संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| एकोनाशीतितमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - एकोनाशीतितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण एकोनाशीतितमोऽध्यायः Translation - भाषांतर पुण्यकव्रतसम्बन्धी नियमस्य एवं दानस्य वर्णनं एवं पुत्रादिनिमित्ते क्रियमाणानि अन्यानि व्रतदानादीनां प्रतिपादनम्उमोवाचविधिनैतेन कृत्स्नेन स्त्री सदा भर्तृदेवता ।चरेत् संवत्सरं दान्ता षण्मासान् मासमेव च ॥१॥स्त्रियो ह्यावाहयेत् साध्वीरेकादश समाधिना ।स्वयं चैव विधिर्दृष्टो व्रतकानां मया शुभः ॥२॥अद्भिर्दद्यात् सतीः सर्वा या मूलव्रतिनी भवेत् ।तासां तु निष्क्रयो देयः कालदेशानुरूपतः ॥३॥ततो मासान्तशुक्लस्य तिथौ च नवमी तथा ।आराधयित्वा कर्तव्यं व्रतकस्यापवर्जनम् ॥४॥उपवासमहोरात्रं व्रतकं चापि निश्चितम् ।आदौ चान्ते च कुर्वीत व्रतकस्यापि सिद्धये ॥५॥क्षुरकर्म ततो भर्तुरात्मनश्चैव कारयेत् ।उत्सादनं च स्नानं च तस्मिन्नहनि संस्मृतम् ॥६॥ततो विवाहवत्स्नानं विहितं पुण्यके शुभे ।मण्डनं चैव विहितं माल्यधारणमेव च ॥७॥कुम्भैस्तु स्नाप्यमानेमं साध्वी मन्त्रमुदीरयेत् ।भर्तुः पादौ नमस्कृत्य मनसा वाथ वा गिरा ॥८॥आपो देव्य ऋषीणां हि विश्वधात्र्यो दिव्या मदन्त्यो याः शङ्करा धर्मधात्र्यः ।हिरण्यवर्णाः पावकाः शिवतमेन रसेन श्रेयसो मां जुषन्तु ॥९॥अपामेव स्मृतो मन्त्रः सर्वत्रान्यत्र मे शृणु ।मन्त्राः पुराणविहिताः स्त्रीणां सर्वाङ्गशोभने ॥१०॥शुभाव्यया गुणिनी युक्तधर्मा भर्त्रा साकं मम दास्या वरेण ।मा कर्मणा मनसा वापि वाचा भर्तुर्भवेयं रुषती स्यां वशङ्गा ॥११॥सपत्नीनामधि नित्यं भवेयं सपुत्रा स्यां सुभगा चारुरूपा ।सम्पन्नहस्ता गुणवादिनी च सर्वात्मना स्यां मा दरिद्रा भवेयम् ॥१२॥पतिश्च मे स्यात् सुमुखो मत्प्रतीक्षो नित्यं मद्भक्तः स्यान्मन्मतिर्मद्गतिश्च ।प्रीतिश्च नौ स्याच्चक्रवाकानुरूपा मनोविरागो न भवेत्साधुवत्स्यात् ॥१३॥लोकान्साध्वीनामुत्तमानां व्रजेयं याभिः सर्वं धार्यते विश्वरूपम् ।उभे कुले याः शुभाः पावयन्ति पितुर्भर्तुश्च पतिभक्त्योर्जिताश्च ॥१४॥भूमिर्वायुर्जलमाकाशमग्निरन्तः क्षेत्रज्ञः प्रकृतिर्यो महांश्च ।अहंकारश्च मम साक्ष्ये नियुक्ताः स्मरेयुर्मे निश्चयं च व्रतं च ॥१५॥यैरारब्धो देहिनां भौतिकोऽयं विधिः सत्त्वाद्यैर्भूतयुक्तैः सबीजैः ।भवन्त्येते मे साक्षिणः सर्वसंस्था व्रते चास्मिन् निश्चये चापि नित्यम् ॥१६॥चन्द्रादित्यौ पुण्यसाक्षी यमश्च दिशः सर्वा दश चात्मा च मेऽयम् ।सन्त्वेते वै साक्षिणः सर्वसंस्था व्रते चास्मिन्निश्चये चापि नित्यम् ॥१७॥मन्त्रैरेतैः पुराणोक्तैः सर्वद्रव्याभिमन्त्रणम् ।व्रतचर्यात् प्रभृति वै पुराणे समुदाहृतम् ॥१८॥स्नात्वाथ वाससी दद्याद्भर्तुः कर्त्य स्वयं शुभे ।अथात्मकर्तितं न स्याच्छुभे विघ्नेन केनचित् ॥१९॥वासोऽन्यदेव दद्याच्च श्वेतं मुख्यं नवं शुचि ।स्वकर्तितं च सूत्रं तु वाससा तेन मिश्रयेत् ॥२०॥ततो द्विजं शुचिं दान्तं ज्ञानविज्ञानकोविदम् ।भोजयेच्च यथाशक्त्या सह भर्त्रा सुमध्यमे ॥२१॥ब्राह्मणस्यापि दातव्यं वासोयुग्मं महातपे ।शय्यासनं गृहं धान्यं दासं दासीं तथैव च ॥२२॥अलंकारः शक्तितश्च रत्नपर्वत एव च ।सर्वथान्यसमुन्मिश्रस्तिलैश्च सविशेषतः ॥२३॥वासोभिश्च प्रतिच्छन्नो नानावर्णैररुन्धति ।हस्त्यश्वावचयश्चैव देया गौरेव च धुवम् ॥२४॥लवणप्रतिमां दद्यान्नवनीतस्य चापराम् ।गुडस्य मधुनश्चैव सुवर्णस्य च शोभनाम् ॥२५॥तथैव सर्वगन्धानां रसानां पृथगेव च ।तथा सुमनसां दद्याद् रौप्यस्यौदुम्बरस्य च ॥२६॥फलानां चैव सर्वेषां वाससामपि नन्दिनि ।चित्रप्रतिकृतिं चैव काष्ठस्य प्रतिमां तथा ॥२७॥शिलां प्रतिकृतिं चैव दध्नोऽथ पयसस्तथा ।सर्पिषा दूर्वया चैव या चान्यामप्यभीप्सति ॥२८॥कालदेशानुरूपं च देयं विभवतः सति ।अल्पं वा बहुलं वापि भर्तुश्छन्देन सर्वदा ॥२९॥तिलपात्रं प्रदातव्यं न देयं ननु शोभने ।गौस्त्ववश्यं प्रदातव्या कपिला कांस्यमेव च ॥३०॥कृष्णाजिनं च सुभगे सतिलं वाससान्वितम् ।आदर्शश्चैव कूर्चश्च तथाजिनमनिन्दिते ॥३१॥एतद् दत्त्वा सर्वकामानाप्नोति वरवर्णिनि ।पुरोऽधिका पुत्रवती सुभगा रूपभागिनी ॥३२॥मृष्टहस्ता धनाढ्या च स्त्री भवत्यमलेक्षणा ।इच्छया लभते चैव कन्या रूपगुणान्विताः ॥३३॥भवन्ति सुभगाश्चर्यास्तथैव च पुरोऽधिकाः ।पुत्रवत्यो धनाढ्याश्च शीलवत्यश्च नित्यदा ॥३४॥अरुन्धति कृतं ह्येतन्मयैव प्रथमं यतः ।उमाव्रतकमित्येव ख्यातमत्र महीतले ॥३५॥एतदेवोत्तमं स्त्रीणां व्रतं तस्मान् समाचरेत् ।सर्वकामानवाप्नोति दत्त्वैवैतदनिन्दिते ॥३६॥एतद्व्रतकरो ह्येव देवदेवो वृषध्वजः ।पुराभिषिक्तवान् सौम्ये प्रियार्थं मम सर्वकृत् ॥३७॥व्रतकस्यावसानेऽथ देयं भोज्यं च नित्यदा ।स्त्रीणां कामाः प्रदेयाश्च सदृशाः कालदेशयोः ॥३८॥एकैकस्य प्रदातव्यं व्रतकं वरवर्णिनि ।छन्दतो ब्राह्मणानां तु देयमन्नं सदक्षिणम् ॥३९॥पायसं तत्र दातव्यं व्रतके नान्यदिष्यते ।नात्र प्राणिवधः कार्यः पुराणे नियता श्रुतिः ॥४०॥अथ द्वितीयं वक्ष्यामि व्रतं सोमसमुद्भवे ।महादेवप्रसादेन दृष्टवत्यस्मि यच्छुभे ॥४१॥सर्वाः पुत्रफला नार्यः सद्भिरेतदुदाहृतम् ।तस्मादन्विष्यती दद्यात् सपुत्रकरकाञ्छुभे ॥४२॥ज्येष्ठाषाढौ शुभौ मासौ पुरोक्तं विधिमाचरेत् ।अथवा ज्येष्ठमेवैकमाषाढं वा समाचरेत् ॥४३॥ततो मासद्वये पूर्णे मासे वा वरवर्णिनि ।सपुत्रकरकान् दद्यात् फाणितप्रतिपूरितान् ॥४४॥सर्पिषः पयसश्चैव दध्नोऽथ मधुनोऽनघे ।जलस्य च तथा दद्यात् पूरयित्वा शशिप्रभे ॥४५॥एकस्मै ज्ञानवृद्धाय सुव्रताय जितात्मने ।सपुत्रकरकान् दद्याद् यावन्तो मनसः प्रियाः ॥४६॥इच्छेत स्त्री दुहितरं स्त्रीणां कामकरं ततः ।किंचिद्द्रव्यं सुताकामात् सुतां प्राप्नोत्यसंशयः ॥४७॥गौर्वाथ काञ्चनं वापि दक्षिणार्थं प्रशस्यते ।विप्रस्याच्छादनं देयमवश्यं तु शुचिस्मिते ॥४८॥यज्ञोपवीतं व्रतके दद्यान्नारी शुचिव्रता ।सपुत्रकरकाणां तु विधिरुक्तो विपश्चिता ॥४९॥अपत्याख्यानयोगेन ब्राह्मणेभ्यः शुचिव्रता ।संवत्सरं सुसम्पूर्णं व्रतधर्मानुपालिनी ॥५०॥करकानपि दद्याच्च पूर्णे संवत्सरे शुभे ।अनुज्ञया सदा भर्तुः सत्यवादिन्यरुन्धति ॥५१॥सुवर्णसूत्रं विप्राय कौमुद्यां दातुमर्हति ।यज्ञोपवीतं विप्रस्य व्रतं संस्थाप्य कामिकम् ॥५२॥यज्ञोपवीतं करकं दक्षिणां च स्वशक्तितः ।प्रयच्छती सती स्त्रीभ्यः सर्वान्कामान्समश्नुते ॥५३॥नवं न भक्षयेत् किंचिन्नारी धान्यमथो फलम् ।पुष्पाणि नोपयुञ्जीत यावदेवं समाचरेत् ॥५४॥एकभक्तेन धर्मज्ञे पुण्यकं कर्तुमर्हति ।ब्राह्मणाय तथा देयं भर्तुश्च तदनन्तरम् ॥५५॥एवं संवत्सरं कृत्वा सुभगा रूपशालिनी ।भवत्यविधवा चैव स्त्री धनस्य तथेश्वरी ॥५६॥वार्ताकानि न खादेद् या स्त्री पूर्णं परिवत्सरम् ।न सा पुत्रविनाशं हि पश्यतीत्यवगम्यताम् ॥५७॥शशकं मृगमांसं वा नित्यमेव विवर्जयेत् ।नाप्नोति मरणं नारी प्राप्नोति पतिदेवताम् ॥५८॥अलाबुं वर्जयेन्नारी तथैवोत्पादिकामपि ।कलम्बीं काञ्चनं नाद्याद्या भर्तुः सुखमिच्छति ॥५९॥पूर्णे संवत्सरे दद्यादेकैकं शाकमादृता ।सदक्षिणं पुत्रवती भवत्येका पुरोऽधिका ॥६०॥अयं प्रक्षालयाना स्त्री स्वपादावेवमादितः ।प्रतिष्ठां लभते नित्यमुद्वेगं नाधिगच्छति ॥६१॥दिवा या सूर्यपूतेन वर्तयेत् स्त्री पतिव्रता ।एकं संवत्सरं पूर्णं रात्रावन्नं विवर्जयेत् ॥६२॥सा जीवपुत्रा सुभगा भवत्यमरवर्णिनि ।अधितिष्ठति सर्वाश्च सपत्न्यो नात्र संशयः ॥६३॥पूर्णे संवत्सरे दद्यात् सौवर्णं सूर्यमुत्तमम् ।ब्राह्मणायाभिरूपाय दरिद्राय यशस्विने ॥६४॥फलानि वाथ पुष्पाणि भक्ष्याण्यपि च सुव्रता ।दद्यादनस्तमितके चरितव्रतका तथा ॥६५॥या तथास्तमिते सूर्ये भुङ्क्ते स्त्री नियता सती ।चन्द्रनक्षत्रपूतानि भोज्यानि वरवर्णिनि ॥६६॥सा दद्यात् काञ्चनं चन्द्रं नक्षत्राणि ग्रहानपि ।अभिरूपाय विप्राय वासश्च लवणान्वितम् ॥६७॥चन्द्रशीतलगात्री सा भवत्यमरवर्णिनी ।सुभगा दर्शनीया च पुत्रवत्यपि भाविनी ॥६८॥पौर्णमास्यां तु सततं प्राप्ते सोमोदयेऽङ्गना ।अर्घ्यं दद्यात् सुमनसां साक्षतं सकुशं तथा ॥६९॥यावकं च बलिं दद्याद् दध्ना च सह संयुतम् ।एवं या कुरुते नित्यं सर्वान्कामानवाप्नुयात् ॥७०॥अदृष्ट्वा या तु नाश्नाति सूर्यं नारी पतिव्रता ।दुर्दिने वाथवा व्यभ्रे सेष्टान् कामानवाप्नुयात् ॥७१॥काञ्चनं शक्तितो दद्यात्सा विप्राय मनस्विनी ।सुभगा दर्शनीया च भवत्यमरवर्णिनी ॥७२॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे व्रतकथने एकोनाशीतितमोऽध्यायः ॥७९॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP