संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| एकपञ्चाशत्तमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - एकपञ्चाशत्तमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण एकपञ्चाशत्तमोऽध्यायः Translation - भाषांतर श्रीकृष्णस्य भीष्मकेण सह संवादः, भीष्मकेण कृष्णस्य स्तुतिः, कृष्णस्य मथुरागमनम्भीष्मक उवाचपुत्रो मे बाल भावेन भगिनीं दातुमिच्छति ।स्वयंवरे नरेन्द्राणां न चाहं दातुमुत्सहे ॥१॥अतीव बालभावत्वाद् दातुमिच्छेन्मतिर्मम ।एका ह्येकं समालोक्य वरयिष्यति मे मतिः ॥२॥अतः प्रसादयिष्ये त्वां पुत्रदुर्नयहेतुना ।प्रसादं कुरु देवेश क्षन्तुमर्हसि मे प्रभो ॥३॥श्रीकृष्ण उवाचबालभावेन पुत्रेण चालितं नृपमण्डलम् ।यदा भवति वै प्रौढः कीदृशोऽविनयो भवेत् ॥४॥सूर्येन्दुसदृशाँल्लोकांस्तपसोपार्जितश्रियः ।लोकेऽस्मिन् नरदेवानां महाकुलसमुद्भवान् ॥५॥एकस्यापि नृपस्याग्रे मोहाद् यो वितथं वदेत् ।न स तिष्ठति लोकेऽस्मिन्निर्दहेद्दण्डवह्निना ॥६॥एष धर्मो नरेन्द्राणामिति ते विदितं प्रभो ।लोकधर्मं पुरस्कृत्य पुरा गीतं स्वयम्भुवा ॥७॥कथं तव सुतस्तेषामग्रतो मनुजेश्वर ।वक्तुमर्हति राजेन्द्र वितथं राजसंसदि ॥८॥तादृशं रङ्गमतुलं कारयंस्तनयस्तव ।कथं त्वया ह्यविज्ञात इति मे संशयो महान् ॥९॥आगतानां नरेन्द्राणामनलार्केन्दुवर्चसाम् ।यथार्हेण तु सम्पूज्य आतिथ्यं कृतवानसि ॥१०॥रथाश्वनरनागानां विमर्दमतुलं तथा ।कथं न ज्ञातवान् राजंस्तव पुत्रस्य चेष्टितम् ॥११॥विषादो न भवेदत्र चतुरङ्गबलागमे ।कथं न ज्ञायते राजन्निति मे बुद्धिसंशयः ॥१२॥ममागमनमेवेह प्रायेण न हितं तव ।अतो न कृतमातिथ्यमपात्राय नरेश्वर ॥१३॥पात्रेभ्यो दीयतां कन्या मामपास्य नरेश्वर ।ममागमनदोषेण कथं कन्यां न दास्यसे ॥१४॥कन्याविघ्नं च कुर्वाणो नरके परिपच्यते ।इति धर्मविदैर्गीतं मन्वादिभिर्नरोत्तमैः ॥१५॥अतोऽर्थं न प्रविष्टोऽहं रङ्गमध्ये विशाम्पते ।विदित्वा न कृतातिथ्यं नरदेव तवालयम् ॥१६॥ह्रियाभिभूतो राजेन्द्र पार्थिवोऽहं नराधिप ।विदर्भनगरे राजन् बलविश्रामहेतुना ॥१७॥आवाभ्यां कृतमातिथ्यं कैशिकस्तु प्रियातिथिः ।उषितौ च यथा स्वर्गे पुरा गरुडकेशवौ ॥१८॥वैशम्पायन उवाचएवमेव ब्रुवाणं तु कृष्णं वाग्वज्रचोदितम् ।श्लक्ष्णवाचाम्बुनाऽऽसिच्य शमितोऽग्निरिव ज्वलन् ॥१९॥भीष्मक उवाचप्रसीद देवलोकेश पाहि मां लोकशासन ।अज्ञानतमसाविष्टं ज्ञानचक्षुःप्रदो भव ॥२०॥मानुष्ये मांसचक्षुष्ट्वादसम्यग्विदिता वयम् ।न प्रसिद्ध्यन्ति कर्माणि क्रियतामविचारणात् ॥२१॥भवन्तं शरणं प्राप्य देवानामपि दैवतम् ।सम्यग् भवतु मे दृष्टिः सम्पश्यन्तु च मे क्रियाः ॥२२॥अनिष्पन्नामपि क्रियां नयोपेतां विचक्षणाः ।फलदां हि प्रकुर्वन्ति महासेनापतिर्यथा ॥२३॥भवन्तं शरणं प्राप्य नाति बाधति मे भयम् ।यन्मया चिन्तितं कार्य तद् भवाञ्छ्रोतुमर्हति ॥२४॥न दातुमिच्छे कन्यां वै पार्थिवेभ्यः स्वयंवरे ।प्रसादं कुरु देवेश न कोपं कर्तुमर्हसि ॥२५॥श्रीकृष्ण उवाचवचनेन किमुक्तेन त्वया राजन् महामते ।स्वकन्यां दास्यसे नेति कोऽत्र नेता तवानघ ॥२६॥मा देहीति न चाख्येयं ददस्वेति न मे वचः ।रुक्मिण्या दिव्यमूर्तित्वं सम्बन्धे कारणं मम ॥२७॥मेरुकूटे पुरा देवैः कृतमंशावतारणम् ।तदा निसृष्टा श्रीः पूर्वं गच्छ त्वं पतिना सह ॥२८॥मानुष्ये कुण्डिनगरे भीष्मकस्याङ्गनोदरे ।जायस्व विपुलश्रोणि प्रत्यवेक्ष्य च वासवम् ॥२९॥तेनाहं वः प्रवक्ष्यामि राजन्नकृतकं वचः ।श्रुत्वा स्वयं विनिश्चित्य यद्युक्तं तत्करिष्यति ॥३०॥रुक्मिणी नाम ते कन्या न सा प्राकृतमानुषी ।श्रीरेषा ब्रह्मवाक्येन जाता केनापि हेतुना ॥३१॥न च सा मनुजेन्द्राणां स्वयंवरविधिक्षमा ।एका त्वेकाय दातव्या इति धर्मो व्यवस्थितः ॥३२॥न च तां शक्यसे राजँल्लक्ष्मीं दातुं स्वयंवरे ।सदृशं वरमालोक्य दातुमर्हसि धर्मतः ॥३३॥अतोऽर्थं वैनतेयोऽयं विघ्नकारणहेतुना ।आगतः कुण्डिनगरे देवराजेन चोदितः ॥३४॥अहं चैवागतो राज्ञां द्रष्टुकामो महोत्सवम् ।तां च कन्यां वरारोहां पद्मेन रहितां श्रियम् ॥३५॥क्षन्तव्यमिति यत् प्रोक्तं त्वया राजन् ममाग्रतः ।युक्तिपूर्वमहं मन्ये कलुषाय न पार्थिव ॥३६॥पूर्वमेव मयाऽऽख्यातं येनास्मि विषये तव ।आगतः सौम्यरूपेण तेनैव क्षान्तवान् विभो ॥३७॥क्षान्तेषु गुणबाहुल्यं दोषापहरणं क्षमा ।कथमस्मद्विधे राजन् कलुषो वसते हृदि ॥३८॥कुलजे सत्त्वसम्पन्ने धर्मज्ञे सत्यवादिनि ।भवादृशे कथं राजन् कलुषो भुवि वर्तते ॥३९॥क्षान्तोऽयमिति मन्तव्यं मम सेनासहागतम् ।न चाहं सेनया सार्द्धं यास्यामि रिपुवाहिनीम् ॥४०॥अक्षान्तश्चारिसेनायां यास्यामि द्विजवाहने ।स्थितः सोमार्कसंकाशान्यायुधानि करैर्वहन् ॥४१॥मान्योऽस्माकं त्वया राजन् वयसा च पिता समः ।पालयस्व पुरीं सम्यक्क्षत्रेषु पितृवद् वस ॥४२॥कलुषो नाम राजेन्द्र वसेत् कापुरुषेषु वै ।शूरेषु शुद्धभावेषु कलुषो वसते कथम् ॥४३॥जानीध्वमेषा मे वृत्तिः पुत्रेषु पितृवद् वयम् ।इमावपि च राजानौ विदर्भनगराधिपौ ॥४४॥आतिथ्यकरणेऽस्माकं स्वराज्यं ददतावुभौ ।तेन दानफलेनास्य दशपूर्वा दिवं गताः ॥४५॥भविष्याश्चैव राजानः पुत्रपौत्रा दशावराः ।तेऽपि तत्रैव यास्यन्ति देवलोकं नराधिपाः ॥४६॥अनयोः सुचिरं कालं भुक्त्वा राज्यमकण्टकम् ।यदाभिलाषो मोक्षस्य यास्येते निर्वृतिं सुखम् ॥४७॥नरेन्द्राश्च महाभागा येऽभिषेचितुमागताः ।कालेन तेऽपि यास्यन्ति देवलोकं त्रिविष्टपम् ॥४८॥स्वस्ति वोऽस्तु गमिष्यामि वैनतेयसहायवान् ।नगरीं मथुरां रम्यां भोजराजेन पालिताम् ॥४९॥वैशम्पायन उवाचएवमुक्त्वा तु राजानं भीष्मकं यदुनन्दनः ।राज्ञश्चैवमुपामन्त्र्य वैदर्भाभ्यां विशेषतः ॥५०॥सभान्निष्क्रम्य देवेशो जगाम रथमन्तिकम् ।ततः प्रहृष्टो राजर्षिर्भीष्मकः किल केशवम् ॥५१॥ते सर्वे च महीपाला विषण्णवदनाभवन् ।आद्यं स्वायम्भुवं रूपं सुरासुरनमस्कृतम् ॥५२॥सहस्रपात्सहस्राक्षं सहस्रभुजविग्रहम् ।सहस्रशिरसं देवं सहस्रमुकुटोज्ज्वलम् ॥५३॥दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।दिव्याभरणसंयुक्तं दिव्यानेकोद्यतायुधम् ॥५४॥कृष्णं रक्तारविन्दाक्षं चन्द्रसूर्याग्निलोचनम् ।दृष्ट्वा स राजा राजेन्द्रं प्रणिपत्य कृताञ्जलिः ॥५५॥वाङ्मनःकायसंयुक्तं स्तोतुमारब्धवांस्तदा ।भीष्मक उवाचदेवदेव नमस्तुभ्यमनादिनिधनाय वै ॥५६॥शाश्वतायादिदेवाय नारायण परायण ।स्वयम्भुवे च विश्वाय स्थाणवे वेधसाय च ॥५७॥पद्मनाभाय जटिने दण्डिने पिङ्गलाय च ।हंसप्रभाय हंसाय चक्ररूपाय वै नमः ॥५८॥वैकुण्ठाय नमस्तस्मै अजाय परमात्मने ।सदसद्भावयुक्ताय पुराणपुरुषाय च ॥५९॥पुरुषोत्तमाय युक्ताय निर्गुणाय नमोऽस्तु ते ।वरदो भव मे नित्यं त्वद्भक्ताय सुरोत्तम ॥६०॥लोकनाथोऽसि नाथ त्वं विष्णुस्त्वं विदितात्मनाम् ।वैशम्पायन उवाचएवं स्तुत्वा महादेवं नृपाणामग्रतो नृपः ॥६१॥महार्हमणिमुक्ताभिर्वज्रवैदूर्यहासिनम् ।शातकुम्भस्य निचयं कृष्णाय प्रददौ नृपः ॥६२॥पुनश्चक्रे नमस्कारं वैनतेये महाबले ।भीष्मक उवाचनमस्तस्मै खगेन्द्राय नमो मारुतरंहसे ॥६३॥कामरूपाय दिव्याय काश्यपाय च वै नमः ।वैशम्पायन उवाचइति संक्षेपतः स्तुत्वा सत्कृत्य वरभूषणैः ॥६४॥ततो विसर्जयामास कृष्णं कमललोचनम् ।अनुजग्मुर्नृपाश्चैव प्रस्थितं वासवानुजम् ॥६५॥प्रतिगृह्य च सत्कारं नृपानामन्त्र्य वीर्यवान् ।जगाम मथुरां कृष्णो द्योतयानो दिशो दश ॥६६॥वैनतेयं पुरस्कृत्य सौम्यरूपं खगोत्तमम् ।महता रथवृन्देन परिवार्य समन्ततः ॥६७॥भेरीपटहनादेन शङ्खदुन्दुभिनिःस्वनैः ।बृंहितेन च नागानां हयानां हेषितेन च ॥६८॥सिंहनादेन शूराणां रथनेमिस्वनेन च ।तुमुलः सुमहानासीन्महामेघरवोपमः ॥६९॥गते कृष्णे महावीर्ये आदाय वरमासनम् ।सभामादाय देवाश्च प्रययुस्त्रिदशालयम् ॥७०॥महता चतुरङ्गेण बलेन परिवारिताः ।क्रोशमात्रमुपव्रज्य अनुज्ञाते जनार्दने ॥७१॥प्रययुस्ते नृपाः सर्वे पुनरेव स्वयंवरम् ॥७२॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि श्रीकृष्णाभिषेको नामैकपञ्चाशत्तमोऽध्यायः ॥५१॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP