संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| षष्टितमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - षष्टितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण षष्टितमोऽध्यायः Translation - भाषांतर श्रीकृष्णेन रुक्मेः पराजयम्, रुक्मिण्याद्या सह श्रीकृष्णस्य विवाहः, तेभ्यः उत्पन्नानां सन्तानानां संक्षेपतः परिचयम्वैशम्पायन उवाचकृष्णेन ह्रियमाणां तां रुक्मी श्रुत्वा तु रुक्मिणीम् ।प्रतिज्ञामकरोत क्रुद्धः समक्षं भीष्मकस्य ह ॥१॥रुक्म्युवाचअहत्वा युधि गोविन्दमनानीय च रुक्मिणीम् ।कुण्डिनं न प्रवेक्ष्यामि सत्यमेतद् ब्रवीम्यहम् ॥२॥आस्थाय स रथं वीरः समुदग्रायुधध्वजम् ।जवेन प्रययौ क्रुद्धो बलेन महता वृतः ॥३॥तमन्वयुर्नृपाश्चैव दक्षिणापथवर्तिनः ।क्राथोंऽशुमाञ्छ्रुतर्वा च वेणुदारिश्च वीर्यवान् ॥४॥भीष्मकस्य सुताश्चान्ये रथेन रथिनां वराः ।क्रथकैशिकमुख्याश्च सर्व एव महारथाः ॥५॥ते गत्वा दूरमध्वानं सरितं नर्मदामनु ।गोविन्दं ददृशुः क्रुद्धाः सहैव प्रियया स्थितम् ॥६॥अवस्थाप्य च तत्सैन्यं रुक्मी मदबलान्वितः ।चिकीर्षुर्द्वैरथं युद्धमभ्ययान्मधुसूदनम् ॥७॥स विव्याध चतुःषष्ट्या गोविन्दं निशितैः शरैः ।तं प्रत्यविध्यत् सप्तत्या बाणैर्युधि जनार्दनः ॥८॥यतमानस्य चिच्छेद ध्वजं चास्य महाबलः ।जहार च शिरः कायात्सारथेस्तस्य वीर्यवान् ॥९॥तं कृच्छ्रगतमाज्ञाय परिवव्रुर्जनार्दनम् ।दाक्षिणात्या जिघांसन्तो राजानः सर्व एव हि ॥१०॥तमंशुमान् महाबाहुर्विव्याध दशभिः शरैः ।श्रुतर्वा पञ्चभिः क्रुद्धो वेणुदारिश्च सप्तभिः ॥११॥ततोऽशुमन्तं गोविन्दो बिभेदोरसि वीर्यवान् ।निषसाद रथोपस्थे व्यथितः स नराधिपः ॥१२॥श्रुतर्वणो जघानाश्वांश्चतुर्भिश्चतुरः शरैः ।वेणुदारेर्ध्वजं छित्त्वा भुजं विव्याध दक्षिणम् ॥१३॥तथैव च श्रुतर्वाणं शरैर्विव्याध पञ्चभिः ।शिश्रिये स ध्वजं शान्तो न्यषीदच्च व्यथान्वितः ॥१४॥मुञ्चन्तः शरवर्षाणि वासुदेवं ततोऽभ्ययुः ।क्रथकैशिकमुख्याश्च सर्व एव महारथाः ॥१५॥बाणैर्बाणांश्च चिच्छेद तेषां युधि जनार्दनः ।जघान चैषां संरब्धः पतमानांश्च ताञ्छरान् ॥१६॥पुनरन्यांश्चतुःषष्ट्या जघान निशितैः शरैः ।क्रुद्धानापततो वीरानद्रिवत् स महाबलः ॥१७॥विद्रुतं स्वबलं दृष्ट्वा रुक्मी क्रोधवशंगतः ।पञ्चभिर्निशितैर्बाणैर्विव्याधोरसि केशवम् ॥१८॥सारथिं चास्य विव्याध सायकैर्निशितैस्त्रिभिः ।आजघान शरेणास्य ध्वजं च नतपर्वणा ॥१९॥केशवस्त्वरितं दृष्ट्वा क्रुद्धो विव्याध मार्गणैः ।धनुश्चिच्छेद चाप्यस्य यतमानस्य रुक्मिणः ॥२०॥अथान्यद् धनुरादाय रुक्मी कृष्णजिघांसया ।प्रादुश्चकार चान्यानि दिव्यान्यस्त्राणि वीर्यवान् ॥२१॥अस्त्रैरस्त्राणि संवार्य तस्य कृष्णो महाबलः ।पुनश्चिच्छेद तच्चापं रथेषां च त्रिभिः शरैः ॥२२॥स च्छिन्नधन्वा विरथः खड्गमादाय चर्म च ।उत्पपात रथाद् वीरो गरुत्मानिव वीर्यवान् ॥२३॥तस्याभिपततः खड्गं चिच्छेद युधि केशवः ।नाराचैश्च त्रिभिः क्रुद्धो बिभेदैनमथोरसि ॥२४॥स पपात महाबाहुर्वसुधामनुनादयन् ।विसंज्ञो मूर्च्छितो राजा वज्रेणेव महासुरः ॥२५॥तांश्च राज्ञः शरैः सर्वान् पुनर्विव्याध माधवः ।रुक्मिणं पतितं दृष्ट्वा व्यद्रवन्त नराधिपाः ॥२६॥विचेष्टमानं तं भूमौ भ्रातरं वीक्ष्य रुक्मिणी ।पादयोर्न्यपतद् विष्णोर्भ्रातुर्जीवितकाङ्क्षिणी ॥२७॥तामुत्थाप्य परिष्वज्य सान्त्वयामास केशवः ।अभयं रुक्मिणे दत्त्वा प्रययौ स्वपुरीं ततः ॥२८॥वृष्णयोऽपि जरासंधं भङ्क्त्वा तांश्चैव पार्थिवान् ।प्रययुर्द्वारकां हृष्टाः पुरस्कृत्य हलायुधम् ॥२९॥प्रयाते पुण्डरीकाक्षे श्रुतर्वाभ्येत्य संगरे ।रुक्मिणं रथमारोप्य प्रययौ स्वां पुरीं प्रति ॥३०॥अनानीय स्वसारं तु रुक्मी मानमदान्वितः ।हीनप्रतिज्ञो नैच्छत् स प्रवेष्टुं कुण्डिनं पुरम् ॥३१॥विदर्भेषु निवासार्थं निर्ममेऽन्यत् पुरं महत् ।तद् भोजकटमित्येव बभूव भुवि विश्रुतम् ॥३२॥तत्रौजसा महातेजा दक्षिणां दिशमन्वगात् ।भीष्मकः कुण्डिने चैव राजोवास महाभुजः ॥३३॥द्वारकां चापि सम्प्राप्ते रामे वृष्णिबलान्विते ।रुक्मिण्याः केशवः पाणिं जग्राह विधिवत्प्रभुः ॥३४॥ततः सह तया रेमे प्रियया प्रीयमाणया ।सीतयेव पुरा रामः पौलोम्येव पुरंदरः ॥३५॥सा हि तस्याभवज्ज्येष्ठा पत्नी कृष्णस्य भामिनी ।पतिव्रता गुणोपेता रूपशीलगुणान्विता ॥३६॥तस्यामुत्पादयामास पुत्रान् दश महारथान् ।चारुदेष्णं सुदेष्णं च प्रद्युम्नं च महाबलम् ॥३७॥सुषेणं चारुगुप्तं च चारुबाहुं च वीर्यवान् ।चारुविन्दं सुचारुं च भद्रचारुं तथैव च ॥३८॥चारुं च बलिनां श्रेष्ठं सुतां चारुमतीं तथा ।धर्मार्थकुशलास्ते तु कृतास्त्रा युद्धदुर्मदाः ॥३९॥महिषीरष्ट कल्याणीस्ततोऽन्या मधुसूदनः ।उपयेमे महाबाहुर्गुणोपेताः कुलोद्भवाः ॥४०॥कालिन्दीं मित्रविन्दां च सत्यां नाग्नजिनीमपि ।सुतां जाम्बवतश्चापि रोहिणीं कामरूपिणीम् ॥४१॥मद्रराजसुतां चापि सुशीलां शुभलोचनाम् ।सात्राजितीं सत्यभामां लक्ष्मणां चारुहासिनीम् ।४२॥शैब्यस्य च सुतां तन्वीं रूपेणाप्सरसोपमाम् ।स्त्रीसहस्राणि चान्यानि षोडशातुलविक्रमः ॥४३॥उपयेमे हृषीकेशः सर्वा भेजे स ताः समम् ।परार्ध्यवस्त्राभरणाः कामैः सर्वैः सुखोचिताः ।जज्ञिरे तासु पुत्राश्च तस्य वीराः सहस्रशः ॥४४॥शास्त्रार्थकुशलाः सर्वे बलवन्तो महारथाः ।यज्वानः पुण्यकर्माणो महाभागा महाबलाः ॥४५॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रुक्मिणीहरणं नाम षष्टितमोऽध्यायः ॥६०॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP