संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| षडधिकशततमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - षडधिकशततमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण षडधिकशततमोऽध्यायः Translation - भाषांतर शम्बरासुरप्रद्युम्नानां मायामयं युद्धं, शम्बरस्य चिन्ता, देवराजस्य इन्द्रस्याज्ञया नारदेन प्रद्युम्नं तस्य पूर्वरूपस्य स्मारणं आवश्यकस्य कर्तव्यस्य सुज्ञानं चवैशम्पायन उवाचशम्बरस्तु ततः क्रुद्धः सूतमाह विशाम्पते ।शत्रुप्रमुखतो वीर रथं मे वाहय द्रुतम् ॥१॥यावदेनं शरैर्हन्मि मम विप्रियकारकम् ।ततो भर्तृवचः श्रुत्वा सूतस्तत्प्रियकारकः ॥२॥रथं संचोदयामास चामीकरविभूषितम् ।तं दृष्ट्वा रथमायान्तं प्रद्युम्नः फुल्ललोचनः ॥३॥संदधे चापमादाय शरं कनकभूषितम् ।तेनाहनत् सुसंक्रुद्धः कोपयञ्शम्बरं रणे ॥४॥हृदये ताडितस्तेन देवशत्रुः सुविक्लवः ।रथशक्तिं समाश्रित्य तस्थौ सोऽथ विचेतनः ॥५॥स चेतनां पुनः प्राप्य धनुरादाय शम्बरः ।विव्याध कार्ष्णिं कुपितः सप्तभिर्निशितैः शरैः ॥६॥तानप्राप्ताञ्शरान् सोऽथ सप्तभिः सप्तधाच्छिनत् ।शम्बरं च जघानाथ सप्तत्या निशितैः शरैः ॥७॥पुनः शरसहस्रेण कङ्कबर्हिणवाससा ।अहनच्छम्बरं क्रोधाद् धाराभिरिव पर्वतम् ॥८॥प्रदिशो विदिशश्चैव शरधारासमावृताः ॥९॥अन्धकारीकृतं व्योम दिनकर्ता न दृश्यते ।ततोऽन्धकारमुत्सार्य वैद्युतास्त्रेण शम्बरः ॥१०॥प्रद्युम्नस्य रथोपस्थे शरवर्षं मुमोच ह ।तदस्त्रजालं प्रद्युम्नः शरेणानतपर्वणा ॥११॥चिच्छेद बहुधा राजन्दर्शयन् पाणिलाघवम् ।हते तस्मिन् महावर्षे शराणां कार्ष्णिना तदा ॥१२॥द्रुमवर्षं मुमोचाथ मायया कालशम्बरः ।द्रुमवर्षोच्छ्रितं दृष्ट्वा प्रद्युम्नः क्रोधमूर्च्छितः ॥१३॥आग्नेयास्त्रं मुमोचाथ तेन वृक्षाननाशयत् ।भस्मीभूते वृक्षवर्षे शिलासंघातमुत्सृजत् ॥१४॥प्रद्युम्नस्तं तु वायव्यैः प्रोत्सारयत संयुगे ।ततो मायां परां चक्रे देवशत्रुः प्रतापवान् ॥१५॥सिंहान्व्याघ्रान् वराहांश्च तरक्षूनृक्षवानरान् ।वारणान् वारिदप्रख्यान्हयानुष्ट्रान्विशाम्पते ॥१६॥मुमोच धनुरायम्य प्रद्युम्नस्य रथोपरि ।गान्धर्वास्त्रेण चिच्छेद सर्वांस्तान्खण्डशस्तदा॥१७॥प्रद्युम्नेन तु सा माया हता तां वीक्ष्य शम्बरः ।अन्यां मायां मुमोचाथ शम्बरः क्रोधमूर्च्छितः ॥१८॥गजेन्द्रान् भिन्नवदनान् षष्टिहायनयौवनान् ।महामात्रोत्तमारूढान् कल्पितान् रणकोविदान् ॥१९॥तामापतन्तीं मायां तु कार्ष्णिः कमललोचनः ।सैंहीं मायां समुत्स्रष्टुं चक्रे बुद्धिं महामनाः ॥२०॥सा सृष्टा सिंहमाया तु रौक्मिणेयेन धीमता ।माया नागवती नष्टा आदित्येनेव शर्वरी ॥२१॥निहतां हस्तिमायां तु तां समीक्ष्य महासुरः ।अन्यां सम्मोहिनीं मायां सोऽसृजद् दानवोत्तमः॥२२॥तां दृष्ट्वा मोहिनीं नाम मायां मयविनिर्मिताम् ।संज्ञास्त्रेण तु प्रद्युम्नो नाशयामास वीर्यवान् ॥२३॥शम्बरस्तु ततः क्रुद्धो हतया मायया तदा ।सैंहीं मायां महातेजाः सोऽसृजद् दानवेश्वरः ॥२४॥सिंहानापततो दृष्ट्वा रौक्मिणेयः प्रतापवान् ।अस्त्रं गान्धर्वमादाय शरभानसृजत् तदा ॥२५॥तेऽष्टापदा बलोदग्रा नखदंष्ट्रायुधा रणे ।सिंहान् विद्रावयामासुर्वायुर्जलधरानिव ॥२६सिंहान् विद्रवतो दृष्ट्वा माययाष्टापदेन वै ।शम्बरश्चिन्तयामास कथमेनं निहन्मि वै ।अहो मूर्खस्वभावोऽहं यन्मया न हतः शिशुः ॥२७॥प्राप्तयौवनदेहस्तु कृतास्त्रश्चापि दुर्मतिः ।तत् कथं निहनिष्यामि शत्रुं रणशिरःस्थितम् ॥२८॥माया सा तिष्ठते तीव्रा पन्नगी नाम भीषणा ।दत्ता मे देवदेवेन हरेणासुरघातिना ॥२९॥तां सृजामि महामायामाशीविषसमाकुलाम् ।तया दह्येत दुष्टात्मा ह्येष मायामयो बली ॥३०॥सा सृष्टा पन्नगी माया विषज्वालासमाकुला ।तया पन्नगमय्या तु सरथं सहवाजिनम् ॥३१॥ससूत स हि प्रद्युम्नं बबन्ध शरबन्धनैः ।बध्यमानं तदा दृष्ट्वा आत्मानं वृष्णिवंशजः ॥३२॥मायां संचिन्तयामास सौपर्णीं सर्पनाशिनीम् ।सा चिन्तिता महामाया प्रद्युम्नेन महात्मना ॥३३॥सुपर्णा विचरन्ति स्म सर्पा नष्टा महाविषाः ।भग्नायां सर्पमायायां प्रशंसन्ति सुरासुराः ॥३४॥साधु वीर महाबाहो रुक्मिण्यानन्दवर्धन ।यत्त्वया धर्षिता माया तेन स्म परितोषिताः ॥३५॥हतायां सर्पमायायां शम्बरोऽचिन्तयत् पुनः ।अस्ति मे कालदण्डाभो मुद्गरो हेमभूषितः ॥३६॥तमप्रतिहतं युद्धे देवदानवमानवैः ।पुरा यो मम पार्वत्या दत्तः परमतुष्टया ॥३७॥गृहाण शम्बरेमं त्वं मुद्गरं हेमभूषितम् ।मया सृष्टं स्वदेहे वै तपः परमदुश्चरम् ॥३८॥मायान्तकरणं नाम सर्वासुरविनाशनम् ।अनेन दानवौ रौद्रौ बलिनौ कामरूपिणौ ॥३९॥शुम्भश्चैव निशुम्भश्च सगणौ सूदितौ मया ।प्राणसंशयमापन्ने त्वया मोक्ष्यः स शत्रवे ॥४०॥इत्युक्त्वा पार्वती देवी तत्रैवान्तरधीयत ।तदहं मुद्गरं श्रेष्ठं मोचयिष्यामि शत्रवे ॥४१॥तस्य विज्ञाय चित्तं तु देवराजोऽभ्यभाषत ।गच्छ नारद शीघ्रं त्वं प्रद्युम्नस्य रथं प्रति ॥४२॥सम्बोधय महाबाहुं पूर्वजातिं च मोक्षय ।वैष्णवास्त्रं प्रयच्छास्मै वधार्थं शम्बरस्य च ॥४३॥अभेद्यं कवचं चास्य प्रयच्छासुरसूदने ।एवमुक्तो मघवता नारदः प्रययौ त्वरम् ॥४४॥आकाशेऽधिष्ठितोऽवोचन्मकरध्वजकेतनम् ।कुमार पश्य मां प्राप्तं देवगन्धर्वनारदम् ।प्रेषितं देवराजेन तव सम्बोधनाय वै ॥४५॥स्मर त्वं पूर्वकं भावं कामदेवोऽसि मानद ।हरकोपानलाद् दग्धस्तेनानङ्ग इहोच्यसे ॥४६॥त्वं वृष्णिवंशजातोऽसि रुक्मिण्या गर्भसम्भवः ।जातोऽसि केशवेन त्वं प्रद्युम्न इति कीर्त्यसे ॥४७॥आहृत्य शम्बरेण त्वमिहानीतोऽसि मानद ।सप्तरात्रे त्वसम्पूर्णे सूतिकागारमध्यतः ॥४८॥वधार्थं शम्बरस्य त्वं ह्रियमाणो ह्युपेक्षितः ।केशवेन महाबाहो देवकार्यार्थसिद्धये ॥४९॥यैषा मायावती नाम भार्या वै शम्बरस्य तु ।रतिं तां विद्धि कल्याणीं तव भार्यां पुरातनीम् ॥५०॥तव संरक्षणार्थाय शम्बरस्य गृहेऽवसत् ।मायां शरीरजां तस्य मोहनार्थं दुरात्मनः ॥५१॥रतेः सम्पादनार्थाय प्रेषयत्यनिशं तदा ।एवं प्रद्युम्न बुद्ध्वा वै तत्र भार्या प्रतिष्ठिता ॥५२ ।हत्वा तं शम्बरं वीर वैष्णवास्त्रेण संयुगे ।गृह्य मायावतीं भार्यां द्वारकां गन्तुमर्हसि ॥५३॥गृहाण वैष्णवं चास्त्रं कवचं च महाप्रभम् ।शक्रेण तव संगृह्य प्रेषितं शत्रुसूदन ॥५४॥शृणु मे ह्यपरं वाक्यं क्रियतामविशङ्कया ।अस्य देवरिपोस्तात मुद्गरो नित्यमूर्जितः ॥५५॥पार्वत्यां परितुष्टायां दत्तः शत्रुनिबर्हणः ।अमोघश्चैव संग्रामे देवदानवमानवैः ॥५६॥तदस्त्रप्रविघातार्थं देवीं त्वं स्मर्तुमर्हसि ।स्तव्या चैव नमस्या च महादेवी रणोत्सुकैः ॥५७॥तत्र वै क्रियतां यत्नः संग्रामे रिपुणा सह ।इत्युक्त्वा नारदो वाक्यं प्रययौ यत्र वासवः ॥५८॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शम्बरवधे नारदवाक्ये षडधिकशततमोऽध्यायः ॥१०६॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP