संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ३७ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ३७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ३७ Translation - भाषांतर ईश्वर उवाच ।इत्यादिकानां शब्दानामर्थश्रीः सत्यरूपिणि ।तस्मिन्सर्वेश्वरे सर्वसत्तामणिसमुद्गके ॥१॥का नाम विमलाभासास्तस्मिन्परमचिन्मणौ ।न कचन्ति विचिन्वन्ति विचित्राणि जगन्ति याः ॥२॥एषा बीजकणान्तस्था चित्सत्ता स्ववपुर्मयम् ।लब्ध्वा मृत्कालवार्यादि करोत्यङ्कुरमोदनम् ॥३॥फेनावर्तविवर्तान्तर्वर्तिनी रसरूपिणी ।कठिनेन्द्रियसंबन्धे करोति स्पन्दमम्भसाम् ॥४॥एषा कुसुमगुच्छेषु रसरूपेण संस्थिता ।कचति घ्राणरन्ध्रेषु करोति परिफुल्लताम् ॥५॥शिलाङ्गस्था शिलाङ्गाभामसतीं सत्यतापदम् ।सर्गाधारदशां धत्ते गिरीन्द्रः स्थितिलीलया ॥६॥पवनस्पन्दकोशात्मरूपिणीव त्वगिन्द्रियम् ।संसाधयत्यात्मसुतं पितेवात्मतयानया ॥७॥अशेषसारसंपिण्डमध्यात्मानं स्वसिद्धये ।भावयित्वा नकिंचित्त्वमिव खत्वं करोत्यलम् ॥८॥स्वसत्ताप्रतिबिम्बाभमाकाशमुकुरोदरे ।धत्ते कल्पनिमेषाङ्कं कालाख्यममलं वपुः ॥९॥आमहापञ्चमेशानं परिणाममया इमे ।इदमित्थमिदं नेति नियतिर्भवति स्वयम् ॥१०॥साक्षिणि स्फार आभासे गृहे दीप इव क्रियाः ।सत्ये तस्मिन्प्रकाशन्ते जगच्चित्रपरम्पराः ॥११॥परमाकाशनगरनाट्यमण्डपभूमिषु ।स्वशक्तिवृत्तं संसारं पश्यन्ती साक्षिवत्स्थिता ॥१२॥श्रीवसिष्ठ उवाच ।शिवस्यास्य जगन्नाथ शक्तयः काः कथं स्थिताः ।साक्षिता का च किं तासां वृत्तं स्यात्कियदेव तते ॥१३॥ईश्वर उवाच ।अप्रमेयस्य शान्तस्य शिवस्य परमात्मनः ।सौम्य चिन्मात्ररूपस्य सर्वस्यानाकृतेरपि ॥१४॥इच्छासत्ता व्योमसत्ता कालसत्ता तथैव च ।तथा नियतिसत्ता च महासत्ता च सुव्रत ॥१५॥ज्ञानशक्तिः क्रियाशक्तिः कर्तृताऽकर्तृतापि च ।इत्यादिकानां शक्तीनामन्तो नास्ति शिवात्मनः॥१६॥श्रीवसिष्ठ उवाच ।शक्तयः कुत एवैता बहुत्वं कथमासु च ।उदयश्च कथं देव भेदाभेदश्च कीदृशः ॥१७॥ईश्वर उवाच ।शिवस्यानन्तरूपस्य सैषा चिन्मात्रतात्मनः ।एषा हि शक्तिरित्युक्ता तस्माद्भिन्ना मनागपि ॥१८॥ज्ञत्वकर्तृत्वभोक्तृत्वसाक्षित्वादिविभावनात् ।शक्तयो विविधं रूपं धारयन्ति बहूदकम् ॥१९॥एवं जगति नृत्यन्ति ब्रह्माण्डे नृत्यमण्डपे ।कालेन नर्तकेनेव क्रमेण परिशिक्षिताः ॥२०॥यैषा परपराभासा सैषा नियतिरुच्यते ।क्रियाथ कृतिरिच्छा वा कालेत्यादिकृताभिधा ॥२१॥आमहारुद्रपर्यन्तमिदमित्थमिति स्थितेः ।आतृणापद्मजस्पन्दं नियमान्नियतिः स्मृता ॥२२॥नियतिर्नित्यमुद्वेगवर्जिताऽपरिमार्जिता ।एषा नृत्यति वै नृत्यं जगज्जालकनाटकम् ॥२३॥नानारसविलासाढ्यं विवर्ताभिनयान्वितम् ।कल्पक्षणहतानेकपुष्करावर्तघर्घरम् ॥२४॥सर्वर्तुकुसुमाकीर्णं धारागोलकमन्दिरम् ।भूयोभूयः पतद्वर्षभूरिस्वेदजलोत्करम् ॥२५॥पयोदपल्लवालोलनीलाम्बरकृतभ्रमम् ।पूर्णं संशुद्धसप्ताब्धिरत्नौघवलयाकुलम् ॥२६॥यामपक्षदिनप्रेक्षाकटाक्षोद्भासिताम्बरम् ।मज्जनोन्मज्जनव्यग्रकुलाद्रिकुलशेखरम् ॥२७॥भ्रमच्छशिमणिप्रोतगङ्गामुक्ताफलत्रयम् ।संदृष्टादृष्टसंध्याभ्रविलोलकरपल्लवम् ॥२८॥अनारतरणल्लोललोकालंकारकोमलम् ।भूरिभूतलपातालनभस्तलपदक्रमम् ॥२९॥मग्नोन्मग्नमहानेकताराघर्मकणोत्करम् ।चन्द्रार्ककुण्डलस्पन्दस्मितस्फुटनभोमुखम् ॥३०॥कल्पितानेकब्रह्माण्डकपाटकवितानकम् ।लुठल्लोकान्तरव्यूहध्वनन्मुक्ताङ्कपल्लवम् ।सुखदुःखदशादोषभावाभावरसान्तरम् ॥३१॥अस्मिन्विकारवलिते नियतेर्विलासेसंसारनाम्नि चिरनाटकनाट्यसारे ।साक्षी सदोदितवपुः परमेश्वरोऽय-मेकः स्थितो न च तया न च तेन भिन्नः ॥३२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे पू० नियतिनृत्यं नाम सप्तत्रिंशः सर्गः ॥३७॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP