विष्णुपर्व - षट्सप्ततितमोऽध्यायः
महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.
सत्यभामया पुण्यकव्रते श्रीकृष्णस्य नारदाय दानम्, नारदेन निष्क्रयं गृहीत्वा श्रीकृष्णस्य मोचनम् एवं तस्मात् वरप्राप्तिः, श्रीकृष्णेन सम्बन्धिभ्यः पारिजातं दर्शयित्वा पुनः स्वर्गे प्रेषणम्
वैशम्पायन उवाच
अथ कृष्णस्य कौरव्य ध्यातमात्रस्तपोधनः ।
आजगाम मुनिश्रेष्ठो नारदो वदतां वरः ॥१॥
सम्पूजयित्वा विधिवद् वासुदेवो विशाम्पते ।
प्रतिग्रहार्थं विधिवच्छ्रीमान् भक्त्या न्यमन्त्रयत् ॥२॥
ततः काले च सम्प्राप्ते स्नातं देवो महामुनिम् ।
सम्पूज्य माल्यैर्गन्धैश्च भोजयामास भारत ॥३॥
सार्वकामिकमन्नाद्यं सर्वभूतकृदन्वयः ।
सत्यया प्रियया सार्द्धं प्रहृष्टेनान्तरात्मना ॥४॥
पुष्पदामावसृज्याथ कण्ठे कृष्णस्य भाविनी ।
बबन्ध कृष्णं सुभगा पारिजाते वनस्पतौ ॥५॥
अद्भिर्ददौ नारदाय ततोऽनुज्ञाप्य केशवम् ।
देवी धेनुसहस्रं च काञ्चनस्य च पर्वतम् ॥६॥
हिरण्यरूप्यमिश्रं च मणिरत्नप्रभस्य च ।
तिलमिश्रस्य च तथा धान्यैरन्यैर्युतस्य च ॥७॥
प्रतिगृह्य तु तत् सर्वं नारदो मुनिसत्तमः ।
स सम्प्रहृष्टो भुक्त्वाथ भूयः केशवमब्रवीत् ॥८॥
भोः केशव मदीयस्त्वमद्भिर्दत्तोऽसि सत्यया ।
स त्वं मामनुगच्छस्व कुरु यद्यद् ब्रवीम्यहम् ॥९॥
प्रथमः पक्ष इत्येवमब्रवीन्मधुसूदनः ।
व्रजन्तमनुवव्राज नारदं च जनार्दनः ॥१०॥
परिहासं बहुविधं कृत्वा मुनिवरस्तदा ।
तिष्ठस्व गच्छामीत्युक्त्वा परिहासविचक्षणः ॥११॥
अपनीय ततः कण्ठात् पुष्पदामैनमब्रवीत् ।
कपिलां गां सवत्सां भो निष्क्रयार्थं प्रयच्छ मे ॥१२॥
कृष्णाजिनं तिलैः पूर्णं प्रयच्छ च सकाञ्चनम् ।
एषोऽत्र निष्क्रयः कृष्ण विहितो वृषकेतुना ॥१३॥
तथेत्युक्त्वा हृषीकेशस्तथा चक्रे जनाधिप ।
स उवाच मुनिश्रेष्ठं हसित्वा मधुसूदनः ॥१४॥
वरं वरय धर्मज्ञ यस्ते नारद काङ्क्षितः ।
तत्ते दातास्मि धर्मज्ञ परा प्रीतिर्हि मे त्वयि ॥१५॥
नारद उवाच
नित्यमेवास्तु मे प्रीतो भवान् विष्णो सनातन ।
त्वत्प्रसादात्तु सालोक्यं व्रजेयं ते महामते ॥१६॥
अयोनिजो भवेयं ते नारायण सतां गते ।
भवेयं ब्राह्मणश्चैव पुनर्जात्यन्तरेष्वपि ॥१७॥
एवमस्त्विति तं देवो विष्णुः प्रोवाच भारत ।
तुतोष च ततो धीमान् नारदो मुनिसत्तमः ॥१८॥
षोडश स्त्रीसहस्राणि विष्णोरतुलतेजसः ।
निमन्त्रितानि कौरव्य सत्यया हरिक्रान्तया ॥१९॥
तासां ददौ संनियोगमेकैकं हरिवल्लभा ।
शच्या यो वासुदेवस्य पुरा दत्तो नराधिप ॥२०॥
पारिजातो वसंस्तत्र ततः प्रववृते तदा ।
आज्ञया वासुदेवस्य नारदेन महात्मना ॥२१॥
निमन्त्रिता गणाः सर्वे केशवेन महात्मना ।
विभूतिं पारिजातस्य ददृशुः कुरुनन्दन ॥२२॥
पाण्डवांश्चानयामास सहैव पृथया हरिः ।
द्रौपद्या च महातेजास्तथैव च सुभद्रया ॥२३॥
श्रुतश्रवां च ससुतां भीष्मकं ससुतं तदा ।
अन्यानपि च कौरव्य मित्रसम्बन्धिबान्धवान् ॥२४॥
रेमे च सह पार्थेन फाल्गुनेन जनार्दनः ।
सान्तःपुरो महातेजाः परमर्द्ध्यावसन्नृप ॥२५॥
संवत्सरे ततो याते केशिहामरसत्तमः ।
पारिजातं पुनः स्वर्गमानयत् सर्वभावनः ॥२६॥
तत्रादितिं कश्यपं च दृष्ट्वा स्वजननीं प्रभुः ।
शक्रेण सहितो धीमानप्रमेयपराक्रमः ॥२७॥
तमुवाचादितिर्माता प्रणतं मधुसूदनम् ।
सौभ्रात्रमस्तु वामेवं नित्यं चामरसत्तम ॥२८॥
मनोरथं मम त्वं च पूरयस्व जनार्दन ।
तथेत्येवाब्रवीत्कृष्णस्ततो मातरमात्मवान् ॥२९॥
आमन्त्रयित्वा पितरौ देवराजानमब्रवीत् ।
वासुदेवो महातेजाः कालप्राप्तमिदं वचः ॥३०॥
महादेवेन देवेश संदिष्टोऽस्मि महात्मना ।
भन्तर्भूमितलेऽवध्यानसुरान् प्रति मानद ॥३१॥
तदितो दशरात्रेण हन्ताहमसुरोत्तमान् ।
तत्रोपविष्टान् स्थातव्यं प्रवरेण महात्मना ॥३२॥
जयन्तेन च वीरेण दानवानां जिघांसया ।
एकोऽत्र मानुषो देवो देवपुत्रस्तथा परः ॥३३॥
अवध्याः किल ते देवैर्ब्रह्मणो वरदर्पिताः ।
अस्माभिः किल हन्तव्या मानुषत्वमुपागतैः ॥३४॥
तथेति कृष्णं स हरिः प्रीतरूपस्तथाव्रवीत् ।
सस्वजाते ततो देवावन्योन्यं जनमेजय ॥३५॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे स्वर्गे पारिजातस्थापने षट्सप्ततितमोऽध्यायः ॥७६॥
N/A
References : N/A
Last Updated : July 19, 2018
TOP