संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| पञ्चमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - पञ्चमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण पञ्चमोऽध्यायः Translation - भाषांतर वसुदेवेन नन्दाय व्रजे प्रत्यागमनस्य सम्मतिः, नन्दस्य गोव्रजस्य शोभायाः अवलोकनम् तत्रागमनम् च ।वैशम्पायन उवाचप्रागेव वसुदेवस्तु व्रजे शुश्राव रोहिणीम् ।प्रज्ञातां पुत्रमेवाग्रे चन्द्रात् कान्ततराननम् ॥१॥स नन्दगोपं त्वरितः प्रोवाच शुभया गिरा ।गच्छानया सहैव त्वं व्रजमेव यशोदया ॥२॥तत्र तौ दारकौ गत्वा जातकर्मादिभिर्गुणैः ।योजयित्वा व्रजे तात संवर्धय यथासुखम् ॥३॥रौहिणेयं च पुत्रं मे परिरक्ष शिशुं व्रजे ।अहं वाच्यो भविष्यामि पितृपक्षेषु पुत्रिणाम् ॥४॥योऽहमेकस्य पुत्रस्य न पश्यामि शिशोर्मुखम् ।ह्रियते हि बलात्प्रज्ञा प्राज्ञस्यापि सतो मम ॥५॥अस्माद्धि मे भयं कंसान्निर्घृणाद् वै शिशोर्वधे ।तद्यथा रौहिणेयं त्वं नन्दगोप ममात्मजम् ॥६॥गोपायसि यथा तात तत्त्वान्वेषी तथा कुरु ।विघ्ना हि बहवो लोके बालानुत्त्रासयन्ति हि ॥७॥स च पुत्रो मम ज्यायान् कनीयांश्च तथाप्ययम् ।उभावपि समं नाम्ना निरीक्षस्व यथासुखम् ॥८॥वर्धमानामुभावेतौ समानवयसौ यथा ।शोभेतां गोव्रजे तस्मिन् नन्दगोप तथा कुरु ॥९॥बाल्ये केलिकिलः सर्वो बाल्ये मुह्यति मानवः ।बाल्ये चण्डतमः सर्वस्तत्र यत्नपरो भव ॥१०॥न च वृन्दावने कार्यो गवां घोषः कथंचन ।भेतव्यं तत्र वसतः केशिनः पापदर्शिनः ॥११॥सरीसृपेभ्यः कीटेभ्यः शकुनिभ्यस्तथैव च ।गोष्ठेषु गोभ्यो वत्सेभ्यो रक्ष्यौ ते द्वाविमौ शिशू ॥१२॥नन्दगोप गता रात्रिः शीघ्रयानो व्रजाशुगः ।इमे त्वां व्याहरन्तीव पक्षिणः सव्यदक्षिणाः ॥१३॥रहस्यं वसुदेवेन सोऽनुज्ञातो महात्मना ।यानं यशोदया सार्धमारुरोह मुदान्वितः ॥१४॥कुमारस्कन्धवाह्यायां शिबिकायां समाहितः ।संवेशयामास शिशुं शयनीयं महामतिः ॥१५॥जगाम च विविक्तेन शीतलानिलसर्पिणा ।बहूदकेन मार्गेण यमुनातीरगामिना ॥१६॥स ददर्श शुभे देशे गोवर्धनसमीपगे ।यमुनातीरसम्बद्धं शीतमारुतसेवितम् ॥१७॥विरुतश्वापदै रम्यं लतावल्लीमहाद्रुमम् ।गोभिस्तृणविलग्नाभिः स्यन्दन्तीभिरलंकृतम् ॥१८॥समप्रचारं च गवां समतीर्थजलाशयम् ।वृषाणां स्कन्धघातैश्च विषाणोद्घृष्टपादपम् ॥१९॥भासामिषादानुसृतैः श्येनैश्चामिषगृध्नुभिः ।सृगालमृगसिंहैश्च वसामेदाशिभिर्वृतम् ॥२०॥शार्दूलशब्दाभिरुतं नानापक्षिसमाकुलम् ।स्वादुवृक्षफलं रम्यं पर्याप्ततृणवीरुधम् ॥२१॥गोव्रजं गोरुतं रम्यं गोपनारीभिरावृतम् ।हम्भारवैश्च वत्सानां सर्वतः कृतनिःस्वनम् ॥२२॥शकटावर्तविपुलं कण्टकीवाटसंकुलम् ।पर्यन्तेष्वावृतं वन्यैर्बृहद्भिः पतितैर्द्रुमैः ॥२३॥वत्सानां रोपितैः कीलैर्दामभिश्च विभूषितम् ।करीषाकीर्णवसुधं कटच्छन्नकुटीमठम् ॥२४॥क्षेम्यप्रचारबहुलं हृष्टपुष्टजनावृतम् ।दामनीपाशबहुलं गर्गरोद्गारनिःस्वुनम् ॥२५॥तक्रनिःस्रावबहुलं दधिमण्डार्द्रमृत्तिकम् ।मन्थानवलयोद्गारैर्गोपीनां जनितस्वनम् ॥२६॥काकपक्षधरैर्बालैर्गोपालक्रीडनाकुलम् ।सार्गलद्वारगोवाटं मध्ये गोस्थानसंकुलम् ॥२७॥सर्पिषा पच्यमानेन सुरभीकृतमारुतम् ।नीलपीताम्बराभिश्च तरुणीभिरलंकृतम् ॥२८॥वन्यपुष्पावतंसाभिर्गोपकन्याभिरावृतम् ।शिरोभिर्धृतकुम्भाभिर्बद्धैरग्रस्तनाम्बरैः ॥२९॥यमुनातीरमार्गेण जलहारीभिरावृतम् ।स तत्र प्रविशन् हृष्टो गोव्रजं गोपनादितम् ॥३०॥प्रत्युद्गतो गोपवृद्धैः स्त्रीभिर्वृद्धाभिरेव च ।निवेशं रोचयामास परिवर्ते सुखाश्रये ॥३१॥सा यत्र रोहिणी देवी वसुदेवसुखावहा ।तत्र तं बालसूर्याभं कृष्णं गूढं न्यवेशयत् ॥३२॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि गोव्रजगमनं नाम पञ्चमोऽध्यायः ॥५॥ N/A References : N/A Last Updated : July 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP