संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| द्वादशोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - द्वादशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण द्वादशोऽध्यायः Translation - भाषांतर श्रीकृष्णेन कालियनागस्य दमनं, तस्य समुद्रं प्रति प्रस्थानं एवं गोपेभिः श्रीकृष्णस्य महत्तायाः अनुभवंवैशम्पायन उवाचसोपसृत्य नदीतीरं बद्ध्वा परिकरं दृढम् ।आरोहच्चपलः कृष्णः कदम्बशिखरं मुदा ॥१॥कृष्णः कदम्बशिखराल्लम्बमानो घनाकृतिः ।ह्रदमध्येऽकरोच्छब्दं निपतन्नम्बुजेक्षणः ॥२॥कृष्णेन तत्र पतता क्षुभितो यमुनाह्रदः ।सम्प्रासिच्यत वेगेन भिद्यमान इवाम्बुदः ॥३॥तेन शब्देन संक्षुब्धं सर्पस्य भवनं महत् ।उदतिष्ठज्जलात् सर्पो रोषपर्याकुलेक्षणः ॥४॥स चोरगपतिः क्रुद्धो मेघराशिसमप्रभः ।ततो रक्तान्तनयनः कालियः समदृश्यत ॥५॥पञ्चास्यः पावकोच्छ्वासश्चलज्जिह्वोऽनलाननः ।पृथुभिः पञ्चभिर्घोरैः शिरोभिः परिवारितः ॥६॥पूरयित्वा ह्रदं सर्वं भोगेनानलवर्चसा ।स्फुरन्निव च रोषेण ज्वलन्निव च तेजसा ॥७॥क्रोधेन ज्वलतस्तस्य जलं शृतमिवाभवत् ।प्रतिस्रोताश्च भीतेव जगाम यमुना नदी ॥८॥तस्य क्रोधाग्निपूर्णेभ्यो वक्त्रेभ्योऽभूच्च मारुतः ।दृष्ट्वा कृष्णं ह्रदगतं क्रीडन्तं शिशुलीलया ॥९॥सधूमाः पन्नगेन्द्रस्य मुखान्निश्चेरुरर्चिषः ।सृजता तेन रोषाग्निं समीपे तीरजा द्रुमाः ॥१०॥क्षणेन भस्मसान्नीता युगान्तप्रतिमेन वै ।तस्य पुत्राश्च दाराश्च भृत्याश्चान्ये महोरगाः ॥११॥वमन्तः पावकं घोरं वक्त्रेभ्यो विषसम्भवम् ।सधूमं पन्नगेन्द्रास्ते निपेतुरमितौजसः ॥१२॥प्रवेशितश्च तैः सर्पैः स कृष्णो भोगबन्धनम् ।निर्यत्नचरणाकारस्तस्थौ गिरिरिवाचलः ॥१३॥अदशन् दशनैस्तीक्ष्णैर्विषोत्पीडजलाविलैः ।ते कृष्णं सर्पपतयो न ममार च वीर्यवान् ॥१४॥एतस्मिन्नन्तरे भीता गोपालाः सर्व एव ते ।क्रन्दमाना व्रजं जग्मुर्वाष्पगद्गदया गिरा ॥१५॥गोपा ऊचुःएष मोहं गतः कृष्णो मग्नो वै कालिये ह्रदे ।भक्ष्यते सर्पराजेन तदागच्छत मा चिरम् ॥१६॥नन्दगोपाय वै क्षिप्रं सबलाय निवेद्यताम् ।एष ते कृष्यते कृष्णः सर्पेणेति महाह्रदे ॥१७॥नन्दगोपस्तु तच्छ्रुत्वा वज्रपातोपमं वचः ।आर्तः स्खलितविक्रान्तस्तं जगाम ह्रदोत्तमम् ॥१८॥सबालयुवतीवृद्धः स च संकर्षणो युवा ।आक्रीडं पन्नगेन्द्रस्य जलस्थं समुपागमत् ॥१९॥नन्दगोपमुखा गोपास्ते सर्वे साश्रुलोचनाः ।हाहाकारं प्रकुर्वन्तस्तस्थुस्तीरे ह्रदस्य वै ॥२०॥व्रीडिता विस्मिताश्चैव शोकार्ताश्च पुनः पुनः ।केचित्तु पुत्र हा हेति हा धिगित्यपरे पुनः ॥२१॥अपरे हा हताः स्मेति रुरुदुर्भृशदुःखिताः ।स्त्रियश्चैव यशोदां तां हा हतासीति चुक्रुशुः ॥२२॥या पश्यसि प्रियं पुत्रं सर्पराजवशं गतम् ।स्पन्दितं सर्पभोगेन कृष्यमाणं यथा मृतम् ॥२३॥अश्मसारमयं नूनं हृदयं ते विलक्ष्यते ।पुत्रं कथमिमं दृष्ट्वा यशोदे नावदीर्यसे ॥२४॥दुःखितं बत पश्यामो नन्दगोपं ह्रदान्तिके ।न्यस्य पुत्रमुखे दृष्टिं निश्चेतनमवस्थितम् ॥२५॥यशोदामनुगच्छन्त्यः सर्पावासमिमं ह्रदम् ।प्रविशामो न यास्यामो विना दामोदरं व्रजम् ॥२६॥दिवसः को विना सूर्यं विना चन्द्रेण का निशा ।विना वृषेण का गावो विना कृष्णेन को व्रजः ।विना कृष्णं न यास्यामो विवत्सा इव धेनवः ॥२७॥तासां विलपितं श्रुत्वा तेषां च व्रजवासिनाम् ।विलापं नन्दगोपस्य यशोदारुदितं तथा ॥२८॥एकभावशरीरज्ञ एकदेहो द्विधा कृतः ।संकर्षणस्तु संक्रुद्धो बभाषे कृष्णमव्ययम् ॥२९॥कृष्ण कृष्ण महाबाहो गोपानां नन्दवर्द्धन ।दम्यतामेष वै क्षिप्रं सर्पराजो विषायुधः ॥३०॥इमे नो बान्धवास्तात त्वां मत्वा मानुषं विभो ।परिदेवन्ति करुणं सर्वे मानुषबुद्धयः ॥३१॥तच्छ्रुत्वा रौहिणेयस्य वाक्यं संज्ञासमीरितम् ।विक्रम्यास्फोटयद् बाहू भित्त्वा तन्नागबन्धनम् ॥३२॥तस्य पद्भ्यामथाक्रम्य भोगराशिं जलोत्थितम् ।शिरस्तु कृष्णो जग्राह स्वहस्तेनावनाम्य च ॥३३॥तस्यारुरोह सहसा मध्यमं तन्महच्छिरः ।सोऽस्य मूर्ध्नि स्थितः कृष्णो ननर्त रुचिराङ्गदः ॥३४॥मृद्यमानः स कृष्णेन शान्तमूर्धा भुजङ्गमः ।आस्यैः सरुधिरोद्गारैः कातरो वाक्यमब्रवीत् ॥३५॥अविज्ञानान्मया कृष्ण रोषोऽयं सम्प्रदर्शितः ।दमितोऽहं हतविषो वशगस्ते वरानन ॥३६॥तदाज्ञापय किं कुर्यां सदा सापत्यबान्धवः ।कस्य वा वशतां यामि जीवितं मे प्रदीयताम् ॥३७॥पञ्चमूर्द्धानतं दृष्ट्वा सर्पं सर्पारिकेतनः ।अक्रुद्ध एव भगवान् प्रत्युवाचोरगेश्वरम् ॥३८॥तवास्मिन् यमुनातोये नैव स्थानं ददाम्यहम् ।गच्छार्णवजलं सर्प सभार्यः सहबान्धवः ॥३९॥यश्चेह भूयो दृश्येत स्थाने वा यदि वा जले ।तव भृत्यस्तनूजो वा क्षिप्रं वध्यः स मे भवेत् ॥४०॥शिवं चास्य जलस्यास्तु त्वं च गच्छ महार्णवम् ।स्थाने त्विह भवेद् दोषस्तवान्तकरणो महान् ॥४१॥मत्पदानि च ते सर्प दृष्ट्वा मूर्धसु सागरे ।गरुडः पन्नगरिपुस्त्वयि न प्रहरिष्यति ॥४२॥गृह्य मूर्ध्ना तु चरणौ कृष्णस्योरगपुङ्गवः ।पश्यतामेव गोपानां जगामादर्शनं ह्रदात् ॥४३॥निर्जिते तु गते सर्पे कृष्णमुत्तीर्य धिष्ठितम् ।विस्मितास्तुष्टुवुर्गोपाश्चक्रुश्चैव प्रदक्षिणम् ॥४४॥ऊचुः सर्वे च सम्प्रीता नन्दगोपं वनेचराः ।धन्योऽस्यनुगृहीतोऽसि यस्य ते पुत्र ईदृशः ॥४५॥अद्यप्रभृति गोपानां गवां गोष्ठस्य चानघ ।आपत्सु शरणं कृष्णः प्रभुश्चायतलोचनः ॥४६॥जाता शिवजला सर्वा यमुना मुनिसेविता ।तीरे चास्याः सुखं गावो विचरिष्यन्ति नः सदा ॥४७॥व्यक्तमेव वयं गोपा वने यत् कृष्णमीदृशम् ।महद्भूतं न जानीमश्छन्नमग्निमिव व्रजे ॥४८॥एवं ते विस्मिताः सर्वे स्तुवन्तः कृष्णमव्ययम् ।जग्मुर्गोपगणा घोषं देवाश्चैत्ररथं यथा ॥४९॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शिशुचर्यायां कालियदमने द्वादशोऽध्यायः ॥१२॥ N/A References : N/A Last Updated : July 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP