संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्| सर्गः ६४ निर्वाणप्रकरणस्य पूर्वार्धम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० सर्गः २१ सर्गः २२ सर्गः २३ सर्गः २४ सर्गः २५ सर्गः २६ सर्गः २७ सर्गः २८ सर्गः २९ सर्गः ३० सर्गः ३१ सर्गः ३२ सर्गः ३३ सर्गः ३४ सर्गः ३५ सर्गः ३६ सर्गः ३७ सर्गः ३८ सर्गः ३९ सर्गः ४० सर्गः ४१ सर्गः ४२ सर्गः ४३ सर्गः ४४ सर्गः ४५ सर्गः ४६ सर्गः ४७ सर्गः ४८ सर्गः ४९ सर्गः ५० सर्गः ५१ सर्गः ५२ सर्गः ५३ सर्गः ५४ सर्गः ५५ सर्गः ५६ सर्गः ५७ सर्गः ५८ सर्गः ५९ सर्गः ६० सर्गः ६१ सर्गः ६२ सर्गः ६३ सर्गः ६४ सर्गः ६५ सर्गः ६६ सर्गः ६७ सर्गः ६८ सर्गः ६९ सर्गः ७० सर्गः ७१ सर्गः ७२ सर्गः ७३ सर्गः ७४ सर्गः ७५ सर्गः ७६ सर्गः ७७ सर्गः ७८ सर्गः ७९ सर्गः ८० सर्गः ८१ सर्गः ८२ सर्गः ८३ सर्गः ८४ सर्गः ८५ सर्गः ८६ सर्गः ८७ सर्गः ८८ सर्गः ८९ सर्गः ९० सर्गः ९१ सर्गः ९२ सर्गः ९३ सर्गः ९४ सर्गः ९५ सर्गः ९६ सर्गः ९७ सर्गः ९८ सर्गः ९९ सर्गः १०० सर्गः १०१ सर्गः १०२ सर्गः १०३ सर्गः १०४ सर्गः १०५ सर्गः १०६ सर्गः १०७ सर्गः १०८ सर्गः १०९ सर्गः ११० सर्गः १११ सर्गः ११२ सर्गः ११३ सर्गः ११४ सर्गः ११५ सर्गः ११६ सर्गः ११७ सर्गः ११८ सर्गः ११९ सर्गः १२० सर्गः १२१ सर्गः १२२ सर्गः १२३ सर्गः १२४ सर्गः १२५ सर्गः १२६ सर्गः १२७ सर्गः १२८ निर्वाणप्रकरणं - सर्गः ६४ योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ Tags : sanskrityogavasisthaयोगवासिष्ठसंस्कृत सर्गः ६४ Translation - भाषांतर श्रीराम उवाच ।जीवटब्राह्मणादीनां हंसादीनां मुनीश्वर ।भिक्षुस्वप्नशरीराणां संपन्नं किमतः परम् ॥१॥श्रीवसिष्ठ उवाच ।रुद्रेण सह संभूय प्रबुद्धाः सर्व एव ते ।मिथश्च दृष्टसंसारा रुद्रांशाः सुखिनः स्थिताः ॥२॥तेन रुद्रेण तां मायामवलोक्य यथोदिताम् ।स्वांशास्तामेव संसारस्थितिं ते प्रेषिताः पुनः ॥३॥श्रीरुद्र उवाच ।गच्छताशु निजं स्थानं तत्र भुक्त्वा कलत्रकैः ।कंचित्कालं समं भोगान्मत्सकाशमुपैष्यथ ॥४॥भविष्यथ मदंशा ये गणा मत्पुरभूषणाः ।ततो महाप्रलयतो यास्यामस्तत्परं पदम् ॥५॥श्रीवसिष्ठ उवाच ।इत्युक्त्वा भगवान् रुद्रस्तेषां सोऽन्तरधीयत ।अन्त्यसंसारसंख्यानं रुद्राणां मध्यमाययौ ॥६॥प्रययुः स्वास्पदं तेऽपि जीवटब्राह्मणादयः ।स्वकलत्रैः समं देहं क्षपयित्वाथ कालतः १७॥रुद्रलोकं समासाद्य भविष्यन्ति गणोत्तमाः ।कदाचिद्व्योम्नि दृश्यन्ते तारकाकारकारिणः ॥८॥श्रीराम उवाच ।भिक्षुसंकल्परूपास्ते जीवटब्राह्मणादयः ।कथं सत्यत्वमायाताः संकल्पार्थे क्व सत्यता ॥९॥श्रीवसिष्ठ उवाच ।संकल्पसत्यता त्वंशे त्यज संकल्पसत्यताम् ।तत्र यन्नास्ति तन्नास्ति यतः सर्वात्म तत्पदम् ॥१०॥यत्स्वप्ने दृश्यते यच्च संकल्पैरवलोक्यते ।तत्तथा विद्यते तत्र सर्वकालं तदात्मकम् ॥११॥तद्देशकालात्मतया गत्वा देशान्तरं यथा ।देशाद्देशान्तरं यद्वन्न गत्यात्मादिकं विना ॥१२॥न लभ्यते तथा स्वप्नो विना तत्र न लभ्यते ।सर्वमस्ति चितः कोशे यद्यथालोकयत्यसौ ॥१३॥चित्तथा तदवाप्नोति सर्वात्मत्वादविक्षतम् ।संकल्पः स्वप्नकस्त्वङ्ग यया च दशयाप्यते ॥१४॥परमभ्यासयोगाभ्यां विना त्वेतन्न लभ्यते ।येषां तु योगविज्ञानदृष्टयः फलिताः स्थिताः ॥१५॥सर्वं सर्वत्र पश्यन्ति ते यतः शंकरादयः ।इदमग्रगतं वस्तु तथा संकल्पितं मया ॥१६॥नाप्यं यतोभयभ्रशं स प्राप्नोत्युभयाश्रयात् ।सर्वं ह्यभिमतं कार्यमेकनिष्ठस्य सिद्ध्यति ॥१७॥दक्षिणां ककुभं गच्छन्कः प्राप्नोत्युत्तरां दिशम् ।संकल्पार्थपरैरेव संकल्पार्थोऽवगम्यते ॥१८॥अग्रस्थार्थपरैरग्रे संस्थितोर्थोऽवगम्यते ।अग्रस्थे बुद्धिसंस्थे यः संकल्पं प्राप्तुमिच्छति ॥१९॥तदासावेकनिष्ठत्वाभावात्तन्नाशयेद्द्वयम् ।तस्मादेकार्थनिष्ठत्वाद्भिक्षुजीवेन रुद्रताम् ॥२०॥प्राप्य सर्वात्मना लब्धं तथा सर्वं तथास्थितेः ।भिक्षुसंकल्पजीवास्ते प्रत्येकं तज्जगत्पृथक् ॥२१॥पश्यन्ति चैते नान्योन्यं रुद्रज्ञानादृते ततः ।अप्रबुद्धाः प्रजायन्ते जीवा जीवान्तबोधिनः ॥२२॥तदिच्छयाशु तद्रूपा बहुरूपाश्च ते इह ।इह विद्याधरोऽहं स्यामहं स्यामिह पण्डितः ॥२३॥इत्येकध्यानसाफल्यं दृष्टान्तोऽस्यां क्रियास्थितौ ।एकत्वं च बहुत्वं च मौर्ख्यं पाण्डित्यमेव वा ॥२४॥देवत्वं मानुषत्वं च देशकालक्रियाक्रमैः ।तुल्यकालमलं कर्तुं धारणाध्यानयत्नतः ॥२५॥सर्वशक्त्यः स्वरूपत्वाज्जीवस्यास्त्येकशक्तिता ।अनन्तश्चान्तपृक्तश्च स्वभावोऽस्य स्वभावतः ॥२६॥सविकासः ससंकोचोऽहिंस्रस्तेन चिदात्मनः ।यदिच्छति तदस्याङ्ग जन्तुः संपद्यते स्वयम् ॥२७॥स्वयं संपादितैरेभिर्देशकालक्रियाक्रमैः ।योगिन्यो योगिनश्चेह तिष्ठन्त्यन्यत्र यत्र च ॥२८॥इह वामुत्र भोगेन दृष्टमेतदनेकशः ।कार्तवीर्यो गृहे तिष्ठन्सर्वेषां भयदोऽभवत् ॥२९॥विष्णुः क्षीरोदधौ तिष्ठन्जायते पुरुषो भुवि ।पश्वर्थं यान्ति तिष्ठन्त्यो योगिन्यो योगिनीगणे ॥३०॥शक्रः स्वर्गासने तिष्ठन्याति यज्ञार्थमुर्विकाम् ।सहस्रमेकं भवति तथा चास्मिञ्जनार्दनः ॥३१॥नृणां शतानि भक्तानां मानुष्यं याति तन्नतैः ।एकः सहस्रं भवति तथा चैष जनार्दनः ॥३२॥अंशावतारलीलाभिः कुरुते जागतीं स्थितिम् ।एकः कान्तासहस्राणि तुल्यकालं निमेषवत् ॥३३॥एवं ते भिक्षुसंकल्पा जीवटब्राह्मणादयः ।रुद्रविज्ञानवशतः स्वसंकल्पपुरीं गताः ॥३४॥तत्र भुक्त्वा चिरं भोगान्प्राप्य रुद्रपुरं ततः ।गणतामावसन्तस्ते स्थास्यन्ति सपरिच्छदाः ॥३५॥नित्यं प्रफुल्लनवकल्पलतालयेषुरुद्रेण साकमुरुरत्नगुलुच्छकेषु ।नानाजगत्सु च तदा शिवपत्तनेषुविद्याधरीष्वमरमौलिधराश्च रेजुः ॥३६॥इत्यार्षे श्रीवासिष्ठमहारामा० वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० गणत्वप्राप्तिर्नाम चतुःषष्टितमः सर्गः ॥६४॥स्वप्नशतरुद्रीयं समाप्तम् । N/A References : N/A Last Updated : September 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP