निर्वाणप्रकरणं - सर्गः ९०
योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ
शिखिध्वज उवाच ।
मणिसाधकविन्ध्येभबन्धनाद्यमरात्मज ।
सूचितं यत्कथाजालं पुनर्मे प्रकटीकुरु ॥१॥
चूडालोवाच ।
वाक्यार्थदृष्टेर्निष्पत्त्या हृद्गृहे चित्तभित्तिषु ।
शृणु स्वयं कथां चित्रां चित्रमुन्मीलयामि ते ॥२॥
योऽसौ शास्त्रार्थकुशलस्तत्त्वज्ञाने त्वपण्डितः ।
रत्नसंसाधकः प्रोक्तः स त्वमेव महीपते ॥३॥
तज्ज्ञो भवसि शास्त्रेषु रविर्मेरुतटेष्विव ।
तत्त्वज्ञाने तु विश्रान्तो न त्वं दृषदिवाम्भसि ॥४॥
विद्धि चिन्तामणिं साधो सर्वत्यागमकृत्रिमम् ।
तमन्तं सर्वदुःखानां त्वं साधयसि शुद्धधीः ॥५॥
सर्वत्यागेन शुद्धेन सर्वमासाद्यतेऽनघ ।
सर्वत्यागो हि साम्राज्यं किं चिन्तामणितो भवेत् ॥६॥
सिद्धः सर्वपरित्यागः साधो संसाध्यतस्तव ।
खर्वीकृतजगद्भूतिर्विद्यास्वात्मोदयस्तथा ॥७॥
संत्यक्तं भवता राज्यं सदारधनबान्धवम् ।
ब्रह्मणेव जगत्सर्गव्यापारः स्वनिशागमे ॥८॥
स्वदेशस्यातिदूरस्थमागतोऽसि ममाश्रमम् ।
भुवोऽन्तमिव विश्रान्त्यै वैनतेयः सकच्छपः ॥९॥
केवलं सर्वसंत्यागे शेषिताहंमतिस्त्वया ।
मृष्टाखिलकलङ्केन स्वसत्तेवानिलेन खे ॥१०॥
मनोमात्रे हृदस्त्यक्ते जगदायाति पूर्णताम् ।
त्यागात्यागविकल्पैस्त्वं खमम्भोदैरिवावृतः ॥११॥
नायं स परमानन्दः सर्वत्यागो महोदयः ।
कोऽप्युच्चैरन्य एवासौ चिरसाध्यो महानिति ॥१२॥
चिन्तयेति गते वृद्धिं संकल्पग्रहणे शनैः ।
वात्ययेव वनस्पन्दे त्यागः प्रोड्डीय ते गतः ॥१३॥
त्यागिता स्यात्कुतस्तस्य चिन्तामप्यावृणोति यः ।
पवनस्पन्दयुक्तस्य निःस्पन्दत्वं कुतस्तरोः ॥१४॥
चिन्तैव चित्तमित्याहुः संकल्पेतरनामकम् ।
तस्यामेव स्फुरन्त्यां तु चित्तं त्यक्तं कथं भवेत् ॥१५॥
चित्ते चिन्तागृहीते तु त्रिजगज्जालके क्षणात् ।
कथमासाद्यते साधो सर्वत्यागो निरञ्जनः ॥१५॥
संकल्पग्रहणेनान्तस्त्यागः प्रोड्डीय ते गतः ।
शब्दसंश्रवणेनाङ्ग यथा ग्रामविहंगमः ॥१७॥
निश्चिन्तत्वं परं सर्वं त्याग आदाय ते गतः ।
आमन्त्र्यापूजितो जन्तुः स दुःखं न करोति किम् ॥१८॥
सर्वत्यागमणावेवं गते कमललोचन ।
तपःकाचमणिर्दृष्टस्त्वया संकल्पचक्षुषा ॥१९॥
त्वया तस्मिंस्तपस्येव दुःखे दृष्टिभ्रमोदिते ।
ग्राह्यैकभावना बद्धा जलेन्दौ शशिनो यथा ॥२०॥
अवासनमनासक्त्या कृतानन्ता सवासना ।
आद्यन्तमध्यविषमा दुःखायैव तपःक्रिया ॥२१॥
अमितानन्दमुत्सृज्य सुसाध्यं यः प्रवर्तते ।
मिते वस्तुनि दुःसाध्ये स्वात्महा स शठः स्मृतः ॥२२॥
सर्वत्यागं समारभ्य न चैष साधितस्त्वया ।
तथा दुःखैकताज्ञानबद्धेन वनसद्मनि ॥२३॥
राज्यबन्धाद्विनिष्क्रम्य प्रसरदुःखपूरितात् ।
वनवासाभिधैः साधो बद्धोऽसि दृष्टबन्धनैः ॥२४॥
द्विगुणा एव ते चिन्ताः शीतवातातपादयः ।
बन्धनादधिकं मन्ये वनवासमजानताम् ॥२५॥
चिन्तामणिर्मया प्राप्त इत्यलं बुद्धवानसि ।
न लब्धवान्भवान्साधो स्फटिकस्यापि खण्डिकाम् ॥२६॥
इत्येतदङ्ग मणियत्नकथासमानं
सम्यङ्मया प्रकथितं तव पद्मनेत्र ।
तद्बोध्यमेवममलं स्वयमेव बुद्ध्वा
यद्वेत्सि तत्परिणतिं नय चित्तकोशे ॥२७॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षो० निर्वाण० पू० चू० चिन्तामणिसाधकवृत्तान्तविवरणं नाम नवतितमः सर्गः ॥९०॥
N/A
References : N/A
Last Updated : September 24, 2021
TOP