निर्वाणप्रकरणं - सर्गः ७९
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
श्रीवसिष्ठ उवाच ।
दिनानुदिनमित्येषा स्वात्मारामतया तया ।
नित्यमन्तर्मुखतया बभूव प्रकृतिस्थिता ॥१॥
नीरागा निरुपासङ्गा निर्द्वन्द्वा निःसमीहिता ।
न जहाति न चादत्ते प्रकृताचारचारिणी ॥२॥
परितीर्णभवाम्भोधिः शान्तसंदेहजालिका ।
परमात्ममहालाभपरिपूर्णान्तरात्मना ॥३॥
विश्रान्ता सुचिरं श्रान्ता घनलब्धपदान्तरे ।
सर्वोपमातीततया जगामाव्यपदेश्यताम् ॥४॥
इति सा भामिनी तस्य चूडाला वरवर्णिनी ।
स्वल्पेनैव हि कालेन ययौ विदितवेद्यताम् ॥५॥
यथायमागतः कश्चिज्जागतः स्पन्दविभ्रमः ।
तथा विलीयते सर्वं तत्त्वज्ञानवति स्वयम् ॥६॥
अदृष्टसकले शान्ते पदे विश्रान्तिमेत्य सा ।
रराज शरदच्छाभ्रमालेव गतसंभ्रमा ॥७॥
अनाकुला समालोकमसंबन्धात्मनात्मनि ।
जरद्गवीव शैलाग्रं सतृणं प्राप्य संस्थिता ॥८॥
स्वविवेकघनाभ्यासवशादात्मोदयेन सा ।
शुशुभे शोभना पुष्पलतेवाभिनवोद्गता ॥९॥
अथ तामनवद्याङ्गीं कदाचित्स शिखिध्वजः ।
अपूर्वशोभामालोक्य स्मयमान उवाच ह ॥१०॥
भूयो यौवनयुक्तेव मण्डितेव पुनःपुनः ।
अधिकं राजसे तन्वि जगद्राजवती यथा ॥११॥
प्रपीतामृतसारेव लब्धा लभ्यपदेव च ।
आनन्दापूरपूर्णेव राजसे नितरां प्रिये ॥१२॥
उपशान्तं च कान्तं च दधाना सुन्दरं वपुः ।
अभिभूयेन्दुमायासि श्रियं कामपि कामिनि ॥१३॥
अभोगकृपणं शान्तमूर्जितं समतां गतम् ।
गम्भीरं च प्रशान्तं च चेतः पश्यामि ते प्रिये ॥१४॥
तृणीकृत्य त्रिभुवनं पीताखिलजगद्रसम् ।
अनन्तोड्डामरं सौम्यं मनः पश्यामि ते प्रिये ॥१५॥
न केनचिन्महाभागे विभवानन्दवस्तुना ।
चेतस्तव तुलामेति मरुक्षीराब्धिसुन्दरम् ॥१६॥
तैरेव बालकदलीमृणालाङ्कुरकोमलैः ।
अङ्गैः स्थितिमनुप्राप्तैर्वृद्धिं यातेव लक्ष्यसे ॥१७॥
तथा तेनैव तेनैव संनिवेशेन संस्थिता ।
अन्यतामुपयातासि लतेव ऋतुपर्यये ॥१८॥
किं त्वया पीतममृतं प्राप्तं साम्राज्यमेव वा ।
अमृत्युमेव संप्राप्ता प्रयोगायोगयुक्तितः ॥१९॥
राज्याच्चिन्तामणेर्वापि त्रैलोक्याद्वा त्वयाधिकम् ।
अप्राप्तं किमनुप्राप्तं नीलोत्पलविलोचने ॥२०॥
चूडालोवाच ।
नाकिंचित्किंचिदाकारमिदं त्यक्त्वाहमागता ।
नकिंचित्किंचिदाकारं तेनास्मि श्रीमती स्थिता ॥२१॥
इदं सर्वं परित्यज्य सर्वमन्यन्मयाश्रितम् ।
यत्तत्सत्यमसत्यं च तेनास्मि श्रीमती स्थिता ॥२२॥
यत्किंचिद्यन्न किंचिच्च तज्जानामि यथास्थितम् ।
यथोदयं यथानाशं तेनास्मि श्रीमती स्थिता ॥२३॥
भोगैरभुक्तैस्तुष्यामि भुक्तैरिव सुदूरगैः ।
न हृष्यामि न कुप्यामि तेनास्मि श्रीमती स्थिता ॥२४॥
एकैवाकाशसंकाशे केवले हृदये रमे ।
न रमे राजलीलासु तेनास्मि श्रीमती स्थिता ॥२५॥
आत्मन्येव हि तिष्ठामि ह्यासनोद्यानसद्मसु ।
न भोगेषु न लज्जासु तेनाहं श्रीमती स्थिता ॥२६॥
जगतां प्रभुरेवास्मि नकिंचिन्मात्ररूपिणी ।
इत्यात्मन्येव तुष्यामि तेनाहं श्रीमती स्थिता ॥२७॥
इदं चाहमिदं नाहं सत्या चाहं न चाप्यहम् ।
सर्वमस्मि न किंचिच्च तेनाहं श्रीमती स्थिता ॥२८॥
न सुखं प्रार्थये नार्थं नानर्थं नेतरां स्थितिम् ।
यथाप्राप्तेन हृष्यामि तेनाहं श्रीमती स्थिता ॥२९॥
तनुविद्वेषराजाभिः प्रज्ञाभिः शास्त्रदृष्टिभिः ।
रमे सह वयस्याभिस्तेनाहं श्रीमती स्थिता ॥३०॥
पश्यामि यन्नयनरश्मिभिरिन्द्रियैर्वा
चित्तेन चेह हि तदङ्ग नकिंचिदेव ।
पश्यामि तद्विरहितं तु नकिंचिदन्तः
पश्यामि सम्यगिति नाथ चिरोदयास्मि ॥३१॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० चू० चूडालात्मलाभो नामैकोनाशीतितमः सर्गः ॥७९॥
N/A
References : N/A
Last Updated : September 24, 2021
TOP