संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
पञ्चषष्टितमोऽध्यायः

विष्णुपर्व - पञ्चषष्टितमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


रैवतके पर्वतोपरि रुक्मिण्याः व्रतोद्यापनोत्सवं, तस्मिन् पारिजातं दत्त्वा श्रीकृष्णेन रुक्मिण्याः सम्मानं, नारदेन रुक्मिण्याः सर्वाधिकस्य सौभाग्यस्य प्रशंसा एवं सत्यभामायाः कोपभवने प्रवेशम्

जनमेजय उवाच
प्रादुर्भावे मुनिश्रेष्ठ माथुरे चरितं शुभम् ।
शृण्वन्नैवाधिगच्छामि तृप्तिं कृष्णस्य धीमतः ॥१॥
द्वारकायां निवसतः कृतदारस्य षड्गुणम् ।
चरितं ब्रूहि कृष्णस्य सर्वं हि विदितं तव ॥२॥
वैशम्पायन उवाच
जनमेजय कृष्णस्य कृतदारस्य भारत ।
निबोध चरितं चित्रं तस्यैव सदृशं प्रभो ॥३॥
प्राप्तदारो महातेजा वासुदेवः प्रतापवान् ।
रुक्मिण्या सहितो देव्या ययौ रैवतकं नृप ॥४॥
डपवासावसानं हि रुक्मिण्याः प्रतिपूजयन् ।
तर्पयिष्यन् स्वयं विप्राञ्जगाम मधुसूदनः ॥५॥
कुमाराः प्रययुस्तत्र पुत्रभ्रातर एव च ।
प्रेषिता वासुदेवेन नारदस्याभ्यनुज्ञया ॥६॥
षोडश स्त्रीसहस्राणि जग्मुरेव च धीमतः ।
ऋद्धया परमया राजन् विष्णोरेवानुरूपया ॥७॥
ततस्तत्र द्विजातीनां कामान् प्रादादधोक्षजः ।
अर्थिनां धर्मनित्यानां बन्दिनामिष्टवादिनाम् ॥८॥
कल्याणनामगोत्राणां महतां पुण्यकर्मणाम् ।
यौनैः श्रौतैश्च माखैश्च शुद्धानां कुरुनन्दन ॥९॥
तर्पयित्वा द्विजान् कामैरिष्टैरिष्टः सतां गतिः ।
ज्ञातीन् संतर्पयामास यथार्हं भक्तवत्सलः ॥१०॥
उपवासावसानेऽथ भगवान् स विशेषतः ।
बहुमेने प्रियां भार्यां रुक्मिणीं भीष्मकात्मजाम् ॥११॥
वसतस्तस्य कृष्णस्य सदारस्यामितौजसः ।
सहासीनस्य रुक्मिण्या नारदोऽभ्याययौ मुनिः ॥१२॥
आगतं चाप्रमेयात्मा मुनिमिन्द्रानुजस्तदा ।
शास्त्रदृष्टेन विधिना अर्चयामास केशवः ॥१३॥
सोऽर्चितो वासुदेवेन मुनिरर्च्यतमः सताम् ।
पारिजाततरोः पुष्पं ददौ कृष्णाय भारत ॥१४॥
तद्वृक्षराजकुसुमं रुक्यिण्याः प्रददौ हरिः ।
पार्श्वस्था सा हि कृष्णस्य भोज्या नरवराभवत् ॥१५॥
प्रतिगृह्य तु तत् पुष्पं कामारणिरनिन्दिता ।
शिरस्यमलपत्राक्षी ददौ कृष्णेङ्गितानुगा ॥१६॥
त्रैलोक्यनृपसर्वस्वं नारायणमनोहरा ।
शुशुभे देवपुष्पेण द्विगुणं भैष्मकी तदा ॥१७॥
तां नारदस्तथोवाच मुनिर्ब्रह्मसुतस्तदा ।
तवैवौपयिकं पुष्पमेकं देवि पतिव्रते ॥१८॥
अलंकृतं पुष्पमेतत् संसर्गात् तव सर्वथा ।
अत्यर्हा च मता मे त्वमेतत्पुष्पाद् धृतव्रते ॥१९॥
कल्याणगुणसम्पन्ने सततं भर्तृवत्सले ।
अम्लानमेतत् सततं पुष्पं भवति कामिनि ॥२०॥
संवत्सरपरं कालं कालज्ञे गुणसम्मते ।
ईप्सितानपि गन्धांश्च ददाति वदतां वरे ॥२१॥
शीतोष्णे चेच्छिते देवि पुष्पमेतत् प्रयच्छति ।
स्रवत्यपि रसान्देवि मनसा काङ्क्षितान्वरान् ॥२२॥
सेव्यमानं च सौभाग्यं ददाति वरवर्णिनि ।
स्रवत्यपि तथा गन्धानीप्सितान्प्रीतिवर्द्धनान् ॥२३॥
यानि यानि च पुष्पाणि त्वं देव्यभिलषिष्यसि ।
कुसुमं वृक्षराजस्य तानि तानि प्रदास्यति ॥२४॥
एतदेव भगाधानं धर्मिष्ठे पुत्रदं तथा ।
मतिं च नाशुभे धत्ते धार्यमाणं सदा शुभे ॥२५॥
यद् यदिच्छसि वर्णं च तत्सर्वं धारयिष्यति ।
स्वल्पं वा यदि वा स्थूलं छन्दतस्ते भविष्यति ॥२६॥
अनिष्टगन्धहरणमेतत् सद्गन्धवर्द्धनम् ।
प्रदीपकर्म रात्रौ च करोति कमलेक्षणे ॥२७॥
संतानकस्रजो मालां पुष्पवस्त्रादि वाच्युतम् ।
पुष्पमण्डपमुख्यानि चिन्तितेन प्रदास्यति ॥२८॥
बुभुक्षा वा पिपासा वा ग्लानिर्वाप्यथवा जरा ।
देववद्धारयन्त्यास्ते स्वच्छन्देन भविष्यति ॥२९॥
अनुगीतानि गीतानि दास्यत्यपि च चिन्तिते ।
सुवादित्रान् सुमधुरांस्तथैव तव सम्मतान् ॥३०॥
पूर्णे संवत्सरे देवि पुष्पमेतत् तवान्तिकात् ।
निर्वर्त्स्यते तरुवरं समयेन प्रयास्यति ॥३१॥
कृतिरेषा हि भद्रं ते पारिजातस्य सुप्रभे ।
निसर्गतः सर्गकृता सत्कारार्थेऽसुरद्विषाम् ॥३२॥
उमा देववरस्येष्टा हिमालयसुता सती ।
धारयन्तीश्वरी नित्यं पुष्पाण्येतानि सुप्रभे ॥३३॥
अदितिश्च सपौलोमी महेन्द्रसुरतारणी ।
सावित्री देवमाता च श्रीश्च सर्वगुणोचिता ॥३४॥
देवपत्नयस्तथैवान्या देवाश्च वसुदेवताः ।
संवत्सरपरः कालः सर्वेषां न तु संशयः ॥३५॥
षोडशस्त्रीसहस्राणां मध्ये त्वं खलु वर्तसे ।
अद्येष्टां वासुदेवस्य वेद्मि त्वां भोजनन्दिनि ॥३६॥
सपत्न्यस्ते गुणोपेते सर्वाः सर्वेश्वरप्रिये ।
अवमानावसेकेन त्वया सिक्ताद्य भामिनि ॥३७॥
प्रकाशमद्य सौभाग्यमनिवार्यं यशश्च ते ।
मन्दारकुसुमं दत्तं यत् ते मधुनिघातिना ॥३८॥
अद्य सात्राजिती देवी ज्ञास्यते वरवर्णिनी ।
सौभाग्याख्यं सदा वेत्ति याऽऽत्मानं सुभगं सती ॥३९॥
साम्बमाता च गान्धारी भार्याश्चान्या महात्मनः ।
सौभाग्यार्थोद्यताकाङ्क्षामद्य मोक्ष्यन्ति निःस्पृहाः ॥४०॥
सौभाग्यैकरथो जैत्रस्तव देव्यद्य निःसृतः ।
मनोरथरथानां यः सहस्रैरपि दुर्जयः ॥४१॥
अद्याहमवगच्छामि सर्वथा सर्वशोभने ।
आत्मा द्वितीयः कृष्णस्य भोजे त्वमिति भाभिनि ॥४२॥
त्रैलोक्यरत्नसर्वस्वमददाद् यत् तवाच्युतः ।
जीवितातिशयस्तेन त्वया प्राप्तो हरिप्रिये ॥४३॥
नारदेनैवमुक्तं तु तथ्यं वाक्यं नराधिप ।
तत्रस्थाः शुश्रुवुः प्रेष्याः प्रेषिताः सत्यभामया ॥४४॥
देवीनां च तथान्यासां पत्नीनां च विशाम्पते ।
दृष्ट्वा ताः सविशेषं च नारदेनात्युदाहृतम् ॥४५॥
तच्च श्रुत्वा सुनिखिलं प्रेष्याभिः स्त्रीस्वभावतः ।
प्रकाशीकृतमेवासीद् विष्णोरन्तःपुरे तदा ॥४६॥
कर्णाकर्णि ततो देव्यः कौलीनमिव संघशः ।
मन्त्रयाञ्चक्रिरे हृष्टा रुक्मिण्यतिगुणोदयम् ॥४७॥
अर्हेति पुत्रमातेति ज्येष्ठेति च समागताः ।
प्रायेण प्रवदन्ति स्म हृष्टा दामोदरस्त्रियः ॥४८॥
ममृषे न सपत्न्यास्तु तत्सौभाग्यगुणोदयम् ।
सत्यभामा प्रिया नित्यं विष्णोरतुलतेजसः ॥४९॥
रूपयौवनसम्पन्ना स्वसौभाग्येन गर्विता ।
अभिमानवती देवी श्रुत्वैवेर्ष्यावशं गता ॥५०॥
समुत्सृजन्ती वसनं सकुंकुमं शुचिस्मिता शुक्लतमैकमंशुकम् ।
जग्राह रोषाकुलितेन चेतसा वह्नेस्तदा श्रीरिव वर्द्धितेन्धना ॥५१॥
दन्दह्यमाना ज्वलनेन वर्द्धता ईर्ष्यासमुत्थेन गतप्रभेव ।
क्रोधान्विता क्रोधगृहं विविक्तं विवेश तारेव घनं सतोयम् ॥५२॥
बद्ध्वा ललाटे हिमचन्द्रशुक्लं दुकूलपट्टं प्रियरोषचिह्नम् ।
पर्यन्तदेशं सरसेन देवी विलिप्य सा लोहितचन्दनेन ॥५३॥
संस्मृत्य संस्मृत्य शिरः सरोषं प्रकम्पमाना समुपोपविष्टा ।
दीर्घोपधाने शयनेऽपनीय विभूषणान्येव निबद्धवेणी ॥५४॥
अकारणार्थेन विकृष्यमाणा प्रेष्याजनस्याभिजनान्वितापि ।
विचूर्णयामास कुशेशयं सा निःश्वस्य निःश्वस्य नखैर्नतभ्रूः ॥५५॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे पञ्चषष्टिमोऽध्यायः ॥६५॥

N/A

References : N/A
Last Updated : July 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP