संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| अष्टाविंशत्यधिकशततमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - अष्टाविंशत्यधिकशततमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण अष्टाविंशत्यधिकशततमोऽध्यायः Translation - भाषांतर द्वारकायां उत्सवः, उषसः अन्तःपुरे प्रवेशं सत्कारं च, श्रीकृष्णस्य विष्णुपर्वस्य च महिमा, पर्वस्य उपसंहारम्वैशम्पायन उवाचअथाहुको महाबाहुः कृष्णं प्राह महाद्युतिः ।हर्षादुत्फुल्लनयनः श्रूयतां यदुनन्दन ॥१॥एवं गतेऽनिरुद्धस्य क्रियतां महदुत्सवः ।क्षेमात् प्रत्यागतं दृष्ट्वा सेव्यमाना महामते ॥२॥उषापि च महाभागा सखीभिः परिवारिता ।रमते परया प्रीत्या चानिरुद्धेन संगता ॥३॥कुम्भाण्डदुहिता रामा उषायाः सखिमण्डले ।प्रवेश्यतां महाभागा वैदर्भी वर्द्धयेत् पुनः ॥४॥साम्बाय दीयतां रामा कुम्भाण्डदुहिता शुभा ।शेषाश्च कन्या न्यस्यन्तां कुमाराणां यथाक्रमम् ॥५॥वर्तते सोत्सवस्तत्र अनिरुद्धस्य वेश्मनि ।गृहे श्रीधन्वनश्चैव शुभस्तत्र प्रवर्तते ॥६॥वादयन्ति पुरे तत्र नार्यो मदवशं गताः ।नृत्यन्ते चाप्सरास्तत्र गायन्ति च तथापराः ॥७॥काश्चित् प्रमुदितास्तत्र काश्चिदन्योन्यमब्रुवन् ।नानावर्णाम्वरधराः क्रीडमानास्ततस्ततः ॥८॥अभियान्ति ततोऽन्योन्यं काश्चिन्मदवशात् स्वयम् ।क्रीडन्ति काश्चिदक्षैस्तु हर्षादुत्फुल्ललोचनाः ॥९॥मायूरं रथमारुह्य सखीभिः परिवारिता ।उषा सम्प्रेषिता देव्या रुद्राण्या प्रतिगृह्यताम् ॥१०॥इयं चैव कुलश्लाघ्या नाम्नोषा सुन्दरी वरा ।बाणपुत्री तव वधूः प्रतिगृह्णीष्व भामिनीम् ॥११॥ततः प्रतिगृहीता सा स्त्रीभिराचारमङ्गलैः ।प्रवेशिता च सा वेश्म अनिरुद्धस्य शोभना ॥१२॥देवकी रोहिणी चैव रुक्मिण्यथ विदर्भजा ।दृष्ट्वानिरुद्धं रोदन्त्यः स्नेहहर्षसमन्विताः ॥१३॥रेवती रुक्मिणी चैव गृहमुख्यं प्रवेशयत् ।वधूर्वर्धसि दिष्ट्या त्वमनिरुद्धस्य दर्शनात् ॥१४॥ततस्तूर्यप्रणादैस्ता वरनार्यः शुभाननाः ।क्रियामारेभिरे कर्तुमुषा च गृहसंस्थिता ॥१५ ।ततो हर्म्यतलस्था सा वृष्णिपुङ्गवसंस्थिता ।रमते सर्वसदृशैरुपभोगैर्वरानना ॥१६॥चित्रलेखा च सुश्रोणी अप्सरारूपधारिणी ।आपृच्छ्य च सखीवर्गमुषां च त्रिदिवं गता ॥१७॥गतासु तासु सर्वासु सखीष्वसुरसुन्दरी ।मायावत्या गृहं नीता प्रथमं सा निमन्त्रिता ॥१८॥सा तु प्रद्युम्नगृहिणी स्नुषा दृष्ट्वा सुमध्यमा ।वासोभिरन्नपानैश्च पूजयामास सुन्दरीम् ॥१९॥ततः क्रमेण सर्वास्ता वधूमूषां यदुस्त्रियः ।आचारमनुपश्यन्त्यः स्वधर्ममुपचक्रिरे ॥२०॥वैशम्पायन उवाचएतत् ते सर्वमाख्यातं मया कुरुकुलोद्वह ।यथा बाणो जितः संख्ये जीवन्मुक्तश्च विष्णुना ॥२१॥द्वारकायां ततः कृष्णो रेमे यदुगणैर्वृतः ।अन्वशासन्महीं कृत्स्नां परया संयुतो मुदा ॥२२॥एवमेषोऽवतीर्णो वै पृथिवीं पृथिवीपते ।विष्णुर्यदुकुलश्रेष्ठो वासुदेवेति विश्रुतः ॥२३॥एतैश्च कारणैः श्रीमान् वसुदेवकुले प्रभुः ।जातो वृष्णिषु देवक्यां यन्मां त्वं परिपृच्छसि ॥२४॥निवृत्ते नारदप्रश्ने यन्मयोक्तं समासतः ।श्रुतास्ते विस्तराः सर्वे ये पूर्वं जनमेजय ॥२५॥विष्णोस्तु माथुरे कल्पे यत्र ते संशयो महान् ।वासुदेवगतिश्चैव सा मया समुदाहृता ॥२६॥आश्चर्यं चैव नान्यद् वै कृष्णश्चाश्चर्यसंनिधिः ।सर्वेष्वाश्चर्यकल्पेषु नास्त्याश्चर्यमवैष्णवम् ॥२७॥एष धन्यो हि धन्यानां धन्यकृद् धन्यभावनः ।देवेषु तु सदैत्येषु नास्ति धन्यतरोऽच्युतात् ॥२८॥आदित्या वसवो रुद्रा अश्विनौ मरुतस्तथा ।गगनं भूर्दिशश्चैव सलिलं ज्योतिरेव च ॥२९॥एष धाता विधाता च संहर्ता चैव नित्यशः ।सत्यं धर्मस्तपश्चैव ब्रह्मा चैव पितामहः ॥३०॥अनन्तश्चैव नागानां रुद्राणां शंकरः स्मृतः ।जङ्गमाजङ्गमं चैव जगन्नारायणोद्भवम् ॥३१॥एतस्माच्च जगत् सर्वं प्रसूयेत जनार्दनात् ।जगच्च सर्वं देवेशे तं नमस्कुरु भारत ॥३२॥पूज्यश्च सततं सर्वैर्देवैरेष सनातनः ।इत्युक्तं बाणयुद्धं ते माहात्म्यं केशवस्य तु ॥३३॥वंशप्रतिष्ठामतुलां श्रवणादेव लप्स्यसे ।ये चेदं धारयिष्यन्ति बाणयुद्धमनुत्तमम् ॥३४॥केशवस्य च माहात्म्यं नाधर्मस्तान्भजिष्यति ।एषा तु वैष्णवी चर्या मया कार्त्स्न्येन कीर्तिता ॥३५॥पृच्छतस्तात यज्ञेऽस्मिन् निवृत्ते जनमेजय ।आश्चर्यपर्व निखिलं यो हीदं धारयेन्नृप ॥३६॥सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।कल्य उत्थाय यो नित्यं कीर्तयेत् सुसमाहितः ॥३७॥न तस्य दुर्लभं किंचिदिह लोके परत्र च ।ब्राह्मणः सर्ववेदी स्यात् क्षत्रियो विजयी भवेत् ॥३८॥वैश्यो धनसमृद्धः स्याच्छूद्रः कामानवाप्नुयात् ।नाशुभं प्राप्नुयात्किंचिद् दीर्घमायुर्लभेत सः ॥३९॥सौतिरुवाचइति पारीक्षितो राजा वैशम्पायनभाषितम् ।श्रुतवानचलो भूत्वा हरिवंशं द्विजोत्तमाः ॥४०॥एवं शौनक संक्षेपाद् विस्तरेण तथैव च ।प्रोक्ता वै सर्ववंशास्ते किं भूयः श्रोतुमिच्छसि ॥४१॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि उषाहरणसमाप्तौ अष्टाविंशत्यधिकशततमोऽध्यायः ॥१२८॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP