संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| द्विनवतितमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - द्विनवतितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण द्विनवतितमोऽध्यायः Translation - भाषांतर हंसानां वज्रपुरे निवासः, हंस्या प्रभावतीं प्रद्युम्नस्य प्रति अनुरक्तकरणं, प्रभावत्या हंस्यां प्रद्युम्नस्य प्राप्तिकरणस्य अनुरोधं, हंस्याः वज्रनाभेन सह संवादं, हंसानां मुखतः सर्वं समाचारं श्रुत्वा श्रीकृष्णेन नटवेषे प्रद्युम्नादि यादवानां वज्रपुरे प्रेषणम्वैशम्पायन उवाचते वासववचः श्रुत्वा हंसा वज्रपुरं ययुः ।पूर्वोचितं हि गमनं तेषां तत्र जनाधिप ॥१॥ते दीर्घिका सु रम्यासु निपेतुर्वीर पक्षिणः ।पद्मोत्पलैरावृतासु काञ्चनैः स्पर्शनक्षमैः ॥२॥ते वै नदन्तो मधुरं संस्कृतापूर्वभाषिणः ।पूर्वमप्यागतास्ते तु विस्मयं जनयन्ति हि ॥३॥अन्तःपुरोपभोग्यासु चेरुर्वापीषु ते नृप ।दृष्टास्ते वज्रनाभस्य त्रिविष्टपनिवासिनः ॥४॥आलपन्तः सुमधुरं धार्तराष्ट्रा जनेश्वर ।स तानुवाच दैतेयो धार्तराष्ट्रानिदं वचः ॥५॥त्रिविष्टपे नित्यरता भवन्तश्चारुभाषिणः ।यदैवेहोन्सवोऽस्माकं भवद्भिरवगम्यते ॥६॥आगन्तव्यं जालपादाः स्वमिदं भवतां गृहम् ।विस्रब्धं च प्रवेष्टव्यं त्रिविष्टपनिवासिभिः ॥७॥ते तथोक्ताः शकुनयो वज्रनाभेन भारत ।तथेत्युक्त्वा हि विविशुर्दानवेन्द्रनिवेशनम् ॥८॥चक्रुः परिचयं ते च देवकार्यव्यपेक्षया ।मानुषालापिनस्ते तु कथाश्चक्रुः पृथग्विधाः ॥९॥वंशबद्धाः काश्यपानां सर्वकल्याणभागिनाम् ।स्त्रियो रेमुर्विशेषेण शृण्वन्त्यः सङ्गताः कथाः ॥१०॥विचरन्तस्ततो हंसा ददृशुश्चारुहासिनीम् ।प्रभावतीं वरारोहां वज्रनाभसुतां तदा ॥११॥हंसाः परिचितां चक्रुस्तां ततश्चारुहासिनीम् ।सखीं शुचिमुखीं चक्रे हंसीं राजसुता तदा ॥१२॥सा तां कचित्पप्रच्छ वज्रनाभसुतां सखीम् ।विश्रम्भितां पृथक्सूक्तैराख्यानकशतैर्वराम् ॥१३॥त्रैलोक्यसुन्दरीं वेद्मि त्वामहं हि प्रभावति ।रूपशीलगुणैर्देवि किंचित् त्वां वक्तुमुत्सहे ॥१४॥व्यतिक्रामति ते भीरु यौवनं चारुहासिनि ।यदतीतं पुनर्नैति गतं स्रोत इवाम्भसः ॥१५॥कामोपभोगतुल्या हि रतिर्देवि न विद्यते ।स्त्रीणां जगति कल्याणि सत्यमेतद् ब्रवीमि ते ॥१६॥स्वयंवरे च न्यस्ता त्वं पित्रा सर्वाङ्गशोभने ।न च कांश्चिद् वरयसे देवासुरकुलोद्भवान् ॥१७॥व्रीडिता यान्ति सुश्रोणि प्रत्याख्यातास्त्वया शुभे ।रूपशौर्यगुणैर्युक्तान् सदृशांस्त्वं कुलस्य हि ॥१८॥इहैष्यति किमर्थं त्वां प्रद्युम्नो रुक्मिणीसुतः ॥१९॥त्रैलोक्ये यस्य रूपेण सदृशो न कुलेन वा ।गुणैर्वा चारुसर्वाङ्गि शौर्येणाप्यति वा शुभे ॥२०॥देवेषु देवः सुश्रोणि दानवेषु च दानवः ।मानुषेष्वपि धर्मात्मा मनुष्यः स महाबलः ॥२१॥यं सदा देवि दृष्ट्वा हि स्रवन्ति जघनानि हि ।आपीनानीव धेनूनां स्रोतांसि सरितामिव ॥२२॥न पूर्णचन्द्रेण मुखं नयने वा कुशेशयैः ।उत्सहे नोपमातुं हि मृगेन्द्रेणाथ वा गतिम् ॥२३॥जगतः सारमुद्धृत्य पुत्रः स विहितः शुभे ।कृत्यानङ्गं वरे साङ्गं विष्णुना प्रभविष्णुना ॥२४॥हृतेन शम्बरो बाल्ये येन पापो निबर्हितः ।मायाश्च सर्वाः सम्प्राप्ता न च शीलं विनाशितम्॥२५॥यान्यान्गुणान्पृथुश्रोणि मनसा कल्पयिष्यसि ।एष्टव्यास्त्रिषु लोकेषु प्रद्युम्ने सर्व एव ते ॥२६॥रुच्या वह्निप्रतीकाशः क्षमया पृथिवीसमः ।तेजसा सूर्यसदृशो गाम्भीर्येण ह्रदोपमः ।प्रभावतीं शुचिमुखीं त्वितीहोवाच भामिनी ॥२७॥प्रभावत्युवाचविष्णुर्मानुषलोकस्थः श्रुतः सुबहुशो मया ।पितुः कथयतः सौम्ये नारदस्य च धीमतः ॥२८॥शत्रुः किल स दैत्यानां वर्जनीयः सदानघे ।कुलानि किल दैत्यानां तेन दग्धानि मानिनि ॥२९॥प्रदीप्तेन रथाङ्गेन शार्ङ्गेण गदया तथा ।शाखानगरदेशेषु वसन्ति किल येऽसुराः ॥३०॥इत्येते दानवेन्द्रेण संदिश्यन्ते हि तं प्रति ।मनोरथो हि सर्वासां स्त्रीणामेव शुचिस्मिते ॥३१॥भवेद्धि मे पतिकुलं श्रेष्ठं पितृकुलादिति ।यदि नामाभ्युपायः स्यात् तस्येहागमनं प्रति ॥३२॥महाननुग्रहो मे स्यात्कुलं स्यात्पावितं च मे ।समर्थनां मे पृष्टा त्वं प्रयच्छ शुचिलापिनि ॥३३॥प्रद्युम्नः स्याद्यथा भर्ता स मे वृष्णिकुलोद्भवः ।अत्यन्तवैरी दैत्यानामुद्वेजनकरो हरिः ॥३४॥असुराणां स्त्रियो वृद्धाः कथयन्त्यो मया श्रुताः ।प्रद्युम्नस्य तथा जन्म पुरस्तादपि मे श्रुतम् ॥३५ ।यथा च तेन निहतो बलवान् कालशम्बरः ।हृदि मे वर्तते नित्यं प्रद्युम्नः खलु सत्तमे ॥३६॥हेतुः स नास्ति स्यात् तेन यथा मम समागमः ।दासी तवाहं सख्यार्हे दूत्ये त्वां च विसर्जये ॥३७॥पण्डितासि वदोपायं मम तस्य च संगमे ।ततस्तां सान्त्वयित्वा सा प्रहसन्तीदमब्रवीत् ॥३८॥शुचिमुख्युवाचतत्र दूती गमिष्यामि तवाहं चारुहासिनि ।इमां भक्तिं तवोदारां प्रवक्ष्यामि शुचिस्मिते ॥३९॥तथा चैव करिष्यामि यथैष्यति तवान्तिकम् ।साक्षात्कामेन सुश्रोणि भविष्यति सकामिनी ॥४०॥इति मे भाषितं नित्यं स्मरेथाः शुचिलोचने ।कथाकुशलतां पित्रे कथयस्वायतेक्षणे ॥४१॥मम त्वं तत्र मे देवि हितं सम्यक् प्रपत्स्यसे ।इत्युक्ता सा तथा चक्रे यत्तत् सा तामथाब्रवीत्॥४२॥दानवेन्द्रश्च तां हंसीं पप्रच्छान्तःपुरे तदा ।प्रभावत्या समाख्याता कथाकुशलता तव ॥४३॥तत्त्वं शुचिमुखि ब्रूहि कथां योग्यतया वरे ।किं त्वया दृष्टमाश्चर्यं जगत्युत्तमपक्षिणि ॥४४॥अदृष्टपूर्वमन्यैर्वा योग्यायोग्यमनिन्दिते ।सोवाच वज्रनाभं तु हंसी नरवरोत्तम ॥४५॥श्रूयतामित्यथामन्त्र्य दानवेन्द्रं महाद्युतिम् ।दृष्टा मे शाण्डिली नाम साध्वी दानवसत्तम ।आश्चर्यं कर्म कुर्वन्ती मेरुपार्श्वे मनस्विनी ॥४६॥सुमनाश्चैव कौशल्या सर्वभूतहिते रता ।कथंचिद् वरशाण्डिल्याः शैलपुत्र्याः शुभा सखी॥४७॥नटश्चैव मया दृष्टो मुनिदत्तवरः शुभः ।कामरूपी च भोज्यश्च त्रैलोक्ये नित्यसम्मतः ॥४८॥कुरून् यात्युत्तरान् वीर कालाम्रद्वीपमेव च ।भद्राश्वान् केतुमालांश्च द्वीपानन्यांस्तथानघ ॥४९॥देवगन्धर्वगेयानि नृत्यानि विविधानि च ।स वेत्ति देवान् नृत्येन विस्मापयति सर्वथा ॥५०॥वज्रनाभ उवाचश्रुतमेतन्मया हंसि न चिरादिव विस्तरम् ।चारणानां कथयतां सिद्धानां च महात्मनाम् ॥५१॥कुतूहलं ममाप्यस्ति सर्वथा पक्षिनन्दिनि ।नटे दत्तवरे तस्मिन् संस्तवस्तु न विद्यते ॥५२॥हंस्युवाचसप्तद्वीपान् विचरति नटः स दितिजोत्तम ।गुणवन्तं जनं श्रुत्वा गुणकार्यः स सर्वथा ॥५३॥तव चेच्छृणुयाद् वीर सद्भूतं गुणविस्तरम् ।नटं तदागतं विद्धि पुरं तव महासुर ॥५४॥वज्रनाभ उवाचउपायः सृजतां हंसि येनेह स नटः शुभे ।आगच्छेन्मम भद्रं ते विषयं पक्षिनन्दिनि ॥५५॥ते हंसा वज्रनाभेन कार्यहेतोर्विसर्जिताः ।देवेन्द्रायाथ कृष्णाय शशंसुः सर्वमेव तत् ॥५६॥अधोक्षजेन प्रद्युम्नो नियुक्तस्तत्र कर्मणि ।प्रभावत्याश्च संसर्गे वज्रनाभवधे तथा ॥५७॥दैवीं मायां समाश्रित्य संविधाय हरिर्नटम् ।नटवेषेण भैमानां प्रेषयामास भारत ॥५८॥प्रद्युम्नं नायकं कृत्वा साम्बं कृत्वा विदूषकम् ।पारिपार्श्वे गदं वीरमन्यान् भैमांस्तथैव च ॥५९॥वारमुख्या नटीः कृत्वा तत्तूर्यसदृशास्तदा ।तथैव भद्रं भद्रस्य सहायांश्च तथाविधान् ॥६०॥प्रद्युम्नविहितं रम्यं विमानं ते महारथाः ।जग्मुरारुह्य कार्यार्थं देवानाममितौजसाम् ॥६१॥एकैकस्य समा रूपे पुरुषाः पुरुषस्य ते ।स्त्रीणां च सदृशाः सर्वे ते स्वरूपैर्नराधिपाः ॥६२॥ते वज्रनगरस्याथ शाखानगरमुत्तमम् ।जग्मुर्दानवसंकीर्णं सुपुरं नाम नामतः ॥६३॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वज्रनाभप्रद्युम्नादिगमने द्विनवतितमोऽध्यायः ॥९२॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP