संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|निर्वाणप्रकरणस्य पूर्वार्धम्|
सर्गः १

निर्वाणप्रकरणं - सर्गः १

योगवाशिष्ठ महारामायण संस्कृत साहित्यामध्ये अद्वैत वेदान्त विषयावरील एक महत्वपूर्ण ग्रन्थ आहे. ह्याचे रचयिता आहेत - वशिष्ठ


श्रीवाल्मीकिरुवाच ।
उपशमप्रकरणादनन्तरमिदं श्रृणु ।
त्वं निर्वाणप्रकरणं ज्ञातं निर्वाणदायि यत् ॥१॥
कथयत्येवमुद्दामवचने मुनिनायके ।
श्रवणैकरसे मौनस्थिते राजकुमारके ॥२॥
मुनिवागर्थनिक्षिप्तमनस्यस्ततपःक्रिये ।
राजलोके गतस्पन्दे चित्रार्पित इव स्थिते ॥३॥
वसिष्ठवचसामर्थं विचारयति सादरम् ।
लसदङ्गुलिभङ्गेन मुनिसार्थे स्फुरद्भुवि ॥४॥
विस्मयालोकनोल्लासप्रोत्फुल्लनयनालिनि ।
पुरन्ध्रिवर्गे गम्भीरतरुमञ्जरितां गते ॥५॥
खे वासरचतुर्भागदेशे दिनकरे स्थिते ।
किंचिज्ज्ञानोदयात्सौम्ये किंचिच्छममुपेयुषि ॥६॥
श्रवणायेव संशान्ते वितानस्पन्दमालिते ।
मौनं मरुति मन्दारमधुरामोददायिनि ॥७॥
पुष्पदामसुषुप्तासु महाभ्रमरपंक्तिषु ।
ज्ञातज्ञेयतया नूनं सम्यग्ध्यानवतीष्विव ॥८॥
मुक्ताजालकलापान्तर्गतास्वन्तरभूमिषु ।
कचत्यपगतस्पन्दं तोये श्रोतुमिवास्थिते ॥९॥
गृहान्तरं प्रविष्टेषु गवाक्षे दूरमंशुषु ।
विश्रामार्थमिवादीर्घं नभःपान्थेषु शीतलम् ॥१०॥
मुक्ताजालप्रभाजालभस्मनोद्धूलितात्मनि ।
शंसतीव शमं शाम्यद्दिनदेहे दिवातपे ॥११॥
करे लीलासरोजेषु शेखरेषु च भूभृताम् ।
श्रुत्वा सुरसमामोदादवृत्तिषु मनस्स्विव ॥१२॥
बालकेष्वज्ञलोकेषु लीलापक्षिषु सादरम् ।
भोजनार्थं वधूलोकमुपरुन्धत्स्वनारतम् ॥१३॥
भ्रमद्भ्रमरपक्षोत्थवातधूतरजस्यलम् ।
कौमुदे परिविश्रान्ते चामरेष्वक्षिपक्ष्मसु ॥१४॥
रश्मिष्वगगुहोन्मुक्तच्छायाजालभयादिव ।
गवाक्षादिष्विवोड्डीय प्रविष्टेषु गृहान्तरम् ॥१५॥
आसीद्दिनचतुर्भागसत्तावेदनतत्परः ।
भेरीपटहशङ्खानां दिङ्मुखापूरको ध्वनिः ॥१६॥
तेन तत्तारमप्याशु वचोऽन्तर्धानमाययौ ।
मौनं जलदनादेन मायूर इव निस्वनः ॥१७॥
आक्षुब्धा क्षुब्धपक्षालिः पञ्जरस्था खगावली ।
भूकम्पे तरसाऽऽतालीपल्लवेव वनावली ॥१८॥
आययुर्भयवित्रस्ता बाला धात्रीकुचान्तरम् ।
सारवं प्रावृषीवाब्दाः प्रोन्नतं श्रृङ्गकोटरम् ॥१९॥
उत्तस्थुरवतंसेभ्यो भूभृतां भ्रमरस्रजः ।
ईषत्करालवाहाभ्यः सरिद्भ्योऽम्बुकणा इव ॥२०॥
एवं प्रक्षुभिते तस्मिन्गृहे दाशरथे तदा ।
प्राप्ते वासरवृद्धत्वे शान्तशङ्खस्वने शनैः ॥२१॥
संहरन्प्रस्तुतं वस्तु वचो मधुरवृत्तिमत् ।
उवाच मुनिशार्दूलः सभामध्ये रघूद्वहम् ॥२२॥
राघवानघ वाग्जालं मयैतत्प्रविसारितम् ।
तेन चित्तखगं बद्ध्वा क्रोडीकृत्यात्मतां नय ॥२३॥
कच्चिद्गृहीतो भवता मद्गिरामर्थ ईदृशः ।
त्यक्त्वा दुर्बोधमक्षीणो हंसेनेवाम्भसः पयः ॥२४॥
विचार्यैतदशेषेण स्वधियैवं पुनःपुनः ।
अनेनैव पथा साधो गन्तव्यं भवताधुना ॥२५॥
अनयैव धिया राम विहरन्नैव बध्यसे ।
अन्यथाधः पतस्याशु विन्ध्यखाते यथा गजः ॥२६॥
सुगृहीतं धिया राम मद्वचो न करोषि चेत् ।
तत्पतस्यवटे त्यक्तदीपो वान्धो निशास्विव ॥२७॥
असङ्गेन यथाप्राप्तो व्यवहारोऽस्य सिद्धये ।
इत्येव शास्त्रसिद्धान्तमादायोदारवान्भव ॥२८॥
हे सभ्या हे महाराज रामलक्ष्मणभूमिपाः ।
सर्व एव भवन्तोऽद्य तावद्व्यापारमाह्निकम् ॥२९॥
कुर्वन्त्वयं हि दिवसः प्रायः परिणताकृतिः ।
शेषं विचारयिष्यामो विचार्यं प्रातरागताः ॥३०॥
श्रीवाल्मीकिरुवाच ।
इत्युक्ता मुनिना तेन सा सर्वैव तदा सभा ।
प्रोत्तस्थौ पद्मवदना सविकासेव पद्मिनी ॥३१॥
राजानः स्तुतराजानः कृतराघववन्दनाः ।
परिष्टुते वसिष्ठे ते जग्मुरात्मनिवेशनम् ॥३२॥
विश्वामित्रेण सहितो वसिष्ठो गन्तुमाश्रमम् ।
उत्तस्थावासनाच्छ्रीमान्नमस्कृतनभश्चरः ॥३३॥
दशरथप्रभृतयो राजानो मुनयस्तथा ।
यथानुरूपं वक्तारमनुगम्य मुनिं चिरम् ॥३४॥
आपृच्छ्य केचिद्गगनं ययुः केचिद्वनान्तरम् ।
केचिद्राजगृहं सन्तो भृङ्गाः पद्मोत्थिता इव ॥३५॥
वसिष्ठपादयोस्त्यक्त्वा पुष्पाञ्जलिमनाविलम् ।
दारैरनुगतो राजा प्रविवेश गृहान्तरम् ॥३६॥
रामलक्ष्मणशत्रुघ्नाः प्राप्तस्य स्वाश्रमं गुरोः ।
अभ्यर्च्य चरणौ भक्त्या त्वाजग्मुर्नृपमन्दिरम् ॥३७॥
सदनानि समासाद्य श्रोतारः सर्व एव ते ।
सस्नुरानर्चुरभ्येयुर्देवान्विप्रान्पितृंस्तथा ॥३८॥
यथाक्रमं स्वभृत्यान्तैर्विप्राद्यैश्च परिच्छदैः ।
समं बुभुजिरे भोज्यं वर्णधर्मक्रमोदितम् ॥३९॥
अस्तं गते दिनकरे समं दिवसकर्मभिः ।
अभ्यागते रात्रिकरे समं रजनिकर्मभिः ॥४०॥
स्थित्वा तल्पेषु कौशेयशयनेष्वासनेषु च ।
भूचरा मुनिराजानो राजपुत्रा महर्षयः ॥४१॥
संसारोत्तरणोपायं वसिष्ठवदनेरितम् ।
यथावदेकाग्रधियश्चिन्तयामासुरादृताः ॥४२॥
ततः प्रहरमात्रेण निद्रामामुद्रिताननाः ।
उत्स्वप्नसुन्दरीमीयुः पद्मा इव दिनार्थिनः ॥४३॥
रामलक्ष्मणशत्रुघ्नाः प्रहरत्रयमेव तत् ।
वासिष्ठमुपदेशं ते चिन्तयामासुरक्षतम् ॥४४॥
प्रहरस्यार्धमात्रं ते तत आमुद्रितेक्षणाः ।
उत्स्वप्नमाययुर्निद्रां क्षणाद्विद्रावितश्रमाम् ॥४५॥
इति शुभमनसां विवेकभाजा-
मधिगतसारतयोदिताशयानाम् ।
अभजत विरतिं तदा त्रियामा
मलिननिशाकरवक्रतां जगाम ॥४६॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपायेषु निर्वाणप्रकरणे पूर्वार्धे दिवसव्यवहारवर्णनं नाम प्रथमः सर्गः ॥१॥

N/A

References : N/A
Last Updated : September 22, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP