संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्|
सर्गः ९७

निर्वाणप्रकरणं - सर्गः ९७

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


कुम्भ उवाच ।
हेम्न्यस्ति देशकालान्ते इत्थं जन्यजनिक्रमः ।
न किंचिज्जायते शान्तान्न किंचित्प्रविलीयते ॥१॥
स्वसत्तायां स्थितं ब्रह्म न बीजं न च कारणम् ।
शुद्धानुभवमात्रं तत्तस्मादन्यन्न विद्यते ॥२॥
किंचिज्जगदहंतादि तदेवानन्तमस्ति हि ।
शिखिध्वज उवाच ।
शिवे जगदहंतादि मुने नास्तीति वेद्म्यहम् ॥३॥
सर्गवेदनमाभाति कथमेतद्वदाशु मे ।
कुम्भ उवाच ।
विस्तारं तदनाद्यन्तं तत्संविदिव तिष्ठति ॥४॥
तत्तद्भुवनमत्यच्छं तत्तन्मात्रं जगद्वपुः ।
न विज्ञानमयोऽर्थोऽस्ति न बाह्यो नापि शून्यता ॥५॥
वेदनामात्रसारत्वाद्यथा चित्सार उच्यते ।
द्रवत्वं सलिलस्येव चिदचित्त्वमकारणम् ॥६॥
स्वात्मनीशमनन्तं तद्यथास्थितमवस्थितम् ।
प्रतियोगिव्यवच्छेदाभावतः सत्त्वभावयोः ॥१७॥
असत्त्वात्तेन परमे स्वच्छभावव्यवस्थता ।
यदि कारणतापत्तियोग्यं शान्तं पदं भवेत् ॥८॥
अनिङ्गितमनाभासमप्रतर्क्यं कथं भवेत् ।
अतो न कारणं नैव बीजं ब्रह्म कदाचन ॥९॥
कार्यस्य कस्यचिन्नाम तेन सर्गो न विद्यते ।
न चान्यथोपपत्तिर्हि सर्गस्यास्योपपद्यते ॥१०॥
चिन्मात्रकादृते तस्माज्जडसर्गो न विद्यते ।
यदिदं दृश्यते किंचित्तच्चिद्धनमिवोत्थितम् ॥११॥
अहंभावजगच्छब्दशब्दार्थरसरञ्जनम् ।
कार्यं न कारणाभावात्पदार्थे तूपपद्यते ॥१२॥
द्वित्वैक्याद्यात्मकं व्योमपुष्पवत्स्वानुभूतितः ।
वस्तु नाशैकनिष्ठत्वान्न वा ज्ञमुपपद्यते ॥१३॥
उपलम्भकरो नाशो जन्मनस्तस्य वा कुतः ।
अथ चैनं सदा सन्तं नित्यं नष्टं च वेत्सि वा ॥१४॥
पदार्थौघं तदेवेत्थमेकरूपेऽपि किं व्यथा ।
उपलम्भस्तु यश्चायमेषा चित्तचमत्कृतिः ॥१५॥
चित्तत्त्वमात्रसत्तास्ति द्वित्वमैक्यं च नास्त्यलम् ।
अतः पदार्थसत्ताया अभावे सति भूपते ॥१६॥
असंभवाद्भावनस्य नाहंताभावनास्ति ते ।
अहंभावासंभवतश्चित्तमन्यत्किमुच्यते ॥१७॥
इति चित्तमहंरूपं नास्त्यतो न च भिन्नता ।
निर्वासनः शान्तमना मौनी परनभोमयः ॥१८॥
सदेहो वा विदेहो वा भावस्थोऽप्यचलोपमः ।
संबन्धाच्छुद्धचिद्दृष्टेः पदार्थाभावसिद्धितः ॥१९॥
भावनाभावतश्चित्ते नास्त्येवाहमिति स्वयम् ।
एवं ब्रह्मेति वेदार्थभावनादनुभूतितः ।
चेतितार्थैकसत्यत्वाच्चिन्ता नाम क्व विद्यते ॥२०॥
तेनासि निर्मलमकारणमादिमुक्तं
तद्ब्रह्म शाश्वतमशेषमनेकमेकम् ।
शून्यं निरामयमसत्सदनादिमध्यं
सर्वं जगच्चिदपि ब्रह्म यथास्थितं तत् ॥२१॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० चू० शिखिध्वजप्रबोधनं नाम सप्तनवतितमः सर्गः ॥९७॥

N/A

References : N/A
Last Updated : September 25, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP