संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| अष्टनवतितमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - अष्टनवतितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण अष्टनवतितमोऽध्यायः Translation - भाषांतर इन्द्रस्याज्ञया विश्वकर्मणा पुनः परिष्कृतायाः द्वारकापुर्याः वर्णनम्वैशम्पायन उवाचददर्शाथ पुरीं कृष्णो द्वारकां गरुडे स्थितः ।देवसद्मप्रतीकाशां समन्तात् प्रतिनादिताम् ॥१॥मणिपर्वतयन्त्राणि तथा क्रीडागृहाणि च ।उद्यानवनमुख्यानि वलभीचत्वराणि च ॥२॥सम्प्राप्ते तु तदा कृष्णे पुरीं देवकिनन्दने ।विश्वकर्माणमाहूय देवराजोऽब्रवीदिदम् ॥३॥प्रियमिच्छसि चेत् कर्तुं मह्यं शिल्पवतां वर ।कृष्णप्रियार्थं भूयस्त्वं प्रकुरुष्व मनोहराम् ॥४॥उद्यानशतसम्बाधां द्वारकां स्वर्गसम्मिताम् ।कुरुष्व विबुधश्रेष्ठ यथा मम पुरी तथा ॥५॥यत्किंचित् त्रिषु लोकेषु रत्नभूतं प्रपश्यसि ।तेन संयुज्यतां क्षिप्रं पुरीं द्वारवतीं त्वया ॥६॥कृष्णो हि सुरकार्येषु सर्वेषु सततोत्थितः ।संग्रामान् घोररूपांश्च विगाहति महाबलः ॥७॥तामिन्द्रवचनाद् गत्वा विश्वकर्मा पुरीं ततः ।अलंचक्रे समन्ताद् वै यथेन्द्रस्यामरावती ॥८॥तां ददर्श दशार्हाणामीश्वरः पक्षिवाहनः ।विश्वकर्मकृतैर्दिव्यैरभिप्रायैरलंकृताम् ॥९॥तां तदा द्वारकां दृष्ट्वा प्रभुर्नारायणो विभुः ।हृष्टः सर्वार्थसम्पन्नः प्रवेष्टुमुपचक्रमे ॥१०॥सोऽपश्यद्वृक्षखण्डांश्च रम्यान् दृष्टिमनोहरान् ।द्वारकां प्रति दाशार्हश्चित्रितां विश्वकर्मणा॥११॥पद्मखण्डाकुलाभिश्च हंससेवितवारिभिः ।गङ्गासिन्धुप्रकाशाभिः परिखाभिर्वृतां पुरीम् ॥१२॥प्राकारेणार्कवर्णेन शातकौम्भेन राजता ।चयमूर्घ्नि निविष्टेन द्यां यथैवाभ्रमालया ॥१३॥काननैर्नन्दनप्रख्यैस्तथा चैत्ररथोपमैः ।बभौ चारुपरिक्षिप्ता द्वारका द्यौरिवाम्बुदैः ॥१४॥वभौ रैवतकः शैलो रम्यसानुगुहाजिरः ।पूर्वस्यां दिशि लक्ष्मीवान् मणिकाञ्चनतोरणः ॥१५॥दक्षिणस्यां लतावेष्टः पञ्चवर्णो विराजते ।इन्द्रकेतुप्रतीकाशः पश्चिमां दिशमाश्रितः ।सुकक्षो राजतः शैलश्चित्रपुष्पमहावनः ॥१६ ।उत्तरां दिशमत्यर्थं विभूषयति वेणुमान् ।मन्दराद्रिप्रतीकाशः पाण्डुरः पार्थिवर्षभ ॥१७॥चित्रकं पञ्चवर्णं च पाञ्चजन्यं वनं महत् ।सर्वर्तुकवनं चैव भाति रैवतकं प्रति ॥१८॥लतावेष्टितपर्यन्तं मेरुप्रभवनं महत् ।भाति भानुवनं चैव पुष्पकं च महद् वनम् ॥१९॥अक्षकैर्बीजकैश्चैव मन्दारैश्चोपशोभितम् ।शतावर्तवनं चैव करवीराकरं तथा ॥२०॥भाति चैत्ररथं चैव नन्दनं च वनं महत् ।रमणं भावनं चैवं वेणुमन्तं समन्ततः ॥२१॥वैडूर्यपत्रैर्जलजैस्तदा मन्दाकिनी नदी ।भाति पुष्करिणी रम्या पूर्वस्यां दिशि भारत ॥२२॥सानवो भूषितास्तत्र केशवस्य प्रियैषिभिः ।बहुभिर्देवगन्धर्वैश्चोदितैर्विश्वकर्मणा ॥२३॥महानदी द्वारवतीं पञ्चाशद्भिर्महामुखैः ।प्रविष्टा पुण्यसलिला भावयन्ती समन्ततः ॥२४॥अप्रमेयां महोत्सेधामगाधपरिखायुताम् ।प्राकारवरसम्पन्नां सुधापाण्डुरलेपनाम् ॥२५॥तीक्ष्णयन्त्रशतघ्नीभिर्हेमजालैश्च भूषिता ॥।आयसैश्च महाचक्रैर्ददर्श द्वारकां पुरीम् ॥२६॥॥अष्टौ रथसहस्राणि नगरे किङ्किणीकिनाम् ।समुच्छ्रितपताकानि यथा देवपुरे तथा ॥२७॥अष्टयोजनविस्तीर्णामचलां द्वादशायताम् ।द्विगुणोपनिवेशां च ददर्श द्वारकां पुरीम् ॥२८॥अष्टमार्गमहारथ्यां महाषोडशचत्वराम् ।एवंमार्गपरिक्षिप्तां साक्षादुशनसा कृताम् ॥२९॥स्त्रियोऽपि यस्यां युध्येरन् किमु वृष्णिमहारथाः ।व्यूहानामुत्तमा मार्गाः सप्त चैव महापथाः ॥३०॥तत्र वै विहिताः साक्षाद् विविधा विश्वकर्मणा ।तस्मिन् पुरवरश्रेष्ठे दाशार्हाणां यशस्विनाम् ॥३१ ।वेश्मानि जहृषे दृष्ट्वा ततो देवकिनन्दनः ।काञ्चनैर्मणिसोपानैरुपेतानि नृहर्षणैः ॥३२ ।भीमघोषमहाघोषैः प्रासादवरचत्वरैः ।समुच्छ्रितपताकानि पारिप्लववनानि च ॥३३॥काञ्चनाग्राणि भास्वन्ति प्रासादशिखराणि च ।गृहाणि रमणीयानि मेरुकूटनिभानि च ॥३४॥पाण्डुपाण्डुरशृङ्गैश्च शातकुम्भपरिष्कृतैः ।रन्नसानुगुहाशृङ्गैर्विचित्रैरिव पर्वतैः ॥३५॥पञ्चवर्णैः सुवर्णैश्च पुष्पवृष्टिसमप्रभैः ।पर्जन्यतुल्यनिर्घोषैर्नानारूपैरिवाद्रिभिः॥३६॥दावाग्निज्वलितप्रख्यैर्निर्मितैर्विश्वकर्मणा ।आलिखद्भिरिवाकाशमतिचन्द्रार्कभास्वरैः ॥३७॥तैर्दाशार्हैर्महाभागैर्बभासे तद्वनद्रुमैः ।वासुदेवेन्द्रपर्जन्यैर्गृहमेघैरलंकृता ॥३८ ।ददृशे द्वारका चारुमेघैर्द्यौरिव संवृता ।साक्षाद् भगवतो वेश्म विहितं विश्वकर्मणा ॥३९॥ददृशे वासुदेवस्य चतुर्योजनमायतम् ।तावदेव च विस्तीर्णमप्रमेयमहाधनम् ॥४०॥प्रासादवरसम्पन्नं युक्तं जगति पर्वतैः ।यश्चकार महाभागस्त्वष्टा वासवनोदितः ॥४१॥प्रासादं चैव हेमाभं सर्वभूतमनोहरम् ॥४२॥मेरोरिव गिरः शृङ्गमुच्छ्रितं काञ्चनं महत् ।रुक्मिण्याः प्रवरं वासं विहितं विश्वकर्मणा ॥४३॥सत्यभामा पुनर्वेश्म यदावसत पाण्डुरम् ।विचित्रमणिसोपानं तद् विदुर्भोगवानिति ॥४४॥विमलादित्यवर्णाभिः पताकाभिरलंकृतम् ।व्यक्तसंजवनोद्देशो यश्चतुर्दिङ्महाध्वजः ॥४५॥स च प्रासादमुख्योऽथ जाम्बवत्या विभूषितः ।प्रभयाभ्यभवत् सर्वांस्तानन्यो भास्करो यथा ॥४६॥उद्यद्भास्करवर्णाभस्तयोरन्तरमाश्रितः॥विश्वकर्मकृतो दिव्यः कैलासशिखरोपमः ॥४७॥जाम्बूनद इवादीप्तः प्रदीप्तज्वलनो यथा ।सागरप्रतिमोऽतिष्ठन्मेरुरित्यभिविश्रुतः ॥४८॥तस्मिन् गान्धारराजस्य दुहिता कुलशालिनी ।गान्धारी भरतश्रेष्ठ केशवेन निवेशिता ॥४९॥पद्मकूल इति ख्यातं पद्मवर्णं महाप्रभम् ।सुभीमाया महाकूटं वेश्मातिरुचिरप्रभम् ॥५०॥सूर्यप्रभस्तु प्रासादः सर्वकामगुणैर्युतः ।लक्ष्मणाया नृपश्रेष्ठ निर्दिष्टः शार्ङ्गधन्वना ॥५१॥वैडूर्यमणिवर्णाभः प्रासादो हरितप्रभः ।यं विदुः सर्वभूतानि परमित्येव भारत ॥५२॥वासं तं मित्रविन्दाया देवर्षिगणपूजितम् ।महिष्या वासुदेवस्य भूषणं तेषु वेश्मसु ॥५३॥यस्तु प्रासादमुख्योऽत्र विहितो विश्वकर्मणा ।अतीव रम्यरम्योऽसौ धिष्ठितः पर्वतो यथा ॥५४॥सुवार्ताया निवासः स प्रशस्तः सर्वदैवतैः ।महिष्या वासुदेवस्य केतुमानिति विश्रुतः ॥५५॥यस्तु प्रासादमुख्यो वै यं त्वष्टा विदधे स्वयम् ।योजनायतविप्कम्भः सर्वरत्नमयः शुभः ॥५६॥स श्रीमान् विरजा नाम व्यराजत्तत्र सुप्रभः ।उपस्थानगृहं यत्र केशवस्य महात्मनः ॥५७॥तस्मिन् सुविहिताः सर्वे रुक्मदण्डाः पताकिनः ।सदने वासुदेवस्य मार्गसंजवनध्वजाः ॥५८॥रत्नजालानि दिव्यानि तत्रैव च निवेशिताः ।आहृत्य यदुसिंहेन वैजयन्तोऽचलो महान् ॥५९॥हंसकूटस्य यच्छृङ्गमिन्द्रद्युम्नसरः प्रति ।षष्टितालसमुत्सेधमर्धयोजनमायतम् ॥६०॥सकिन्नरमहानागं तदप्यमिततेजसा ।पश्यतां सर्वभूतानामानीतं लोकविश्रुतम् ॥६१॥आदित्यपथगं यत् तु मेरोः शिखरमुत्तमम् ।जाम्बूनदमयं दिव्यं त्रिषु लोकेषु विश्रुतम् ॥६२॥तदप्युत्पाट्य कृष्णार्थमानीतं विश्वकर्मणा ।भ्राजमानमतीवाग्र्यं सर्वौषधिसमन्वितम् ॥६३॥तदिन्द्रवचनात् त्वष्टा कार्यहेतोः समानयत् ।पारिजातश्च तत्रैव केशवेनाहृतः स्वयम् ॥६४॥नीयमाने तु तत्रासीद् युद्धमद्भुतकर्मणः ।कृष्णस्य येऽभ्यरक्षंस्तु देवाः पादपमुत्तमम् ॥६५॥पुण्डरीकशतैर्जुष्टं विमानैश्च हिरण्मयैः ।विहिता वासुदेवार्थं रत्नपुष्पफलद्रुमाः ॥६६॥पद्मखण्डजलोपेता रत्नसौगन्धिकोत्पलाः ।मणिहेमप्लवाकीर्णाः पुष्करिण्यः सरांसि च ॥६७॥॥तासां परमकूलानि शोभयन्ति महाद्रुमाः ।शालास्तालाः कदम्बाश्च शतशाखाश्च रौहिणाः॥६८॥ये च हैमवता वृक्षा ये च मेरुरुहास्तथा ।आहृत्य यदुसिंहार्थं विहिता विश्वकर्मणा ॥६९॥रक्तपीतारुणश्यामाः श्वेतपुष्पाश्च पादपाः ।सर्वर्तुफलसम्पन्नास्तेषु काननसन्धिषु ॥७०॥समकूलजलोपेताः शान्तशर्करवालुकाः ।तस्मिन् पुरवरे नद्यः प्रसन्नसलिला ह्रदाः ॥७१॥पुष्पाकुलजलोपेता नानाद्रुमलताकुलाः ।अपराश्चाभवन् नद्यो हेमशर्करवालुकाः ॥७२मत्तबर्हिणसंघैश्च कोकिलैश्च सदामदैः ।बभूवुः परमोपेतास्तस्यां पुर्यां च पादपाः ॥७३॥तत्रैव गजयूथानि पुरे गोमहिषास्तथा॥निवासश्च कृतस्तत्र वराहमृगपक्षिभिः ॥७४॥पुर्यां तस्यां तु रम्यायां प्राकारो वै हिरण्मयः ।व्यक्तः किष्कुशतोत्सेधो विहितो विश्वकर्मणा ॥७५॥अतीव रम्यः सोऽथासीद् वेष्टितः पर्वतो यथा ।ते च ते च महाशैलाः सरितश्च सरांसि च ।परिक्षिप्तानि भौमेन वनान्युपवनानि च ॥७६॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि द्वारका विशेषनिर्माणं नामाष्टनवतितमोऽध्यायः ॥९८॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP