संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| सप्ततितमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - सप्ततितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण सप्ततितमोऽध्यायः Translation - भाषांतर श्रीकृष्णस्य गदाप्रहारस्य वार्त्तां श्रुत्वा कुपितस्य इन्द्रेण तस्य व्यवहारस्य कटुआलोचनम् एवं युद्धं विना पारिजातस्य अदानस्येव निश्चयम्वैशम्पायन उवाचदेवराजवचः श्रुत्वा नारदः कुरुनन्दन ।प्रोवाच वाक्यं वाक्यज्ञो धर्मात्मा धर्मवित्तमः ॥१॥अवश्यमेव वक्तव्यं हितं बलनिषूदन ।मया तव महाबाहो बहुमानोऽस्ति मे त्वयि ॥२॥उक्तो मया वासुदेवो जानता भवतो मतम् ।न दत्तः पारिजातोऽयं हरस्यापि त्वया पुरा ॥३॥हेतवश्च मया तस्य दर्शितास्ते समासतः ।न चावगतवान् देवः सत्यमेतद् ब्रवीमि ते ॥४॥उपेन्द्रोऽहं महेन्द्रेण लालनीयः सदेति माम् ।उवाच पुण्डरीकाक्षो दत्तमुत्तरमेव च ॥५॥पुनः पुनर्मया वास्य हेतवो देव दर्शिताः ।ततो न बुद्धिर्व्यावृत्ता वृत्रनाशन तस्य वै ॥६॥अपि चाप्युक्तवान् देवो वाक्यान्ते मधुसूदनः ।प्रत्याह पुरुषश्रेष्ठः सरोषमिव वासव ॥७॥न देवगन्धर्वगणा न राक्षसा न चासुरा नैव च यक्षपन्नगाः ।मम प्रतिज्ञामपहन्तुमुद्यता मुने समर्थाः खलु भद्रमस्तु ते ॥८॥स पारिजातं यदि न प्रदास्यति प्रयाच्यमानो भवतामरेश्वरः ।ततः शचीव्यामृदितानुलेपने गदां विमोक्ष्यामि पुरंदरोरसि ॥९॥उपेन्द्रस्य महेन्द्रायं भ्रातुस्ते निश्चयः परः ।यदत्र मन्यसे न्याय्यं सम्प्रधार्य कुरुष्व तत् ॥१०॥तत्त्वं हितं च देवेश श्रूयतां वदतो मम ।नयनं पारिजातस्य द्वारकां मम रोचते ॥११॥नारदेनैवमुक्तस्तु सुव्यक्तं बलदेहभित् ।रोषाविष्टः सहस्राक्षोऽब्रवीदेतन्तराधिप ॥१२॥अनागसि मयि ज्येष्ठे सोदरे यदि केशवः ।एवं प्रवृत्तः किं शक्यं कर्तुमद्य तपोधन ॥१३॥बहूनि प्रतिलोमानि पुरा स कृतवान् मयि ।कृष्णो नारद सोढानि भ्रातेति स्म मया सदा ॥१४॥खाण्डवे चार्जुनरथं पुरा वाहयता सता ।मदीया वारिता मेघाः शमयन्तोऽग्निमुद्धतम् ॥१५॥गोवर्धनं धारयता विप्रियं च कृतं मम ।तथा वृत्रवधे प्राप्ते साहाय्यार्थं वृतो मया ॥१६॥समोऽहमिति सर्वेषां भूतानामिति चोक्तवान् ।स्वबाहुबलमाश्रित्य वृत्रश्च निहतो मया ॥१७॥देवासुरेषु प्राप्तेषु संग्रामेषु च नारद ।युध्यत्यात्मेच्छया कृष्णो मुने सुविदितं तव ॥१८॥बहुनात्र किमुक्तेन तस्माद् दिष्ट्या प्रवर्तताम् ।ज्ञातिभेदो न नः कार्यः साक्षी त्वं मम नारद ॥१९॥ममोरसि गदां मोक्तुमुद्यतो यदि केशवः ।अनुशब्द्याथ पौलोमीं गुणः क इह दृश्यते ॥२०॥उदवासगतो धीमान् पिता नः कश्यपः प्रभुः ।अदित्या सह मे मात्रा तयोर्वाक्यमिदं भवेत् ॥२१॥अजितात्मा मम भ्राता रजसा तमसा वृतः ।कामेन च स्त्रियो बाक्यादेवं मामुक्तवान्गुरुम् ॥२२॥धिक्स्त्रियः सर्वथा विप्र धिग् राजसमितिं तथा ।यत्राधिक्षिप्तवान् विष्णुरेवं मां स्त्रीजितो द्विज ॥२३॥न दृष्टं कश्यपकुले व्यपदेश्यं महामुने ।नैव दक्षकुले दृष्टं मातुर्मे यत्र सम्भवः ॥२४॥न ज्येष्ठता न राजत्वं देवानां प्रतिमानितम् ।कामरागाभिभूतेन कृष्णेन खलु नारद ॥२५॥पुत्रदारसहस्रैर्हि भ्रातानघ विशिष्यते ।सद्वृत्तो ज्ञानसम्पन्न इति ब्रह्मा पुराब्रवीत् ॥२६॥नास्ति भ्रातृसमो वन्धुराहार्य इतरो जनः ।इति मामव्रवीन्माता पिता चैव प्रजापतिः ॥२७॥सोदरे तु विशेषं तु पिता मे कश्यपोऽब्रवीत् ।दृप्ता मया विरुद्धयन्ते दानवाः पापनिश्चयाः ॥२८॥काममेतन्न वक्तव्यं स्वयमात्मस्तवान्वितम् ।प्राप्तस्त्ववसरो विप्र यदिहाद्योच्यते मया ॥२९॥धनुर्ज्यायां मुनिश्रेष्ठ छिन्नायां हि पुरानघ ।धन्वीभिरमराणां च वरदानान्महामते ॥३०॥उत्कृत्तशिरसो विष्णोः पुरा देहो धृतो मया ।सन्धितं च शिरो यत्नाच्छिन्नं रौद्रेण तेजसा ॥३१॥अहं विशिष्टो देवानामित्युक्त्या पुनरच्युतः ।धनुरारोप्य दर्पेण स्थितो नारद केशवः ॥३२॥किं मां पिता वा माता वा वक्ष्यतीति मया मुने ।स्नेहेन च स्थितं विष्णोः शरीरं मुनिसत्तम ॥३३॥ऐन्द्रं वैष्णवमस्यैव मुने भागमहं ददौ ।यवीयांसमहं प्रेम्णा कृष्णं पश्यामि नारद ॥३४॥संग्रामेषु प्रहर्तव्यं तेन पूर्वं तपोधन ।राजा किलाहं समरे प्रहराम्यग्रतो धुवम् ॥३५॥प्रादुर्भावेषु सर्वेषु स्वशरीरमिवानघ ।यत्नाद् रक्षामि धर्मज्ञ केशवं भक्तिमाश्रितम् ॥३६॥इदं भङ्क्त्वा मदीयं च भुवनं विष्णुना कृतम् ।उपर्युपरि लोकानामधिकं भुवनं मुने ॥३७॥अवमानः स च मया पृष्ठतः क्रियते मुने ।लालनीयो मया बाल इत्येवं भ्रातृगौरवात् ॥३८॥बालोऽयं मम पुत्रेति यवीयानिति नारद ।पित्रा मात्रा च गोविन्दो मानी च परिभाषितः ॥३९॥इष्टस्तत्र जनानां च केशवः सुविशेषतः ।वयं द्वेष्या न संदेहस्तत्र स्नेहोऽतिरिच्यते ॥४०॥सर्वज्ञो बलवाञ्छ्ररः पात्रं मानयिता तथा ।केशवेत्येव च ध्यानं यत्तद्वितथतां गतम् ॥४१॥गच्छ नारद वक्तव्यः केशवो वचनान्मम ।आहूतो न निवर्तेयं समरं प्रति शत्रुभिः ॥४२॥यदीच्छसि तदागच्छ सह्यं ते यत्त्वमिच्छसि ।प्रहरस्व च पूर्वं त्वं भार्याजित यथेच्छसि ॥४३॥रथाङ्गेनाथ शार्ङ्गेण गदया नन्दकेन च ।प्रहरारुह्य गरुडं दृढो भूत्वा जनार्दन ॥४४॥प्रहृते प्रहरिष्यामि यथाशक्त्या च केशव ।अहो धिग् यदि मां स्नेहो विक्लवं न करिष्यति ॥४५॥यावन्न संग्रामगतो जितोऽहं चक्रपाणिना ।पारिजातं न दास्यामि तावद् भो मुनिसत्तम ॥४६॥मां समाह्वयते ज्येष्ठं यवीयान् स तपोधन ।अहो तं मर्षयिष्यामि किमर्थं स्त्रीजितं हरिम् ॥४७॥अद्यैव गच्छ भगवन् द्वारकां कृष्णपालिताम् ।विवादे संस्थितः सोऽज्ञ इति वाच्यस्त्वयाच्युतः॥४८॥पलाशपत्रार्द्धमपि त्वयाजितो न पारिजातस्य तव प्रदास्यति ।इति प्रवाच्यो मधुसूदनस्त्वया वचो मदीयं स्मरता तपोधन ॥४९॥पुनः प्रवाच्यो भगवंस्त्वयाच्युतो मम प्रियार्थं खलु निर्विशङ्कितम् ।न मायया हर्तुमिहार्हसि द्रुमं सुयुद्धमेवास्तु धिगस्तु जिह्मताम् ॥५०॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे इन्द्रवाक्ये सप्ततितमोऽध्यायः ॥७०॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP