संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ४७ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ४७ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ४७ Translation - भाषांतर श्रीवसिष्ठ उवाच ।चित्तत्त्वस्य फलस्येव चितः स्वापापरक्रमात् ।स्वसत्तासंनिवेशेन यः स सर्ग इति स्थितः ॥१॥देशकालक्रियादीनामपि तन्मयरूपतः ।इदमन्यदिदं चान्यदिति नात्रोपपद्यते ॥२॥समस्तशब्दशब्दार्थवासनाकलनाविदः ।एकात्मत्वादसच्चेदमिति संकथ्यते कथम् ॥३॥फलस्यान्तःसंनिवेशो नामानुक्रमतो यथा ।चितः स्वसत्ताघनताऽनाना नाना स्थिता तथा ॥४॥अनानैवापि नानैव क्षुब्धेवाक्षुभितैव च ।यथा फलान्तः स्वासत्ता चिदन्तः सिद्धयस्तथा ॥५॥जगन्नगरमादर्शे चितः स्वं प्रतिबिम्बितम् ।कचतीवाऽकचदपि शिलान्तःसंनिवेशवत् ॥६॥परमे चिन्मणौ सन्ति जगत्कोटिशतान्यपि ।चिन्तामणावनन्तानि फलानीवार्पितान्यलम् ॥७॥चित्समुद्गक एवेदं तदङ्गोत्कीर्णमाततम् ।जगन्मौक्तिकमाभाति तदंशमयमन्यवत् ॥८॥अहोरात्रं विकरयन्वेदनावेदनान्यलम् ।चिदादित्यः स्थितो भास्वाञ्जगद्द्रव्याणि दर्शयन् ॥९॥समुद्रकोटरावर्तपयःस्पन्दविलासवत् ।अनानैव च नाना चिच्छिलान्तःसंनिवेशवत् ॥१०॥यदस्ति तच्चिति शिलाशरीरे शालभञ्जिका ।यन्नास्ति तच्चिति शिलाशरीरे शालभञ्जिका ॥११॥भावाभावेषु यत्सत्यं चिन्मज्जाकल्पमेव तत् ।मज्जासारा पदार्थश्रीस्तन्मयं स्यात्तदेव हि ॥१२॥पद्मनानादिशब्दार्थस्त्यक्त्वा यद्वच्छिलोदरम् ।नाना तद्वदिदं नाना तदेतन्मयमद्वयम् ॥१३॥नानाप्येकतयाऽनाना पद्मबिम्बं शिलोदरम् ।यथा तदविभागात्म तथेदं चिद्धनान्तरम् ॥१४॥यथाऽमलपयःकोशः स्थलधियां तु भानुभाः ।सन्नेवासन्निवैवं चिन्नैव त्वं सदसद्वपुः ॥१५॥यथा सम्यक् पयोराशिः कोटरे कलनोन्मुखम् ।द्रवत्वात्स्पन्दतेऽस्पन्दं तथेदं चिद्धनान्तरम् ॥१६॥चिच्छिलाशङ्खपद्मौघस्तन्मयत्वेऽप्यतन्मयः ।जगद्विद्धि सपद्मादिपदार्थं चिच्छिलान्तरम् ॥१७॥महाशिलाघनोऽप्येष चिद्धनस्थं शिलोदरम् ।अरन्ध्रोनिर्द्वयोऽच्छोऽजः संशान्तःसंनिवेशवत् ॥१८॥तपतीदं जगद्ब्रह्म शरत्काल इवामलम् ।स्फुरतीदं जगद्ब्रह्म सौम्यः सोम इव द्रुतः ॥१९॥ब्रह्मणीदं सुषुप्ताभं नास्त्यनाशं शिलाब्जवत् ।ब्रह्मत्वं ब्रह्मणि यथा तथैवेदं जगत्स्थितम् ॥२०॥नानयोर्विद्यते मेदस्तरुपादपयोरिव ।यानीमानि जगन्तीह नान्यत्तानि चिदाकृतेः ॥२१॥भावाभावादि नास्त्येषां तस्या इव कदाचन ।ब्रह्मैव जगदाभासं मरुतापो यथा जलम् ॥२२॥ब्रह्मैवालोकनाच्छुद्धं भवत्यम्बु यथातपः ।मेर्वादेस्तृणगुल्मादेश्चित्तादेर्जगतोऽपि च ॥२३॥परमाम्बुविभागेन यद्रूपं तत्परं विदुः ।तत्समूहस्तदेवोच्चैश्चित्तं मेरुतृणादिकम् ॥२४॥यत्सौक्ष्म्येऽपि हि सारात्म स्थौल्ये सारतरं हि तत् ।यथा रसात्मिका शक्तिः परमाणुतयाऽनघ ॥२५॥स्थिता जगत्पदार्थेषु पायसी ब्रह्मता तथा ।रसशक्तिर्यथा नानातृणगुल्मलताम्भसाम् ॥२६॥तथा नानातयोदेति सैवासैवेव ब्रह्मता ।यैषा रूपविलासानामालोकपरमाणुता ॥२७॥गुणगुण्यर्थसत्तात्मरूपिण्यासां परात्मता ।चिति चित्तेऽस्ति मेर्वादि तदभिव्यञ्जनात्मनि ॥२८॥पिच्छपक्षौघकाठिन्यं मयूराण्डरसे यथा ।चिति तत्त्वेऽस्ति नानाता तदभिव्यञ्जनात्मनि ॥२९॥विचित्रपिच्छिकापुञ्जो मयूराण्डरसे यथा ।यथा नानात्मिके ह्येव बर्ह्यण्डरसबर्हिते ॥३०॥विवेकदृष्ट्या दृष्टे ते तथा ब्रह्म जगत्स्थितम् ।सनानातोऽप्यनानातो यथाऽण्डरसबर्हिणः ॥३१॥अद्वैतद्वैतसत्तात्मा तथा ब्रह्मजगद्भ्रमः ।यथा सदसतोः सत्ता समतायामवस्थितिः ॥३२॥यतः सदसतो रूपं भावस्थं विद्धि तं परम् ।नानाऽनानात्मकमिदं त्वनुभूतं नसंभवम् ॥३३॥चिज्जगद्वलनं पश्य बर्ह्यण्डे रसबर्हिणम् ।यथा जगति चित्तत्त्वं चित्तत्त्वे यज्जगत्तथा ।नानाऽनानात्मकैकं च मयूराण्डरसो यथा ॥३४॥नानापदार्थभ्रमपिच्छपूर्णाजगन्मयूराण्डरसश्चिदाद्या ।मयूररूपं त्वमयूरमन्तःसत्तापदं विद्धि कुतोऽस्ति भेदः ॥३५॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव० मोक्षो० निर्वाणप्रकरणे पूर्वार्धे चिद्धनोपदेशो नाम सप्तचत्वारिंशः सर्गः ॥४७॥ N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP