नामि वृत्तिं कथमवाप धीः ।
आद्यमध्यान्तमानानि संकल्पकलनान्यहम् ॥१३॥
ब्रह्माकाशमनाद्यन्तं केवेयत्ता ममात्मनः ।
इति निश्चयवानन्तः सम्यग्व्यवहृतिर्बहिः ॥१४॥
उदयास्तमयोन्मुक्तस्थितिरन्तः स सर्वदा ।
नास्तमेति न चोदेति मनः समसमस्थितम् ॥१५॥
यस्य खस्येव शून्यत्वं स महात्मेह तद्वपुः ।
भावाद्वैतपदारूढः सुषुप्तपरया धिया ॥१६॥
व्यवहार्यपि संक्षोभं नैत्यादर्शनरो यथा ।
आदर्शपुरुषस्येव व्यवहारवतोऽपि च ॥१७॥
न यस्य हृदयोल्लेखो मनागपि स मुक्तिभाक् ।
अविभागमिवादर्शे चिन्मणौ प्रतिबिम्बति ॥१८॥
चितेः परमनैर्मल्याद्व्यवहारो यथा गतः ।
चिच्चमत्कृतिरेवेयं जगदित्यवभासते ॥१९॥
नेहास्त्यैक्यं न च द्वित्वं ममादेशोऽपि तन्मयः ।
वाच्यवाचकशिष्येहागुरुवाक्यैश्चमत्कृतैः ॥२०॥
आत्मनात्मनि शान्तैव चिच्चमत्कुरुते चिति ।
चित्प्रस्पन्दो हि संसारस्तदस्पन्दः परं पदम् ॥२१॥
चित्स्पन्दशमनेनेयं परिशाम्यति संसृतिः ।
महाचित्ते नतेऽर्थौऽशभावा यो भावनाक्षयः ॥२२॥
असन्नपि स्वभावं तत्संवित्स्पन्द उदाहृतम् ।
शून्यत्वमजडं यत्तत्परमाहुश्चितेर्वपुः ॥२३॥
तत्त्वेन भावनायत्ता संसृतिः सानुभूयते ।
अभावनामात्रलयात्सा च निःसाररूपिणी ॥२४॥
केवलं केवलीभावात्तद्रूपा सैव शिष्यते ।
चित्स्पन्दमेव संसारचक्रप्रवहणं विदुः ॥२५॥
मातृमानप्रमेयादि कटकादीव हेमनि ।
पृथगस्ति न च स्पन्दश्चितेर्या संसृतिर्भवेत् ॥२६॥
चित्तमेव चितिस्पन्दस्तदबोधो हि संसृतिः ।
अबोधमात्रे चित्स्पन्दः कटकत्वमिवोत्थितम् ॥२७॥
बोधमात्रविलीनेऽस्मिञ्छुद्धा चिद्राम शिष्यते ।
स्वभावबोधमात्रेण क्षीयते भोगवासना ॥२८॥
भोगाभावनमेवेह परमं ज्ञत्वलक्षणम् ।
इतो नाभिमताः सर्वे ज्ञस्य भोगाः स्वभावतः ॥२९॥
भवन्ति कोऽतितृप्तो हि दुरन्नं किल वाञ्छति ।
एतदेव परं विद्धि ज्ञत्वस्यापरलक्षणम् ॥३०॥
स्वभावेनैव भोगानां यत्किलानभिवाञ्छनम् ।
चित्तत्स्पन्दैव सर्वात्मरूपिण्यस्तीति निश्चयः ॥३१॥
योऽन्तः प्ररूढः स्वभ्यासो ज्ञत्वशब्देन स स्मृतः ।
यो न भुङ्क्ते भुज्यमानानपि भोगान्स बुद्धिमान् ।
लोकानुरोधसिद्ध्यर्थं स हन्ति लगुडैर्नभः ॥३२॥
विना कृत्रिमया बुद्ध्या न सिद्धिरवगम्यते ॥३३॥
क्वचिदात्मावलोके च स्वाङ्गावदलनैरपि ।
चिच्चेत्यं चेत्यकोटिस्था तावत्पश्यति विभ्रमम् ॥३४॥
इदं यावदबोधात्मा स्पन्दते स्पन्दरूपिणी ।
सम्यग्बोधोदयोन्तः स्यात्स्पन्दास्पन्ददशाक्रमः ॥३५॥
क्वापि याति च संशान्तदीपवत्साभिधानकः ।
चितः प्रशान्तरूपाया दीपिकायाः स्वभावतः ॥३६॥
स्पन्दास्पन्दमयी नेह कथैवास्ति मनागपि ।
यदस्पन्दस्य मरुतो न सन्नासन्न मध्यगम् ॥३७॥
रूपं तदेवासंवित्तिस्पन्दायाः प्रशमं चितेः ।
अभिन्नः स्याच्चितः स्पन्दः शुद्धचित्स्फाररूपधृक् ॥३८॥
न बन्धाय न मोक्षाय स्थित आत्मनि केवलम् ।
चिच्चेन्निरर्थसंवित्तिनिर्वाणे न च विन्दते ॥३९॥
तद्बन्धमोक्षपक्षादेर्नामापीह न विद्यते ।
मोक्षोऽस्त्वित्येव बोधोऽन्तः पूर्णता क्षयकारणम् ॥४०॥
समास्त्वित्यपि बन्धस्ते श्रेयोऽसंवेदनं परम् ।
यदनाभासमजडं तद्विद्धि परमं पदम् ॥४१॥
चितः स्वरूपं संस्थानमचेत्योन्मुखतात्मकम् ।
यः संकल्पनशब्दार्थरूपः स्पन्दो महाचितः  ॥४२॥
बन्धमोक्षादिकार्होऽसौ प्रेक्ष्यमाणः प्रणश्यति ।
प्रेक्षणादेव संशान्ते त्वहंभावे निरास्पदे ॥४३॥
न विद्मः केन किं कस्य बध्यते वाथ मुच्यते ।
संकल्प एव रचिते बुधश्चेदविभागवान् ॥४४॥
तदसंकल्पमस्पन्दं सर्वं जातमवारितम् ।
स्पन्दे स्पन्दमये वाते तन्मयत्वात्सदा चिता ॥४५॥
संक्षीणे न च संसारो निस्पन्दे चिद्धने स्थिते ।
चित्तेज एव चित्स्पन्द इति बुद्धे निरन्तरम् ॥४६॥
व्यतिरिक्तश्चितः स्पन्दो न किंचिदवशिष्यते ।
अस्मिन्दृश्यमये दीर्घस्वप्ने स्वप्नान्तरं व्रजन् ।
न ज्ञो मोहमुपादत्ते सर्वगत्वात्स्वसंविदः ॥४७॥
यत्रोदेति प्रसभमनिशं सर्गसंवित्तिसत्ता
यस्मिन्नेते सकलकलनाकारपङ्का गलन्ति ।
उद्यन्त्येते स्वदनसुभगं यत्र सर्वोपलम्भा
ध्यानेनैव तमवगमय प्रत्यगात्मानमन्तः ॥४८॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० प्रत्यगात्मावबोधो नामैकोनषष्टितमः सर्गः ॥५९॥

N/A

References : N/A
Last Updated : September 24, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP