संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| सप्तदशोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - सप्तदशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण सप्तदशोऽध्यायः Translation - भाषांतर श्रीकृष्णेन गिरियज्ञ एवं गोपूजनस्य प्रस्तावं, शरद् ऋतु वर्णनम्वैशम्पायन उवाचदामोदरवचः श्रुत्वा हृष्टास्ते गोषु जीविनः ।तद्वागमृतमासाद्य प्रत्यूचुरविशङ्कया ॥१॥तवैषा बाल महती गोपानां हितवर्द्धिनी ।प्रीणयत्येव नः सर्वान् बुद्धिर्वृद्धिकरी गवाम् ॥२॥त्वं गतिस्त्वं रतिश्चैव त्वं वेत्ता त्वं परायणम् ।भयेष्वभयदस्त्वं नस्त्वमेव सुहृदां सुहृत् ॥३॥त्वत्कृते कृष्ण घोषोऽयं क्षेमी मुदितगोकुलः ।कृत्स्नो वसति शान्तारिर्यथा स्वर्गं गतस्तथा ॥४॥जन्मप्रभृति कर्मैतद् देवैरसुकरं भुवि ।बोद्धव्याश्चाभिमानाच्च विस्मितानि मनांसि नः ॥५॥बलेन च परार्ध्येन यशसा विक्रमेण च ।उत्तमस्त्वं मनुष्येषु देवेष्विव पुरंदरः ॥६॥प्रतापेन च तीक्ष्णेन दीप्त्या पूर्णतयापि च ।उत्तमस्त्वं च मर्त्येषु देवेष्विव दिवाकरः ॥७॥कान्त्या लक्ष्म्या प्रसादेन वदनेन स्मितेन च ।उत्तमस्त्वं च मर्त्येषु देवेष्विव निशाकरः ॥८॥बलेन वपुषा चैव बाल्येन चरितेन च ।स्यात्ते शक्तिधरस्तुल्यो न तु कश्चन मानुषः ॥९॥यत् त्वयाभिहितं वाक्यं गिरियज्ञं प्रति प्रभो ।कस्तल्लङ्घयितुं शक्तो वेलामिव महोदधिः ॥१०॥स्थितः शक्रमहस्तात श्रीमान् गिरिमहस्त्वयम् ।त्वत्प्रणीतोऽद्य गोपानां गवां हेतोः प्रवर्त्यताम् ॥११॥भाजनान्युपकल्प्यन्तां पयसः पेशलानि च ।कुम्भाश्च विनिवेश्यन्तामुदपानेषु शोभनाः ॥१२॥पूर्यन्तां पयसा नद्यो द्रोण्यश्च विपुलायताः ।भक्ष्यं भोज्यं च पेयं च तत्सर्वमुपनीयताम् ॥१३॥भाजनानि च मांसस्य न्यस्यन्तामोदनस्य च ।त्रिरात्रं चैव संदोहः सर्वघोषस्य गृह्यताम् ॥१४॥विशस्यन्तां च पशवो भोज्या ये महिषादयः ।प्रवर्त्यतां च यज्ञोऽयं सर्वगोपसुसंकुलः ॥१५॥आनन्दजननो घोषो महान् मुदितगोकुलः ।तूर्यप्रणादघोषैश्च वृषभाणां च गर्जितैः ॥१६॥हम्भारवैश्च वत्सानां गोपानां हर्षवर्धनः ।दध्नो ह्रदो घृतावर्तः पयःकुल्यासमाकुलः ॥१७॥मांसराशिः प्रभूताढ्यः प्रकाशौदनपर्वतः ।सम्प्रावर्तत यज्ञोऽस्य गिरेर्गोभिः समाकुलः ।तुष्टगोपजनाकीर्णो गोपनारीमनोहरः ॥१८॥भक्ष्याणां राशयस्तत्र शतशश्चोपकल्पिताः ।गन्धमाल्यैश्च विविधैर्धूपैरुच्चावचैस्तथा ॥१९॥अथाधिशृतपर्यन्ते सम्प्राप्ते यज्ञसंविधौ ।यज्ञं गिरेस्तिथौ सौम्ये चक्रुर्गोपा द्विजैः सह ॥२०॥यजनान्ते तदन्नं तु तत् पयो दधि चोत्तमम् ।मांसं च मायया कृष्णो गिरिर्भूत्वा समश्नुते ॥२१॥तर्पिताश्चापि विप्राग्र्यास्तुष्टाः सम्पूर्णमानसाः ।उत्तस्थुः प्रीतमनसः स्वस्ति वाच्यं यथासुखम् ॥२२॥भुक्त्वा चावभृथे कृष्णः पयः पीत्वा च कामतः ।संतृप्तोऽस्मीति दिव्येन रूपेण प्रजहास वै ॥२३॥तं गोपाः पर्वताकारं दिव्यस्रगनुलेपनम् ।गिरिमूर्ध्नि स्थितं दृष्ट्वा कृष्णं जग्मुः प्रधानतः ॥२४॥भगवानपि तेनैव रूपेणाच्छादितः प्रभुः ।सहितैः प्रणतो गोपैर्ववन्दात्मानमात्मना ॥२५॥तमूचुर्विस्मिता गोपा देवं गिरिवरे स्थितम् ।भगवंस्त्वद्वशे युक्ता दासाः किं कुर्म किङ्कराः ॥२६॥स उवाच ततो गोपान् गिरिप्रभवया गिरा ।अद्यप्रभृति चेज्योऽहं गोषु यद्यस्तु वो दया ॥२७॥अहं वः प्रथमो देवः सर्वकामकरः शुभः ।मम प्रभावाश्च गवामयुतान्येव भोक्ष्यथ ॥२८॥शिवश्च वो भविष्यामि मद्भक्तानां वने वने ।रंस्ये च सह युष्माभिर्यथा दिविगतस्तथा ॥२९॥ये चेमे प्रथिता गोपा नन्दगोपपुरोगमाः ।एषां प्रीतः प्रयच्छामि गोपानां विपुलं धनम् ॥३०॥पर्याप्नुवन्तु क्षिप्रं मां गावो वत्ससमाकुलाः ।एवं मम परा प्रीतिर्भविष्यति न संशयः ॥३१॥क्तो नीराजनार्थं हि वृन्दशो गोकुलानि तम् ।परिवव्रुर्गिरिवरं सवृषाणि समन्ततः ॥३२॥ता गावः प्रद्रुता हृष्टाः सापीडस्तबकाङ्गदाः ।सस्रजापीडशृङ्गाग्राः शतशोऽथ सहस्रशः ॥३३॥अनुजग्मुश्च गोपालाः कालयन्तो धनानि च ।भक्तिच्छेदानुलिप्ताङ्गा रक्तपीतसिताम्बराः ॥३४॥मयूरचित्राङ्गदिनो भुजैः प्रहरणावृतैः ।मयूरपत्रवृन्तानां केशबन्धैः सुयोजितैः ॥३५॥बभ्राजुरधिकं गोपाः समवाये तदाद्भुते ।अन्ये वृषानारुरुहुर्नृत्यन्ति स्म परे मुदा ॥३६॥गोपालास्त्वपरे गाश्च जगृहुर्वेगगामिनः ।तस्मिन् पर्यायनिर्वृत्ते गवां नीराजनोत्सवे ॥३७॥अन्तर्धानं जगामाशु तेन देहेन सोऽचलः ।कृष्णोऽपि गोपसहितो विवेश व्रजमेव ह ॥३८॥गिरियज्ञप्रवृत्तेन तेनाश्चर्येण विस्मिताः ।गोपाः सबालवृद्धा वै तुष्टुवुर्मधुसूदनम् ॥३९॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि गिरियज्ञप्रवर्तने सप्तदशोऽध्यायः ॥१७॥ N/A References : N/A Last Updated : July 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP