संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
षड्विंशोऽध्यायः

विष्णुपर्व - षड्विंशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


अकूरस्य गोपेभ्यः कंसस्यादेशस्य ख्यापनं, वसुदेवदेवक्योः दयनीयां दशां कथयित्वा श्रीकृष्णबलरामाभ्यां मथुरागमने प्रेरणम्, मार्गे अक्रूरेण यमुनाजले आश्चर्यमयस्य नागलोकस्य एवं भगवतः अनन्तस्य एवं तस्य अङ्के श्रीकृष्णस्य दर्शनम्
वैशम्पायन उवाच
स नन्दगोपस्य गृहं प्रविष्टः सह केशवः ।
गोपवृद्धान् समानीय प्रोवाचामितदक्षिणः ॥१॥
कृष्णं चैवाब्रवीत् प्रीत्या रौहिणेयेन सङ्गतम् ।
श्वः पुरीं मथुरां तात गमिष्यामः सुखाय वै ॥२॥
यास्यन्ति च व्रजाः सर्वे गोपालाः सपरिग्रहाः ।
कंसाज्ञया समुचितं करमादाय वार्षिकम् ॥३॥
समृद्धस्तत्र कंसस्य भविष्यति धनुर्महः ।
तं द्रक्ष्यथ समृद्धं च स्वजनैश्च समेष्यथ ॥४॥
पितरं वसुदेवं च सततं दुःखभाजनम् ।
दीनं पुत्रवधश्रान्तं युवामद्य समेष्यथः ॥५॥
सततं पीड्यमानं च कंसेनाशुभबुद्धिना ।
दशान्ते शोषितं वृद्धं दुःखैः शिथिलतां गतम् ॥६॥
कंसस्य भयसंत्रस्तं भवद्भ्यां च विना कृतम् ।
दह्यमानं दिवा रात्रौ सोत्कण्ठेनान्तरात्मना ॥७॥
तां च द्रक्ष्यसि गोविन्द पुत्रैरमृदितस्तनीम् ।
देवकीं देवसंकाशां सीदन्तीं विहतप्रभाम् ॥८॥
पुत्रशोकेन शुष्यन्तीं त्बद्दर्शनपरायणाम् ।
वियोगशोकसंतप्तां विवत्सामिव सौरभीम् ॥९॥
उपप्लुतेक्षणां दीनां नित्यं मलिनवाससम् ।
स्वर्भानुवदनग्रस्तां शशाङ्कस्य प्रभामिव ॥१०॥
त्वद्दर्शनपरां नित्यं तवागमनकाङ्क्षिणीम् ।
त्यत्प्रवृत्तेन शोकेन सीदन्तीं वै तपस्विनीम् ॥११॥
त्वत्प्रलापेष्वकुशला त्वया बाल्ये वियोजिताम् ।
अरूपज्ञां तव विभो वक्त्रस्यास्येन्दुवर्चसः ॥१२॥
यदि त्वां जनयित्वा सा देवकी तात तप्यते ।
अपत्यार्थो नु कस्तस्या वरं ह्येवानपत्यता ॥१३॥
अपुत्राणां हि नारीणामेकः शोको विधीयते ।
सपुत्रा त्वफले पुत्रे धिक्प्रजातेन तप्यते ॥१४॥
त्वं तु शक्रसमः पुत्रो यस्यात्तवत्सदृशो गुणैः ।
परेषामप्यभयदो न सा शोचितुमर्हति ॥१५॥
वृद्धौ तवाम्बापितरौ परभृत्यत्वमागतौ ।
भर्त्सितौ त्वत्कृते नित्यं कंसेनाशुभबुद्धिना ॥१६॥
यदि ते देवकी मान्या पृथिवीवात्मधारिणी ।
तां शोकसलिले मग्नामुत्तारयितुमर्हसि ॥१७॥
तं च वृद्धं प्रियसुतं वसुदेवं सुखोचितम् ।
पुत्रयोगेन संयोज्य कृष्ण धर्ममवाप्स्यसि ॥१८॥
यथा नागः सुदुर्वृत्तो दमितो यमुनाह्रदे ।
विमूलः स कृतः शैलो यथा वै भूधरस्त्वया ॥१९॥
दर्पोत्सिक्तश्च बलवानरिष्टो विनिपातितः ।
परप्राणहरः केशी दुष्टात्मा च हयो हतः ॥२०॥
एतेनैव प्रयत्नेन वृद्धावुद्धृत्य दुःखितौ ।
यथा धर्ममवाप्नोषि तत्कृष्ण परिचिन्त्यताम् ॥२१॥
निर्भर्त्स्यमानो यैर्दृष्टः पिता ते कंससंसदि ।
ते सर्वे चक्रुरश्रूणि नेत्रैर्दुःखान्विता भृशम् ॥२२॥
गर्भावकर्तनादीनि दुःखानि सुबहून्यपि ।
माता ते देवकी कृष्ण कंसस्य सहतेऽवशा ॥२३॥
मातापितृभ्यां सर्वेण जातेन तनयेन वै ।
ऋणं वै प्रतिकर्तव्यं यथायोगमुदाहृतम् ॥२४॥
एवं ते कुर्वतः कृष्ण मातापित्रोरनुग्रहम् ।
परित्यजेतां तौ शोकं स्याच्च धर्मस्तवानघ ॥२५॥
वैशम्पायन उवाच
कृष्णः सुविदितार्थो वै तमाहामितविक्रमम् ।
बाढमित्येव तेजस्वी न च क्रोधवशं गतः ॥२६॥
ते च गोपाः समागम्य नन्दगोपपुरःसराः ।
अक्रूरवचनं श्रुत्वा चेलुः कंसस्य शासनात् ॥२७॥
गमनाय च ते सज्जा बभूवुर्व्रजवासिनः ।
सज्जं चोपायनं कृत्वा गोपवृद्धाः प्रतस्थिरे ॥२८॥
करं चानडुहः सर्पिर्महिषांश्चौपनायिकान् ।
यथासारं यथायूथमुपानीय पयो दधि ॥२९॥
तं सज्जयित्या कंसस्य करं चोपायनानि च ।
ते सर्वे गोपपतयो गमनायोपतस्थिरे ॥३०॥
अक्रूरस्य कथाभिश्च सह कृष्णेन जाग्रतः ।
रौहिणेयतृतीयस्य सा निशा व्यत्यवर्तत ॥३१॥
ततः प्रभाते विमले पक्षिव्याहारसंकुले ।
नैशाकरे रश्मिजाले क्षणदाक्षयसंहृते ॥३२॥
नभस्यरुणसंस्तीर्णे पर्यस्ते ज्योतिषां गणे ।
प्रत्यूषपवनासारैः क्लेदिते धरणीतले ॥३३॥
क्षीणाकारासु तारासु सुप्तनिष्प्रतिभासु च ।
नैशमन्तर्दधे रूपमुद्गच्छति दिवाकरे ॥३४॥
शीतांशुः शान्तकिरणो निष्प्रभः समपद्यत ।
एको नाशयते रूपमेको वर्धयते वपुः ॥३५॥
गोभिश्च समकीर्णासु व्रजनिर्याणभूमिषु ।
मन्थनावर्तपूर्णेषु गर्गरेषु नदत्सु च ॥३६॥
दामभिर्दम्यमानेषु वत्सेषु तरुणेषु च ।
गोपैरापूर्यमाणासु घोषरथ्यासु सर्वशः ॥३७॥
तत्रैव गुरुकं भाण्डं शकटारोपितं बहु ।
त्वरिताः पृष्ठतः कृत्वा जग्मुः स्यन्दनवाहनाः ॥३८॥
कृष्णोऽथ रौहिणेयश्च स चैवामितदक्षिणः ।
त्रयो रथगता जग्मुस्त्रिलोकपतयो यथा ॥३९॥
अथाह कृष्णमक्रूरो यमुनातीरमाश्रितः ।
स्यन्दनं चात्र रक्षस्व यत्नं च कुरु वाजिषु ॥४०॥
हयेभ्यो यवसं दत्त्वा हयभाण्डे रथे तथा ।
प्रगाढं यत्नमास्थाय क्षणं तात प्रतीक्ष्यताम् ॥४१॥
यमुनाया ह्रदे ह्यस्मिन् स्तोष्यामि भुजगेश्वरम् ।
दिव्यैर्भागवतैर्मन्त्रैः सर्वलोकप्रभुं यतः ॥४२॥
गुह्यं भागवतं देवं सर्वलोकस्य भावनम् ।
श्रीमत्स्वस्तिकमूर्द्धानं प्रणमिष्यामि भोगिनम् ।
सहस्रशिरसं देवमनन्तं नीलवाससम् ॥४३॥
धर्मदेवस्य तस्याथ यद् विषं प्रभविष्यति ।
सर्वं तदमृतप्रख्यमशिष्याम्यमरो यथा ॥४४॥
स्वस्तिकायतनं दृष्ट्वा द्विजिह्वं श्रीविभूषितम् ।
समाजस्तत्र सर्पाणां शान्त्यर्थं वै भविष्यति ॥४५॥
आस्तां मां समुदीक्षन्तौ भवन्तौ सङ्गतावुभौ ।
निवृत्तो भुजगेन्द्रस्य यावदस्मि ह्रदोत्तमात् ॥४६॥
तमाह कृष्णः संहृष्टो गच्छ धर्मिष्ठ मा चिरम् ।
आवां खलु न शक्तौ स्वस्त्वया हीनावुपासितम् ॥४७॥
स हृदे यमुनायास्तु ममज्जामितदक्षिणः ।
रसातले स ददृशे नागलोकमिमं यथा ॥४८॥
तस्य मध्ये सहस्रास्यं हेमतालोच्छ्रितध्वजम् ।
लाङ्गलासक्तहस्ताग्रं मुसलोपाश्रितोदरम् ॥४९॥
असिताम्बरसंवीतं पाण्डुरं पाण्डुरासनम् ।
कुण्डलैकधरं मत्तं सुप्तमम्बुरुहेक्षणम् ॥५०॥
भोगोत्करासने शुभ्रे स्वेन देहेन कल्पिते ।
स्वासीनं स्वस्तिकाभ्यां च वराहाभ्यां महीधरम् ॥५१॥
किंचित् सव्यापवृत्तेन मौलिना हेमचूलिना ।
जातरूपमयैः पद्मैर्मालयाच्छन्नवक्षसम् ॥५२॥
रक्तचन्दनदिग्धाङ्गं दीर्घबाहुमरिंदमम् ।
पद्मनाभसिताभ्राभं भाभिर्ज्वलिततेजसम् ॥५३॥
ददर्श भोगिनां नाथं स्थितमेकार्णवेश्वरम् ।
पूज्यमानं द्विजिह्वेन्द्रैर्वासुकिप्रमुखैः प्रभुम् ॥५४॥
कम्बलाश्वतरौ नागौ तौ चामरकरावुभौ ।
अवीजयेतां तं देवं धर्मासनगतं प्रभुम् ॥५५॥
तस्याभ्याशगतो भाति वासुकिः पन्नगेश्वरः ।
वृतोऽन्यैः सचिवैः सर्पैः कर्कोटकपुरःसरैः ॥५६॥
तं घटैः काञ्चनैर्दिव्यैः पङ्कजच्छन्नमस्तकैः ।
राजानं स्नापयामासुः स्नातमेकार्णवाम्बुभिः ॥५७॥
तस्योत्सङ्गे घनश्यामं श्रीवत्साच्छादितोरसम् ।
पीताम्बरधरं विष्णुं सूपविष्टं ददर्श ह ॥५८॥
अपरं चैव सोमेन तुल्यसंहननं प्रभुम् ।
संकर्षणमिवासीनं तं दिव्यं विष्टरं विना ॥५९॥
स कृष्णं तत्र सहसा व्याहर्तुमुपचक्रमे ।
तस्य संस्तम्भयामास वाक्यं कृष्णः स्वतेजसा ॥६०॥
सोऽनुभूय भुजङ्गानां तं भागवतमव्ययम् ।
उदतिष्ठत्पुनस्तोयाद् विस्मितोऽमितदक्षिणः ॥६१॥
स तौ रथस्थावासीनौ तत्रैव बलकेशवौ ।
निरीक्ष्यमाणावन्योन्यं ददर्शाद्भुतरूपिणौ ॥६२॥
अथामज्जत् पुनस्तत्र तदाक्रूरः कुतूहलात् ।
इज्यते यत्र देवोऽसौ नीलवासाः सिताननः ॥६३॥
तथैवासीनमुत्सङ्गे सहस्रास्यधरस्य वै ।
ददर्श कृष्णमक्रूरः पूज्यमानं तदा प्रभुम् ॥६४॥
भूयश्च सहसोत्थाय तं मन्त्रं मनसा जपन् ।
रथं तेनैव मार्गेण जगामामितदक्षिणः ॥६५॥
तमाह केशवो हृष्टः स्थितमक्रूरमागमत् ।
कीदृशं नागलोकस्य वृत्तं भागवते ह्रदे ॥६६॥
चिरं च भवता कालो व्याक्षेपेण विलम्बितः ।
मन्ये दृष्टं त्वयाश्चर्यं हृदयं ते यथाचलम् ॥६७॥
प्रत्युवाच स तं कृष्णमाश्चर्यं भवता विना ।
किं भविष्यति लोकेषु स्थावरेषु चरेषु च ॥६८॥
तत्राश्चर्यं मया दृष्टं कृष्ण यद् भुवि दुर्लभम् ।
तदिहापि यथा तत्र पश्यामि च रमामि च ॥६९॥
संगतश्चापि लोकानामाश्चर्येणेह रूपिणा ।
अतः परतरं कृष्ण नाश्चर्यं द्रष्टुमुत्सहे ॥७०॥
तदागच्छ गमिष्यामः कंसराजपुरीं प्रभो ।
यावन्नास्तं व्रजत्येष दिवसान्ते दिवाकरः ॥७१॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि अक्रूरकृतनागलोककथने षड्विंशोऽध्यायः ॥२६॥

N/A

References : N/A
Last Updated : July 18, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP