संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| एकोनविंशोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - एकोनविंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण एकोनविंशोऽध्यायः Translation - भाषांतर देवराजेन्द्रस्यागमनम्, श्रीकृष्णस्य गोविन्दपदे अभिषेकः, इन्द्रेण श्रीकृष्णं भावीकार्यं कथयित्वा अर्जुनस्य क्षेमाय बोधनम्, श्रीकृष्णेन तस्य स्वीकृतिःवैशम्पायन उवाचधृतं गोवर्द्धनं दृष्ट्वा परित्रातं च गोकुलम् ।कृष्णस्य दर्शनं शक्रो रोचयामास विस्मितः ॥१॥स निर्जलाम्बुदाकारं मत्तं मदजलोक्षितम् ।आरुह्यैरावतं नागमाजगाम महीतलम् ॥२॥स ददर्शोपविष्टं वै गोवर्द्धनशिलातले ।कृष्णमक्लिष्टकर्माणं पुरुहूतः पुरंदरः ॥३॥तं वीक्ष्य बालं महता तेजसा दीप्तमव्ययम् ।गोपवेषधरं विष्णुं प्रीतिं लेभे पुरंदरः ॥४॥तं सोऽम्बुजदलश्यामं कृष्णं श्रीवत्सलक्षणम् ।पर्याप्तनयनः शक्रः सर्वैर्नेत्रैरुदैक्षत ॥५॥दृष्ट्वा चैनं श्रिया जुष्टं मर्त्यलोकेऽमरोपमम् ।सूपविष्टं शिलापृष्ठे शक्रः स व्रीडितोऽभवत् ॥६॥तस्योपविष्टस्य मुखं पक्षाभ्यां पक्षिपुङ्गवः ।अन्तर्द्धानं गतश्छायां चकारोरगभोजनः ॥७॥तं विविक्ते वनगतं लोकवृत्तान्ततत्परम् ।उपतस्थे गजं हित्वा कृष्णं बलनिषूदनः ॥८॥स समीपगतस्तस्य दिव्यस्रगनुलेपनः ।रराज देवराजो वै वज्रपूर्णकरः प्रभुः ॥९॥किरीटेनार्कतुल्येन विद्युदुदद्योतकारिणा ।कुण्डलाभ्यां स दिव्याभ्यां सततं शोभिताननः ॥१०॥पञ्चस्तबकलम्बेन हारेणोरसि भूषितः ।सहस्रपत्रकान्तेन देहभूषणकारिणा ।ईक्षमाणः सहस्रेण नेत्राणां कामरूपिणाम् ॥११॥त्रिदशाज्ञापनार्थेन मेघनिर्घोषकारिणा ।अथ दिव्येन मधुरं व्याजहार स्वरेण तम् ॥१२॥इन्द्र उवाचकृष्ण कृष्ण महाबाहो ज्ञातीनां नन्दिवर्द्धन ।अतिदिव्यं कृतं कर्म त्वया प्रीतिमता गवाम् ॥१३॥मयोत्सृष्टेषु मेघेषु युगान्तावर्तकारिषु ।यत्त्वया रक्षिता गावस्तेनास्मि परितोषितः ॥१४॥स्वायम्भुवेन योगेन यश्चायं पर्वतोत्तमः ।धृतो वेश्मवदाकाशे को ह्येतेन न विस्मयेत् ॥१५॥प्रतिषिद्धे मम महे मयेयं रुषितेन वै ।अतिवृष्टिः कृता कृष्ण गवां वै साप्तरात्रिकी ॥१६॥सा त्वया प्रतिषिद्धेयं मेघवृष्टिर्दुरासदा ।देवैः सदानवगणैर्दुर्निवार्या मयि स्थिते ॥१७॥अहो मे सुप्रियं कृष्ण यत् त्वं मानुषदेहवान् ।समग्रं वैष्णवं तेजो विनिगूहसि रोषितः ॥१८॥साधितं देवतानां हि मन्येऽहं कार्यमव्ययम् ॥त्वयि मानुष्यमापन्ने युक्ते चैव स्वतेजसा ॥१९॥सेत्स्यते सर्वकार्यार्थो न किंचित् परिहास्यते ।देवानां यद् भवान् नेता सर्वकार्यपुरोगमः ॥२०॥एकस्त्वमसि देवानां लोकानां च सनातनः ।द्वितीयं नात्र पश्यामि यस्तेषां च धुरं वहेत् ॥२१॥यथा हि पुङ्गवः श्रेष्ठो ह्यग्रे धुरि नियोज्यते ।एवं त्वमसि देवानां मग्नानां द्विजवाहनः ॥२२॥त्वच्छरीरगतं कृष्ण जगत्प्रकरणं त्विदम् ।ब्रह्मणा साधु निर्दिष्टं धातुभ्य इव काञ्चनम् ॥२३॥स्वयं स्वयम्भूर्भगवान् बुद्ध्याथ वयसापि वा ।न त्वानुगन्तुं शक्नोति पङ्गुर्द्रुतगतिं यथा ॥२४॥स्थाणुभ्यो हिमवाञ्छ्रेष्ठो ह्रदानां वरुणालयः ।गरुत्मान् पक्षिणां श्रेष्ठो देवानां च भवान् वरः ॥२५॥अपामधस्ताल्लोको वै तस्योपरि महीधराः ।नागानामुपरिष्टाद् भूः पृथिव्युपरि मानुषाः ॥२६॥मनुष्यलोकादूर्ध्वं तु खगानां गतिरुच्यते ।आकाशस्योपरि रविर्द्वारं स्वर्गस्य भानुमान् ॥२७॥देवलोकः परस्तस्माद् विमानगमनो महान् ।यत्राहं कृष्ण देवानामैन्द्रे विनिहितः पदं ॥२८॥स्वर्गादूर्ध्वं ब्रह्मलोको ब्रह्मर्षिगणसेवितः ।तत्र सोमगतिश्चैव ज्योतिषां च महात्मनाम् ॥२९॥तस्योपरि गवां लोकः साध्यास्तं पालयन्ति हि ।स हि सर्वगतः कृष्ण महाकाशगतो महान् ॥३०॥उपर्युपरि तत्रापि गतिस्तव तपोमयी ।यां न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् ॥३१॥लोकस्त्वधो दुष्कृतिनां नागलोकस्तु दारुणः ।पृथिवी कर्मशीलानां क्षेत्रं सर्वस्य कर्मणः ॥३२॥खमस्थिराणां विषयो वायुना तुल्यवृत्तिनाम् ।गतिः शमदमाख्यानां स्वर्गः सुकृतकर्मणाम् ॥३३॥ब्राह्मे तपसि युक्तानां ब्रह्मलोकः परा गतिः ।गवामेव तु गोलोको दुरारोहा हि सा गतिः ॥३४॥स तु लोकस्त्वया कृष्ण सीदमानः कृतात्मना ।धृतो धृतिमता वीर निघ्नतोपद्रवान् गवाम् ॥३५॥तदहं समनुप्राप्तो गवां वाक्येन चोदितः ।ब्रह्मणश्च महाभाग गौरवात् तव चागतः ॥३६॥अहं भूतपतिः कृष्ण देवराजः पुरंदरः ।अदितेर्गर्भपर्याये पूर्वजस्ते पुराकृतः ॥३७॥स्वतेजस्तेजसा चैव यत् ते दर्शितवानहम् ।देवरूपेण तत् सर्वं क्षन्तुमर्हसि मे विभो ॥३८॥एवं क्षान्तमनाः कृष्ण स्वेन सौम्येन तेजसा ।ब्रह्मणः शृणु मे वाक्यं गवां च गजविक्रम ॥३९॥आह त्वां भगवान् ब्रह्मा गावश्चाकाशगा दिवि ।कर्मभिस्तोषिता दिव्यैस्तव संरक्षणादिभिः ॥४०॥भवता रक्षिता गावो गोलोकश्च महानयम् ।यद् वयं पुङ्गवैः सार्द्धं वर्द्धामः प्रसवैस्तथा ॥४१॥कर्षकान् पुङ्गवैर्बाह्यैर्मेध्येन हविषा सुरान् ।श्रियं शकृत्प्रवृत्तेन तर्पयिष्याम कामदाः ॥४२॥तदस्माकं गुरुस्त्वं हि प्राणदश्च महाबलः ।अद्यप्रभृति नो राजा त्वमिन्द्रो वै भव प्रभो ॥४३॥तस्मात्त्वं काञ्चनैः पूर्णैर्दिव्यस्य पयसो घटैः ।एभिरद्याभिषिञ्चस्व मया हस्तावनामितैः ॥४४॥अहं किलेन्द्रो देवानां त्वं गवामिन्द्रतां गतः ।गोविन्द इति लोकास्त्वां स्तोष्यन्ति भुवि शाश्वतम् ॥४५॥ममोपरि यथेन्द्रस्त्वं स्थापितो गोभिरीश्वरः ।उपेन्द्र इति कृष्ण त्वां गास्यन्ति दिवि देवताः ॥४६॥ये चेमे वार्षिका मासाश्चत्वारो विहिता मम ।एषामर्द्धं प्रयच्छामि शरत्कालं तु पश्चिमम् ॥४७॥अद्यप्रभृति मासौ द्वौ ज्ञास्यन्ति मम मानवाः ।वर्षार्द्धे च ध्वजो मह्यं ततः पूजामवाप्स्यसि ।ममाम्बुप्रभवं दर्पं तदा त्यक्ष्यन्ति बर्हिणः ॥४८॥अल्पवाचो गतमदा ये चान्ये मेघनादिनः ।शान्तिं सर्वे गमिष्यन्ति मम कालविचारिणः ॥४९॥त्रिशङ्क्वगस्त्यचरितामाशां च प्रचरिष्यति ।सहस्ररश्मिरादित्यस्तापयन् स्वेन तेजसा ॥५०॥ततः शरदि युक्तायां मौनकामेषु बर्हिषु ।याचमाने खगे तोयं विप्लुतेषु प्लवेषु च ॥५१॥हंससारसपूर्णेषु नदीनां पुलिनेषु च ।मत्तक्रौञ्चप्रणादेषु प्रमत्तवृषभेषु च ॥५२॥गोषु चैव प्रहृष्टासु क्षरन्तीषु पयो बहु ।निवृत्तेषु च मेघेषु निर्यात्य जगतो जलम् ॥५३॥आकाशे शस्त्रसंकाशे हंसेषु च चरत्सु च ।जातपद्मेषु तोयेषु वापीषु च सरस्सु च ॥५४॥तडागेषु च कान्तेषु तोयेषु विमलेषु च ।कलमावनताग्रासु कृष्णकेदारपङ्क्तिषु ॥५५॥मध्यस्थं सलिलारम्भं कुर्वन्तीषु नदीषु च ।सुसस्यायां च सीमायां मनोहर्यां मुनेरपि ॥५६॥पृथिव्यां पृथुराष्ट्रायां रम्यायां वर्षसंक्षये ।श्रीमत्सु पंक्तिमार्गेषु फलवत्सु तृणेषु च ।इक्षुमत्सु च देशेषु प्रवृत्तेषु मखेषु च ॥५७॥ततः प्रवर्त्यते पुण्या शरत् सुप्तोत्थिते त्वयि ।लोकेऽस्मिन् कृष्ण निखिले यथैव त्रिदिवे तथा ॥५८॥नरास्त्वां चैव मां चैव ध्वजाकारासु यष्टिषु ।महेन्द्रं चाप्युपेन्द्रं च महयन्ति महीतले ॥५९॥ये चावयोः स्थिरे वृत्ते महेन्द्रोपेन्द्रसंज्ञिते ।मानवाः प्रणमिष्यन्ति तेषां नास्त्यनयागमः ॥६०॥ततः शक्रस्तु तान् गृह्य घटान् दिव्यपयोधरान् ।अभिषेकेण गोविन्दं योजयामास योगवित् ॥६१॥दृष्ट्वा तमभिषिक्तं तु गावस्ताः सह यूथपैः ।स्तनैः प्रस्रवयुक्तैश्च सिषिचुः कृष्णमव्ययम् ॥६२॥मेघाश्च दिवि युक्ताभिः सामृताभिः समन्ततः ।सिषिचुस्तोयधाराभिरभिषिच्य तमव्ययम् ॥६३॥वनस्पतीनां सर्वेशं सुस्रावेन्दुनिभं पयः ।ववर्षुः पुष्पवर्षं च नेदुस्तूर्याणि चाम्बरे ॥६४॥अस्तुवन् मुनयः सर्वे वाग्भिर्मन्त्रपरायणाः ।एकार्णवे विविक्तं च दधार वसुधा वपुः ॥६५॥प्रसादं सागरा जग्मुर्ववुर्वाता जगद्धिताः ।मार्गस्थोऽपि बभौ भानुश्चन्द्रो नक्षत्रसंयुतः ॥६६॥ईतयः प्रशमं जग्मुनिर्वैररचना नृपाः ।प्रवालपत्रशबलाः पुष्पवन्तश्च पादपाः ॥६७॥मदं प्रसुस्रुवुर्नागा यातास्तोषं वने मृगाः ।अलंकृता गात्ररुहैर्धातुभिर्भान्ति पर्वताः ॥६८॥देवलोकोपमो लोकस्तृप्तोऽमृतरसैरिव ।आसीत्कृष्णाभिषेको हि दिव्यस्वर्गरसोक्षितः ॥६९॥अभिषिक्तं तु तं गोभिः शक्रो गोविन्दमव्ययम् ।दिव्यमाल्याम्बरधरं देवदेवोऽब्रवीदिदम् ॥७०॥एष ते प्रथमः कृष्ण नियोगो गोषु यः कृतः ।श्रूयतामपरं कृष्ण ममागमनकारणम् ॥७१॥क्षिप्रं प्रसाध्यतां कंसः केशी च तुरगाधमः ।अरिष्टश्च मदाविष्टो राजराज्यं ततः कुरु ॥७२॥पितृष्वसरि जातस्ते ममांशोऽहमिव स्थितः ।स ते रक्ष्यश्च मान्यश्च सख्ये च विनियुज्यताम् ॥७३॥त्वया ह्यनुगृहीतः स तव वृत्तानुवर्तकः ।त्वद्वशे वर्तमानश्च प्राप्स्यते विपुलं यशः ॥७४॥भारतस्य च वंशस्य स वरिष्ठो धनुर्धरः ।भविष्यत्यनुरूपश्च त्वदृते न च रंस्यते ॥७५॥भारतं त्वयि चायत्तं तस्मिंश्च पुरुषोत्तमे ।उभाभ्यामपि संयोगे यास्यन्ति निधनं नृपाः ॥७६॥प्रतिज्ञातं मया कृष्ण ऋषिमध्ये सुरेषु च ।मया पुत्रोऽर्जुनो नाम सृष्टः कुन्त्यां कुलोद्वहः ॥७७॥सोऽस्त्राणां पारतत्त्वज्ञः श्रेष्ठश्चापविकर्षणे ।तं प्रवेक्ष्यन्ति वै सर्वे राजानः शस्त्रयोधिनः ॥७८॥अक्षौहिणीस्तु शूराणां राज्ञां संग्रामशालिनाम् ।स एकः क्षत्रधर्मेण योजयिष्यति मृत्युना ॥७६॥तस्यास्त्रचरितं मार्गं धनुषो लाघवेन च ।नानुयास्यन्ति राजानो देवा वा त्वां विना प्रभो ॥८०॥स ते बन्धुः सहायश्च संग्रामेषु भविष्यति ।तस्य योगो विधातव्यस्त्वया गोविन्द मत्कृते ॥८१॥द्रष्टव्यश्च यथाहं वै त्वया मान्यश्च नित्यशः ।ज्ञाता त्वमेव लोकानामर्जुनस्य च नित्यशः ॥८२॥त्वया च नित्यं संरक्ष्य आहवेषु महत्सु सः ।रक्षितस्य त्वया तस्य न मृत्युः प्रभविष्यति ॥८३॥अर्जुनं विद्धि मां कृष्ण मां चैवात्मानमात्मना ।आत्मा तेऽहं यथा शश्वत् तथैव तव सोऽर्जुनः ॥८४॥त्वया लोकानिमाञ्जित्वा बलेर्हस्तात् त्रिभिः क्रमैः ।देवतानां कृतो राजा पुरा ज्येष्ठक्रमादहम् ॥८५॥त्वां च सत्यमयं ज्ञात्वा सत्येष्टं सत्यविक्रमम् ।सत्वेनोपेत्य देवा वै योजयन्ति रिपुक्षये ॥८६॥सोऽर्जुनो नाम मे पुत्रः पितुस्ते भगिनीसुतः ।इह सौहार्दमायातु भूत्वा सहचरस्तव ॥८७॥तस्य ते युध्यतः कृष्ण स्वस्थानेऽपि गृहेऽपि वा ।वोढव्या पुङ्गवेनेव धूः सदा रणमूर्धनि ॥८८॥कंसे विनिहते कृष्ण त्वया भाव्यर्थदर्शिना ।अभितस्तन्महद् युद्धं भविष्यति महीक्षिताम् ॥८९॥तत्र तेषां नृवीराणामतिमानुषकर्मणाम् ।विजयस्यार्जुनो भोक्ता यशसा त्वं च योक्ष्यसे ॥९०॥एतन्मे कृष्ण कार्त्स्न्येन कर्तुमर्हसि भाषितम् ।यद्यहं ते सुराश्चैव सत्यं च प्रियमच्युत ॥९१॥शक्रस्य वचनं श्रुत्वा कृष्णो गोविन्दतां गतः ।प्रीतेन मनसा युक्तः प्रतिवाक्यं जगाद ह ॥९२॥प्रीतोऽस्मि दर्शनाद् देव तव शक्र शचीपते ।यत् त्वयाभिहितं चेदं न किंचित्परिहास्यते ॥९३॥जानामि भवतो भावं जानाम्यर्जुनसम्भवम् ।जाने पितृष्वसारं च पाण्डोर्दत्तां महात्मनः ॥९४॥युधिष्ठिरं च जानामि कुमारं धर्मनिर्मितम् ।भीमसेनं च जानामि वायोः संतानजं सुतम् ॥९५॥अश्विभ्यां साधु जानामि सृष्टं पुत्रद्वयं शुभम् ।नकुलं सहदेवं च माद्रीकुक्षिगतावुभौ ॥९६॥कानीनं चापि जानामि सवितुः प्रथमं सुतम् ।पितृष्वसरि कर्णं वै प्रसूतं सूततां गतम् ॥९७॥धार्तराष्ट्राश्च मे सर्वे विदिता युद्धकाङ्क्षिणः ।पाण्डोरुपरमं चैव शापाशनिनिपातजम् ॥९८॥तद्गच्छ त्रिदिवं शक्र सुखाय त्रिदिवौकसाम् ।नाजुनस्य रिपुः कश्चिन्ममाग्रे प्रभविष्यति ॥९९॥अर्जुनार्थे च तान्सर्वान्पाण्डवानक्षतान्युधि ।कुन्त्या निर्यातयिष्यामि निवृत्ते भारते मृधे ॥१००॥यच्च वक्ष्यति मां शक्र तनूजस्तव सोऽर्जुनः ।भृत्यवत्तत् करिष्यामि तव स्नेहेन यन्त्रितः ॥१०१॥सत्यसंधस्य तच्छ्रुत्वा प्रियं प्रीतस्य भाषितम् ।कृष्णस्य साक्षात् त्रिदिवं जगाम त्रिदशेश्वरः॥१०२॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि गोविन्दाभिषेके एकोनविंशोऽध्यायः ॥१९॥ N/A References : N/A Last Updated : July 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP