संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| अष्टाविंशोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - अष्टाविंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण अष्टाविंशोऽध्यायः Translation - भाषांतर कंसस्य चिन्ता, तेन रंगशालायाः दर्शनं, तस्याः सज्जीकरणस्यादेशं, चाणूर मुष्टिकाभ्यां कुवलयापीडस्य महामात्रं च श्रीकृष्णबलरामयोः वधाय आज्ञादानं, महामात्राय द्रुमिलात् स्वोत्पत्तेः कथायाः कथनं, तस्य मातुः सुयामुने पर्वतोपरि द्रुमिलेन सह समागमं , तयोः परस्परं वरदानं शापं चवैशम्पायन उवाचस चिन्तयित्वा धनुषो भङ्गं भोजविवर्धनः ।बभूव विमना राजा चिन्तयन् भृशदुःखितः ॥१॥कथं बालो विगतभीरवमत्य महाबलम् ।प्रेक्ष्यमाणस्तु पुरुषैर्धनुर्भङ्क्त्वा विनिर्गतः ॥२॥यस्यार्थे दारुणं कर्म कृतं लोकविगर्हितम् ।पितृष्वस्रात्मजान् वीरान्षडेवाहं न्यपोथयम् ॥३॥दैवं पुरुषकारेण न शक्यमतिवर्तितुम् ।नारदोक्तं च वचनं नूनं मह्यमुपस्थितम् ॥४॥एवं राजा विचिन्त्याथ निष्क्रम्य स्वगृहोत्तमात् ।प्रेक्षागारं जगामाशु मञ्चानामवलोककः ॥५॥स दृष्ट्वा सर्वनिर्युक्तं प्रेक्षागारं नृपोत्तमः ।श्रेणीनां दृढनिर्युक्तैर्मञ्चवाटैर्निरन्तरम् ॥६॥सोत्तमागारयुक्ताभिर्वलभीभिर्विभूषितम् ।छदीभिः सम्प्रवृद्धाभिरेकस्तम्भैर्विभूषितम् ॥७॥सर्वतः सारनिर्व्यूहं स्वायतं सुप्रतिष्ठितम् ।उदग्राक्लिष्टसुक्लिष्टमञ्चारोहणमुत्तमम् ॥८॥नृपासनपरिक्षिप्तं संचारपथसंकुलम् ।छन्नं तद् वेदिकाभिश्च मानुषौघभरक्षमम् ॥९॥स टष्ट्वा भूषितं रङ्गमाज्ञापयत बुद्धिमान् ।श्वः सचित्राः समाल्याश्च सपताकास्तथैव च ॥१०॥सुवासिता वपुष्मन्त उपनीतोत्तरच्छदाः ।क्रियन्तां मञ्चवाटाश्च वलभ्यो वीथयस्तथा ॥११॥रङ्गवाटे करीषस्य कल्प्यन्तां राशयोऽव्ययाः ।पटास्तरणशोभाश्च वलयश्चानुरूपतः ॥१२॥स्थाप्यन्तां सुनिखाताश्च पानकुम्भा यथाक्रमम् ।उदभारसहाः सर्वे सकाञ्चनघटोत्तमाः ॥१३॥वलयश्चोपकल्प्यन्तां कषायाश्चैव कुम्भशः ।प्राश्निकाश्च निमन्त्र्यन्तां श्रेण्यश्च सपुरोगमाः ॥१४॥आज्ञा च देया मल्लानां प्रेक्षकाणां तथैव च ।समाजे मञ्चशोभाश्च कल्प्यन्तां सूपकल्पिताः ॥१५॥एवमाज्ञाप्य राजा स समाजविधिमुत्तमम् ।समाजवाटान्निष्क्रम्य विवेश स्वं निवेशनम् ॥१६॥आह्वानं तत्र संचक्रे तस्य मल्लद्वयस्य वै ।चाणूरस्याप्रमेयस्य मुष्टिकस्य तथैव च ॥१७॥तौ तु मल्लौ महावीर्यौ बलिनौ बाहुशालिनौ ।कंसस्याज्ञां पुरस्कृत्य हृष्टौ विविशतुस्तदा ॥१८॥तौ समीपगतौ दृष्ट्वा मल्लौ जगति विश्रुतौ ।उवाच कंसो नृपतिः सोपन्यासमिदं वचः ॥१९॥भवन्तौ मम विख्यातौ मल्लौ वीरध्वजोच्छ्रितौ ।पूजितौ च यथान्यायं सत्कारार्हौ विशेषतः ॥२०॥तन्मत्तो यदि सत्कारः स्मर्यते सुकृतानि च ।कर्तव्यं मे महत् कर्म भवद्भ्यां स्वेन तेजसा ॥२१॥ यावेतौ मम संवृद्धौ व्रजे गोपालकावुभौ ।संकर्षणश्च कृष्णश्च बालावपि जितश्रमौ ॥२२॥एतौ रङ्गगतौ युद्धे युद्ध्यमानौ वनेचरौ ।निपातानन्तरं शीघ्रं हन्तव्यौ नात्र संशयः ॥२३॥बालाविमौ सुचपलावक्रियाविति सर्वथा ।नावज्ञा तत्र कर्तव्या कर्तव्यो यत्न एव हि ॥२४॥ताभ्यां युधि निरस्ताभ्यां गोपाभ्यां रङ्गसंनिधौ ।आयत्यां च तदात्वे च श्रेयो मम भविष्यति ॥२५॥नृपतेः स्नेहसंयुक्तैर्वचोभिर्हृष्टमानसौ ।ऊचतुर्युद्धसम्मत्तौ मल्लौ चाणूरमुष्टिकौ ॥२६॥यद्यावयोस्तौ प्रमुखे स्थास्येते गोपकिल्बिषौ ।हतावित्येव मन्तव्यौ प्रेतरूपौ तपस्विनौ ॥२७॥यद्यावां प्रतियोत्स्येते तावरिष्टपरिप्लुतौ ।आवाभ्यां रोषयुक्ताभ्यां प्रमुखे तौ वनेचरौ ॥२८॥एवं वाग्विषमुत्सृज्य तावुभौ मल्लपुङ्गवौ ।अनुज्ञातौ नरेन्द्रेण स्वे गृहे तौ प्रजग्मतुः ॥२९॥महामात्रं ततः कंसो बभाषे हस्तिजीविनम् ।हस्ती कुवलयापीडः समाजद्वारि तिष्ठतु ॥३०॥बलवान् मदलोलाक्षश्चपलः क्रोधनो नृषु ।दानोत्कटकटश्चण्डः प्रतिवारणरोषणः ॥३१॥स संनोदयितव्यस्ते तावुद्दिश्य वनौकसौ ।वसुदेवसुतौ वीरौ यथा स्यातां गतायुषौ ॥३२॥त्वया चैव गजेन्द्रेण यदि तौ गोष्ठजीविनौ ।भवेतां पतितौ रङ्गे पश्येयमहमुत्कटौ ॥३३॥ततस्तौ पतितौ दृष्ट्वा वसुदेवः सबान्धवः ।छिन्नमूलो निरालम्बः सभार्यो विनशिष्यति ॥३४॥ये चेमे यादवा मूर्खाः सर्वे कृष्णपरायणाः ।विनशिष्यन्ति च्छिन्नाशा दृष्ट्वा कृष्णं निपातितम् ॥३५॥एतौ हत्वा गजेन्द्रेण मल्लैर्वा स्वयमेव वा ।पुरीं निर्यादवीं कृत्वा विचरिष्याम्यहं सुखी ॥३६॥करके मैं सुखपूर्वक विचरूँगा ॥३६॥पिता हि मे परित्यक्तो यादवानां कुलोद्वहः ।शेषाश्च मे परित्यक्ता यादवाः कृष्णपक्षिणः ॥३७॥न चाहमुग्रसेनेन जातः किल सुतार्थिना ।मानुषेणाल्पवीर्येण यथा मामाह नारदः ॥३८॥महामात्र उवाचकथमुक्तं नारदेन राजन् देवर्षिणा पुरा ।आश्चर्यमेतत् कथितं त्वत्तः श्रुतमरिंदम ॥३९॥कथमन्येन जातस्त्वमुग्रसेनात् पितुर्विना ।तव मात्रा कथं राजन् कृतं कर्मेदमीदृशम् ॥४०॥अन्यापि प्राकृता नारी न कुर्याच्च जुगुप्सितम् ।विस्तरं श्रोतुमिच्छामि ह्येतत् कौतूहलं हि मे ॥४१॥कंस उवाचयथा कथितवान् विप्रो महर्षिर्नारदः प्रभुः ।तथाहं सम्प्रवक्ष्यामि यदि तै श्रवणे मतिः ॥४२॥आगतः शक्रसदनात् स वै शक्रसखो मुनिः ।चन्द्रांशुशुक्लवसनो जटामण्डलमुद्वहन् ॥४३॥कृष्णाजिनोत्तरीयेण रुक्मयज्ञोपवीतवान् ।दण्डी कमण्डलुधरः प्रजापतिरिवापरः ॥४४॥गाता चतुर्णां वेदानां विद्वान् गान्धर्ववेदवित् ।स नारदोऽथ देवर्षिर्ब्रह्मलोकचरोऽव्ययः ॥४५॥तमागतमृषिं दृष्ट्वा पूजयित्वा यथाविधि ।पाद्यार्घ्यमासनं दत्त्वा सम्प्रवेश्योपविश्य ह ॥४६॥सुखोपविष्टोऽथ मुनिः पृष्ट्वा च कुशलं मम ।उवाच च प्रीतमना देवर्षिर्भावितात्मवान् ॥४७॥नारद उवाचपूजितोऽहं त्वया वीर विधिदृष्टेन कर्मणा ।इदमेकं मम वचः श्रूयतां प्रतिगृह्यताम् ॥४८॥गतोऽहं देवसदनं सौवर्णं मेरुपर्वतम् ।सोऽहं कदाचिद् देवानां समाजे मेरुमूर्धनि ॥४९॥तत्र मन्त्रयतामेवं देवतानां मया श्रुतः ।भवतः सानुगम्यैव वधोपायः सुदारुणः ॥५०॥तत्र यो देवकीगर्भो विष्णुर्लोकनमस्कृतः ।योऽस्या गर्भोऽष्टमः कंस स ते मृत्युर्भविष्यति ॥५१॥देवानां स तु सर्वस्वं त्रिदिवस्य गतिश्च सः ।परं रहस्यं देवानां स ते मृत्युर्भविष्यति ॥५२॥यत्नश्च क्रियतां कंस गर्भाणां पातनं प्रति ।नावज्ञा रिपवे कार्या दुर्बले स्वजनेऽपि वा ॥५३॥न चायमुग्रसेनः स पिता तव महाबलः ।द्रुमिलो नाम तेजस्वी सौभस्य पतिरूर्जितः ॥५४॥श्रुत्वाहं तद् वचस्तस्य किंचिद् रोषसमन्वितः ।भूयोऽपृच्छं कथं ब्रह्मन् द्रुमिलो नाम दानवः ॥५५॥मम मात्रा कथं तस्य ब्रूहि विप्र समागमः ।एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ॥५६॥नारद उवाचहन्त ते कथयिष्यामि शृणु राजन् यथार्थतः ।द्रमिलस्य च मात्रा ते संवादं च समागमम् ॥५७॥सुयामुनं नाम नगं तव माता रजस्वला ।प्रेक्षितुं सहिता स्त्रीभिर्गता वै सा कुतूहलात् ॥५८॥सा तत्र रमणीयेषु रुचिरद्रुमसानुषु ।चचार नगशृङ्गेषु कन्दरेषु नदीषु च ॥५९॥किन्नरोद्गीतमधुराः प्रतिश्रुत्यभिनादिताः ।शृण्वन्ती काजननीर्वाचः श्रोत्रसुखावहाः ॥६०॥बर्हिणां चैव विरुतं खगानां च विकूजितम् ।अभीक्ष्णमभिशृण्वन्ती स्त्रीधर्ममभिरोचयत् ॥६१॥एतस्मिन्नन्तरे वायुर्वनराजिविनिःसृतः ।हृद्यः कुसुमगन्धाढ्यो ववौ मन्मथबोधनः ॥६२॥द्विरेफाभरणाश्चैव कदम्बा वायुघट्टिताः ।मुमुचुर्गन्धमधिकं संततासारमूर्छिताः ॥६३॥केसराः पुष्पवर्षैश्च ववृषुर्मदबोधनाः ।नीपा दीपा इवाभान्ति पुष्पकण्टकधारिणः ॥६४॥मही नवतृणच्छन्ना शक्रगोपविभूषिता ।यौवनस्थेव वनिता स्वं दधारार्तवं वपुः ॥६५॥अथ सौभपतिः श्रीमान् द्रुमिलो नाम दानवः ।भविष्यद्दैवयोगेन विधात्रा तत्र नीयते ॥६६॥कामगेन रथेनाशु तरुणादित्यवर्चसा ।यदृच्छया गतस्तत्र सुयामुनदिदृक्षया ॥६७॥विहायसा कामगमो मनसोऽप्याशुगामिना ।स तं प्राप्य पर्वतेन्द्रमवतीर्य रथोत्तमात् ॥६८॥पर्वतोपवने न्यस्य रथं पररथारुजम् ।अथासौ सूतसहितश्चचार नगमूर्धनि ॥६९॥ततो बहून्यपश्येतां काननानि वनानि च ।सर्वर्तुगुणसम्पन्नं नन्दनस्येव काननम् ॥७०॥चेरतुर्नगशृङ्गेषु कन्दरेषु नदीषु च ।नानाधातुपिनद्धैश्च शृङ्गैर्बहुभिरुच्छ्रितैः ॥७१॥नानारत्नविचित्रैश्च काञ्चनाञ्जनराजतान् ।नानाकुसुमगन्धाढ्यान् नानासत्त्वगणैर्युतान् ॥७२॥नानाद्विजगणैर्घुष्टान् नानापुष्पफलद्रुमान् ।नानौषधिसमायुक्तानृषिसिद्धानुसेवितान् ॥७३॥विद्याधरान् किम्पुरुषानृक्षवानरराक्षसान् ।सिंहान् व्याघ्रान् वराहांश्च महिषाञ्छरभाञ्छशान ॥७४॥सृमरांश्चमरान्न्यङ्कून् मातङ्गान् यक्षराक्षसान् ।एवं बहुविधान् पश्यंश्चरमाणो नगोत्तमम् ॥७५॥दूराद् ददर्श नृपतिर्देवीं देवसुतोपमाम् ।क्रीडमानां सखीभिश्च पुष्पं चैव विचिन्वतीम् ॥७६॥ततश्चरन्तीं सुश्रोणीं सस्त्रीभिः सह संवृताम् ।दृप्त सौभपतिर्दूराद् विस्मयन् सूतमब्रवीत् ॥७७॥कस्येयं मृगशावाक्षी वनान्तरविचारिणी ।रूपौदार्यगुणोपेता मन्मथस्य रतिर्यथा ॥७८॥शचीव पुरुहूतस्य उताहो वा तिलोत्तमा ।नारायणोरुं निर्भिद्य सम्भूता वरवर्णिनी ।ऐलस्य दयिता देवी योषिद्रत्नं किमुर्वशी ॥७९॥क्षीरार्णवे मथ्यमाने सुरासुरगणैः सह ।मन्थानं मन्दरं कृत्वामृतार्थमिति नः श्रुतम् ॥८०॥ततोऽमृतात्समुत्तस्थौ देवी श्रीर्लोकभाविनी ।नारायणाङ्कलुलिता किं श्रीरेषा वराङ्गना ॥८१॥नीलमेघान्तरगता द्योतयन्त्यचिरप्रभा ।तथा योषिद्गणान् मध्ये रूपं प्रद्योतयद् वनम् ॥८२॥अतीव सुकुमाराङ्गी सुप्रभेन्दुनिभानना ।दृष्ट्वा रूपमनिन्द्याङ्ग्या विभ्रान्तो व्याकुलेन्द्रियः ॥८३॥कामस्य वशमापन्नो मनो विह्वलतीव मे ।भृशं कृन्तति मेऽङ्गानि सायकैः कुसुमायुधः ।भित्त्वा हृदि शरान् पञ्च निर्दयं हन्ति मे मनः ॥८४॥हदयाग्निर्वर्धयति आज्यसिक्त इवानलः ।कथमद्य भवेत् कार्यं शमार्थं मन्मथाग्निना ॥८५॥केनोपायेन किं कुर्मो भजेन्मां मत्तगामिनी ।एवं बहु चिन्तयानो नोपलभ्य च दानवः ॥८६॥सूतमाह मुहूर्तं तु तिष्ठस्व त्वमिहानघ ।अहं यास्यामि तां द्रष्टुं कस्येयमिति योषितम् ॥८७॥प्रतीक्षमाणस्तिष्ठस्व यावदागमनं मम ।श्रुत्वा तु वचनं तस्य तथास्त्विति वचोऽब्रवीत्॥८८॥एवमुक्त्वा दानवेन्द्रो गमनाय मनो दधे ।वार्युपस्पृश्य बलवान् ध्यानमेवान्वचिन्तयत् ॥८९॥मुहूर्तं ध्यानमात्रेण दृष्टं ज्ञानबलात् ततः ।उग्रसेनस्य पत्नीति ज्ञात्वा हर्षमुपागतः ॥९०॥उग्रसेनस्य रूपं वै कृत्वा स्वं परिवर्त्य सः ।उपासर्पन्महाबाहुः प्रहसन् दानवेश्वरः ॥९१॥स्मयमानश्च शनकैर्जग्राहामितवीर्यवान् ।उग्रसेनस्य रूपेण मातरं ते व्यधर्षयत् ॥९२॥सा पतिस्निग्धहृदया तं भावेनोपसर्पती ।शङ्किता चाभवत्पश्चात्तस्य गौरवदर्शनात् ॥९३॥सा तमाहोत्थिता भीता न त्वं मम पतिर्धुवम् ।कस्य त्वं विकृताचारो येनास्मि मलिनीकृता ॥९४॥एकभर्तृव्रतमिदं मम संदूषितं त्वया ।पत्युर्मे रूपमास्थाय नीच नीचेन कर्मणा ॥९५॥किं मां वक्ष्यन्ति रुषिता बान्धवाः कुलपांसनीम् ।जुगुप्सिता च वत्स्यामि पतिपक्षैर्निराकृता ॥९६॥धिक्त्वामीदृशमक्षान्तं दुष्कुलं व्युत्थितेन्द्रियम् ।अविश्वास्यमनार्यं च परदाराभिमर्शनम् ॥९७॥स तामाह प्रसज्जन्तीं क्षिप्तः क्रोधेन दानवः ।अहं वै द्रुमिलो नाम सौभस्य पतिरूर्जितः ॥९८॥किं मां क्षिपसि रोषेण मूढे पण्डितमानिनि ।मानुषं पतिमाश्रित्य नीचं मृत्युवशे स्थितम् ॥९९॥व्यभिचारान्न दुष्यन्ति स्त्रियः स्त्रीमानगर्विते ।न ह्यासां नियता बुद्धिर्मानुषीणां विशेषतः ॥१००॥श्रूयन्ते हि स्त्रियो बह्व्यो व्यभिचारव्यतिक्रमैः ।प्रसूता देवसंकाशान् पुत्रान् निश्चलविक्रमान् ॥१०१॥अतीव हि त्वं स्त्रीलोके पतिधर्मवती सती ।शुद्धा केशान्विधुन्वन्ती भाषसे यद्यदिच्छसि ॥१०२॥कस्य त्वमिति यच्चाहं त्वयोक्तो मत्तकाशिनि ।कंसस्तस्माद् रिपुध्वंसी तव पुत्रो भविष्यति ॥१०३॥सा सरोषा पुनर्भूत्वा निन्दन्ती तस्य तं वरम् ।उवाच व्यथिता देवी दानवं धृष्टवादिनम् ॥१०४॥धिक ते वृत्तं सुदुर्वृत्त यः सर्वा निन्दसि स्त्रियः ।सन्ति स्त्रियो नीचवृत्ताः सन्ति चैव पतिव्रताः ॥१०५॥यास्त्वेकपत्न्यः श्रूयन्तेऽरुन्धतीप्रमुखाः स्त्रियः ।धृता याभिः प्रजाः सर्वा लोकाश्चैव कुलाधम ॥१०६॥यस्त्वया मम पुत्रो वै दत्तो वृत्तविनाशनः ।न मे बहुमतस्त्वेष शृणु चापि यदुच्यते ॥१०७॥उत्पत्स्यति पुमान् नीच पतिवंशे ममाद्य यः ।भविष्यति स ते मृत्युर्यश्च दत्तस्त्वया सुतः ॥१०८॥द्रुमिलस्त्वेवमुक्तस्तु जगामाकाशमेव तु ।तेनैव रथमुख्येन दिव्येनाप्रतिगामिना ॥१०९॥जगाम च पुरीं दीना माता तदहरेव ते ।मामेवमुक्त्वा भगवान् नारदो मुनिसत्तमः ॥११०॥दीप्यमानस्तपोवीर्यात् साक्षादग्निरिव ज्वलन् ।वल्लकीं वाद्यमानो हि सप्तस्वरविमूर्च्छिताम् ॥१११॥गायनो लक्ष्यवीथीं स जगाम ब्रह्मणोऽन्तिकम् ।शृणुष्वेदं महामात्र निबोध वचनं मम ॥११२॥तथ्यं चोक्तं नारदेन त्रैलोक्यज्ञेन धीमता ।अलं बलेन वीर्येण नयेन विनयेन च ॥११३॥प्रमाणैर्वापि वीर्येण तेजसा विक्रमेण च ।सत्येन चैव दानेन नान्योऽस्ति सदृशः पुमान् ॥११४॥विदित्वा सर्वमात्मानं वचनं श्रद्दधाम्यहम् ।क्ष्रेत्रजोऽहं सुतस्तस्य उग्रसेनस्य हस्तिप ॥११५॥मातापितृभ्यां संत्यक्तः स्थापितः स्वेन तेजसा ।उभाभ्यामपि विद्विष्टो बान्धवैश्च विशेषतः ॥११६॥एतानपि हनिष्यामि यादवान् कृष्णपक्षिणः ।तदिमौ घातयित्वा तु हस्तिना गोपकिल्बिषौ ॥११७॥तद् गच्छ गजमारुह्य सांकुशप्रासतोमरः ।स्थिरो भव महामात्र समाजद्वारि मा चिरम् ॥११८॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि कंसवाक्येऽष्टाविंशोऽध्यायः ॥२८॥ N/A References : N/A Last Updated : July 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP